संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ८

सौरपुराणं - अध्यायः ८

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
त्रिलोचनात्परं लिङ्गं वारानस्यां न दृश्यते ।
सदा संनिहितो नित्यं यस्मिंल्लिङ्गे शिवः स्थितः ॥१॥
यानि स्थितानि लिङ्गानि वाराणस्यां द्विजोत्तमाः ।
दृष्टान्मेव भवन्त्येव दृष्टे लिङ्गे त्रिलोचने ॥२॥
असंख्यातानि पापानि ज्ञानतोऽज्ञानतोऽपि वा ।
कृतानि नाशयत्येवं देवदेवखिलोचनः ॥३॥
मायापाशेन बद्धानां सर्वेषां प्राणिनामपि ।
मुक्तिं ददाति परगां देवदेवस्त्रिलोचनः ॥४॥
पश्चिमाभिमुखं लिङ्गं सर्पमेखलमण्डितम् ।
तस्य दर्शनमात्रेण कोटिलिङ्गार्चनं फलम् ॥५॥
त्रिलोचनं सुसंपूज्य कृष्णद्वैपायनो मुनिः ।
ययौ कामेश्वरं द्रष्टुं सिद्धलिङ्गमनुत्तमम् ॥६॥
ददौ दुर्वाससे यत्र देवदेवो महेश्वरः ।
प्रसन्नो विविधाः सिद्धीः सर्वेषां तपसामपि दुर्लभाः ॥७॥
अन्यश्चापि वरो दत्तो देवदेवेन शूलिना ।
कृतानां क्रियमाणानां सर्वेषां तपसामपि ॥८॥
क्रोधो नाशकरः प्रोक्तो ह्यन्यथैव मुनेऽस्तु ते ।
तस्य दक्षिणदिग्भागे कामकुण्डमिति स्मृतम् ॥९॥
तत्र स्नात्वा नरो भक्त्या दृष्ट्वा कामेश्वरं शिवम् ।
ब्रह्महत्यादिभिः पापैर्मुक्तो याति परां गतिम् ॥१०॥
अन्यान्यपि च लिङ्गानि वाराणस्यां स्थितान्यपि ।
संख्यामपि न जानाति तेषां देवश्चतुर्मुखः ॥११॥
को वा वदति माहात्म्यमृते देवान्महेश्वरात् ।
नन्दीश्वरो वा जानाति प्रसादाद्गिरिजापतेः ॥१२॥
अथ सत्यवतिसूनुंर्द्रष्टुं देवीं शिवां पराम् ।
विशालाक्षीं द्विजश्रेष्ठा यत्र संनिहिता शिवा ॥१३॥
तां दृष्ट्वा विधिवद्भक्त्या संपूज्य च महागुनिः ।
परानन्दात्मिकां मौरीं स्तुतिं मत्वा चकार सः ॥१४॥
व्यास उवाच -
विशालाक्षि नमस्तुभ्यं परब्रह्मात्मिके शिवे
त्वमेव माता सर्वेषां ब्रह्मादीनां दिवोकसाम् ॥१५॥
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्वमेव हि ।
ऋज्वी कुण्डलिनी सूक्ष्मा योगसिद्धिप्रदायिनी ॥१६॥
स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती ।
सती दाक्षायणी विद्या सर्वशक्तिमयी शिवा ॥१७॥
अपर्णा चैकपर्णा च तथा चैकैकपाटला ।
उमा हैमवती चापि कल्याणी चैव मातृका ॥१८॥
ख्यातिः प्रज्ञा महाभागा लोके गौरीति विश्रुता ।
गणाम्बिका महादेवी नन्दिनी जातवेदसी ॥१९॥
सावित्री वरदा पुण्या पावनी लोकविश्रुता ।
आयती नियती रौद्री दुर्गा भद्रा प्रमाथिनी ॥२०॥
कालरात्री महामाया रेवती भूतनायिका ।
गौतमी कौशिकी चाऽऽर्या चण्ढी कात्यायनो सती ॥२१॥
वृषध्वजा शूलधरा परमा ब्रह्मचारिणी ।
महेन्द्रोपेन्द्रमाता च पार्वती सिंहवाहना ॥२२॥
एवं स्तुत्वा विशालाक्षीं दिव्यैरेतैः सुनामभिः ।
कृतकृत्योऽभद्व्यासो वाराणस्यां द्विजोत्तमाः ॥२३॥
वाराणस्यां विशालाक्षी गङ्गा विश्वेश्वरः शिवः ।
भक्तिः पशुपतौ तत्र दुर्लभं हि चतुष्टयम् ॥२४॥
यः पश्यति विशालाक्षीं स्नात्वा गङ्