संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ४० सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ४० सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ४० Translation - भाषांतर ऋषय ऊचु - सूत भद्रं समाचक्ष्व सेवको यस्य माधवः ।श्रीमहेशस्य विष्णोश्च तुल्यत्वं ब्रुवते कथम् ॥१॥ब्रुवन्ति तुल्यतां केचिद्वैपरीत्येन केचन ।एकत्वं केचिदीशेन केशवस्य वदन्ति हि ॥२॥अत्र सिद्धान्तमर्यादां ब्रूहि तत्त्वेन सूतज ।अवाधां येन चास्माकं संशयो विनिवर्तते ॥३॥सूत उवाच - शृण्वन्तु ऋषयः सर्वे श्रुतिसिद्धान्तमुत्तमम् ।महेशान्न परं तत्त्वं सर्ववेदेपु गीयते ॥४॥वैकुण्ठप्रमृतीनां तु महेशकृपया पुनः ।महेशल्य च दासोऽयं विष्णुस्तेनानुकम्पितः ॥५॥श्रुतिस्मृतिपुराणानां सिद्धान्तोऽयं यथार्थतः ।इन्द्रोपेन्द्रादयः सर्वे महेशस्यैव किंकराः ॥६॥वेदान्तवेद्यमीशानं पार्वतीरमणः प्रभुम् ।यो जानाति स वैकुण्ठो दुःखहा सर्वदेहिनाम् ॥७॥वैकुण्ठं मन्यते सम्यगीशानं स पुरंदरः ।य इन्द्रं मन्यते सर्वस्यामिनं स ऋषिर्मतः ॥८॥स्वर्गलोकं समाप्नोति मुन्याज्ञाप्रतिपालकः ।अद्वैतं शिवमीशानमज्ञात्वा नैव मुच्यते ॥९॥घोरे कलियुगे प्राप्ते श्रीशंकरपराड्मुखा ।भविष्यन्ति नरास्तथ्यमिति द्वैपायनोऽब्रवीतं ॥१०॥रुद्रक्रोधाग्निनिर्दग्धे मन्मथे तस्य भार्यया ।रत्या विलपिते तस्य सखायोऽप्यतिदुःखिताः ॥११॥वसन्तादय आगत्य तामूचुः किं विधीयते ।सर्वलोकेशितुः शंभोवंराका वैरवा(का)रणे ॥१२॥रतिरुवाच - मन्येत धातकः स्रर्वेर्लोकेऽपूज्यो भवेदयम् ।तथा विघ्नः प्रकर्तव्यो येन केनापि हेतुना ॥१३॥अस्यापकीर्तिर्वक्त्यव्या न चलेद्यदि किंचन ।तेन मे दुःखशान्तिः स्यात्किचिन्मात्रं न चान्यथा ॥१४॥वसन्तादय ऊचु - चतुर्दशसु विद्यासु गीयते चन्द्रशेखरः ।वेदान्ता यं च गायन्ति मुनयः शंसितव्रताः ॥१५॥ब्रह्माद्या देवताः सर्वा इन्द्रोपेन्द्रादयस्तथा ।न्यूनतां तस्य यो ब्रूते कर्मचाण्डाल उच्यते ॥१६॥तेन तुल्यो यदा विष्णुर्ब्रह्मा वा यदि गद्यते ।षष्टिवर्षसहस्त्राणि विष्ठायां जायते कृमिः ॥१७॥तुल्यता यदि नो शक्या न्यूनतायास्तु का कथा ।मित्रस्याऽऽनृण्यगिच्छामः संकटं प्रतिभाति नः ॥१८॥सूत उवाच - विचार्येवं तदा सर्वे महामोहपुरःसराः ।तपस्तेपूर्महारौद्रं सर्वलोकभयंकरम् ॥१९॥कदाचिद्भगवान्ब्रह्मा प्रादुरासीद्दयानिधिः ।मोहो दम्भस्तथा क्रोधो लोभस्ते सेवकाः कलेः ॥२०॥पञ्चमो हेतुवादश्च मधुना सर्व आश्रिताः ।तानुवाच ततो ब्रह्मा वृणीध्वं मनसेप्सितम् ॥२१॥यथा वाणीच भवतां तथाऽहं दातुमुद्यतः ।मोहाद्या ऊचु - अस्माकं परगं मित्रं कंदर्पो नाशितः प्रभो ॥२२॥गहादेवेन तेनामी आनृण्यं कर्तुमुद्यताः ।भविष्यामो वयं तात रुद्रपूजाभिनिन्दकाः ॥२३॥यथा न लभते पूजामस्मत्तश्चन्द्रशेखरः ।ब्रह्मोवाच - अधुना न भवेदेवं भविष्यत्यथ तच्चिरम् ॥२४॥भविप्याम इति प्रोक्तं भवत्तो नान्यथा क्कचित् ।ये भवद्वशगा लोकास्तेभ्यः पूजा न धूर्जटेः ॥२५॥प्रार्द्यितोऽयं बरो दत्तो यथेष्टं कर्तुमर्हथ ॥२६॥सूत उवाच - इत्युक्त्वा तानथो ब्रह्मा तत्रैवान्तरधीयत ।सर्वे ते मन्त्रयांचक्रुः कलिना सह दुःखिताः ॥२७॥कलिरुवाच - भवद्भिरधुना नोक्तं भविष्याम इतीरितम् ।ततो मत्समये प्रपते सर्वमेव भविप्यति ॥२८॥अस्मत्त इति यत्प्रोक्तं तेन चास्मद्वशे स्थिताः ।निन्दाकरा भविष्यन्ति नारमान्यो मन्यते न सः ॥२९॥लोभमोहादिसंयुक्ताः प्राप्ते च मयि दारुणे ।हेतुवादं पुररस्कृत्य शिवभक्तिपराड्मुखाः ॥३०॥सूत उवाच - ततः कलियुगे प्राप्ते सर्वधर्मविवर्जिते ।म्लेच्छैर्ब्राह्मणधेनूनां विध्वंसनकरे खरे ॥३१॥अस्वाध्यायवष्ट्कारे जैनबौद्धादिसंकुले ।ब्राह्मणे भ्लेच्छमार्गस्थे शूद्रे ब्राह्मणघातिनि ॥३२॥तदां वसन्तः कर्णाटतिलङ्गादिकदूषकः ।मधुनामा च विधवाक्षेत्रे विप्राद्भविष्यति ॥३३॥गोलकः त तु पापिष्ठः पद्मपादुकमीश्वरम् ।वेदान्तब्याख्यानरतं शिष्यत्वेनाxxयिष्यति ॥३४॥शास्त्रं पूर्णं ततोऽधीत्य स्थित आह्निकवर्जितः ।किमग्निहोत्रं को यागो हेतुमेव करिष्यति ॥३५॥गुरुराकर्ण्य तद्वाक्यं ब्राह्मणो न भवेदयम् ।इति निश्चित्य तं दुष्टं वक्ष्यति श्रुततद्वचाः ॥३६॥गुरुरुवाच - को वर्णस्तव मे ब्रूहि यथार्थं वेददूषक ।कर्मब्रह्मोद्भवद्वेष्टा नोत्पत्तिर्ब्राह्मणात्तव ॥३७॥मधुरुवाच - ब्राह्मणादहमुत्पन्नो ब्राह्मण्यां च न संशयः ।सत्यं वदामि नो मिथ्या कथं मां पश्यसे गुरो ॥३८॥गुरुरुवाच - त्वन्माता केन दत्ता रे कस्य पुत्री कदा कयम् ।कस्मै दत्ता च विधिना केन तत्ब्रूहि मा चिरम् ॥३९॥मधुरुवाच - विधवा जननी नाथ ब्राह्मणेन तपस्विना ।गभिंणी समभूत्तस्मादयं देहस्ततोऽभवत् ॥४०॥गुरुरुवाच - कपटेन यतः शास्त्रं मत्तोऽधीतं दुरात्मना ।तेन सिद्धान्तमर्यादा कदाचिन्मा स्फुरत्वियम् ॥४१॥गधुरुवाच - भविष्यति महाभाग वचनं तव नान्यथा ।पूर्वपक्षो मम हृदि प्रादूर्भवतु निश्चलः ॥४२॥गुरुरुवाच - अन्धता तव सिद्धान्ते पूर्वपक्षे च पाटवम् ।भवत्वेव परं त्वेकं पापाः शिष्या भवन्तु ते ॥४३॥मोहात्सिद्धान्तरहिता लोभात्ते नृपसेवकाः ।क्रोधात्कठिनवक्तारो दxxद्वेषेण सुन्दराः ॥४४॥हेतुवादेन शास्त्राणि सर्वाणि न विदन्ति ते ।निरयेष्वेव घोरेषु गमिष्यन्त्यचिराच्चिरम् ॥४५॥सूत उवाच - मधुनामा ततः प्राप्य शापं तं दुष्टबुद्धिमान् ।वादरायणसूत्राणां व्याख्यानं स करिष्यति ॥४६॥मध्वाचार्यस्ततो भावाद्दाक्षिणात्यो महान्कलौ ।तच्छिष्याः प्रतिशिष्याश्च नाऽऽर्यावर्ते न चोत्कले ॥४७॥न गौडे न च गङ्गायास्तीरे गोदावरीतटे ।नार्बुदारण्यमध्ये च तत्प्रचारो भविष्यति ॥४८॥यथा यथा कलेर्घोरः प्रचारो हि भविष्यति ।तथा तथा महाराष्ट्रे हैतुका विरलाः क्कचित् ॥४९॥ततोऽतिदुष्टसमये महाम्लेच्छैस्तिरस्कृते ।प्रच्छन्नः कुत्रचित्पापी प्रचारं हि विधास्यति ॥५०॥पञ्चवर्षस्तु संन्यासी पठित्वा दुष्टबुद्धिमान् ।शिष्योपशिष्यसंयुक्तो हेतुवादं करिष्यति ॥५१॥तत्त्वं संसार इत्येव न बाध्यः सत्य एव हि ।तदत्यतस्तत्त्ववादी मिथ्यावादी स उच्यत ॥५२॥मिथ्याभूतः प्रपञ्चोऽयं मया निर्मित इष्यते ।मायावादिन इत्येते वस्तुतस्तत्त्ववदिनः ॥५३॥सच्छास्रं जैमिनीयं तु कर्मकाण्डप्रवतकम् ।गौतमीयं तु सच्छास्रभीश्वरप्रतिपादकम् ॥५४॥पुंस्प्रकृत्योर्विवेकस्य बोधकं कापिलं मतम् ।तथा वैशेषिकं शास्त्रमीश्वरप्रतिपादकम् ॥५५॥पातञ्जलं योगशास्त्रं शैव तच्छास्त्रमिष्यते ।वेदान्तशास्त्रमूर्धन्यमद्वैतं यच्च बोधयेत् ॥५६॥वेदाः सर्वे षडङ्गास्तु पुराणानीतिहासकः ।स्मृतिश्चोपुराणानि तथोपस्मृतयः शुभाः ॥५७॥अन्योन्यं सर्वविद्याना प्रामाण्यमधिकारतः ।तात्पर्यं च पुमर्थेषु सर्वोण्येवं जगुः किल ॥५८॥किंचिद्विरोधे सत्येव न विरोधोऽस्ति तत्त्वतः ।मन्यन्ते श्रीमहेशानं सर्वाण्येव परात्परम् ॥५९॥पापिष्ठा नैव मन्यन्ते वेदमार्गबहिष्कृताः ।आचार्यं मधुनामानं वदन्तो विधवासुतम् ॥६०॥मोहात्सिद्धान्तबाह्यत्वं क्रोधाच्छास्त्रनिषेधनम् ।प्रच्छन्नोऽसौ महादुष्टश्चार्वाको मधुसंज्ञकः ।भविष्यति कलौ विप्राः शिवनिन्दाप्रवर्तकः ॥६१॥लोभेन नृपतेः सेवा दम्भादन्यप्रतारणम् ॥६२॥गणिकामैथुनं कामाद्धेतुवादेन वादिता ।भविष्यति कलौ विप्राः षोढेयं तत्त्ववादिता ॥६३॥पञ्चवर्षं यतिं कृत्वा क्रमेणाऽऽदाय बालकम् ।माठापत्यं विधास्यन्ति द्रव्यलोभेन नास्तिकाः ॥६४॥पारम्पर्यं मठस्यैव रक्षिष्यन्त्यभिरागिणः ।भोगासक्ताश्च पापिष्ठा दासीगमनकारिणः ॥६५॥नाम्ना संन्यासिनस्तीर्थे यानारूढाः ससेवकाः ।नरवाहनमारूढाः शिखासूत्रबहिष्कृताः ॥६६॥तत्पक्षपातिनो मूढा गृहस्थाः शिवनिन्दकाः ।मिथ्या वैष्णवमानेन ग्रस्ता निरयगामिणः ॥६७॥वैष्णवा वेषमात्रेण तन्तुमात्रेण वाडवाः ।वादिनः क्रोधमात्रेण विद्वांसो हेतुवादतः ॥६८॥पठिष्यन्ति च शास्त्राणि केचिद्दूषणासिद्धय ।स्वकीयं गोपयिष्यन्ति परकीयेण पxxxः ॥६९॥सूत उवाच - महामोहादयः सर्वे रतिमाश्वास्य भामिनीम् ।प्रोचुश्च श्लक्ष्णया वाचा तद्दुःखबिनिवारकाः ॥७०॥मोहादय ऊचु - रते मा कुरु संतापमहं मोहः कलेः सखा ।क्रोधः पत्युः परो बन्धुर्लोभमोहौ च देवरौ ॥७१॥प्राप्ते कलियुगे पूर्णे मोहलोभादयो वयम् ।वसन्तं मधुनामानमवतीर्णं च दक्षिणे ॥७२॥समाश्रित्य ततो हेतुवादं कुटिलबुद्धयः ।करिष्यामो यथा शक्यं शिवपूजानिवारणम् ॥७३॥सूत उवाच - इति ते रतिमाश्वास्य यथागतमितो गताः ।इति सर्वं समाख्यातं शिवनिन्दककारणम् ॥७४॥१९७२॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महेशविष्णुतुल्यत्वकारणादिकथनं नाम चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP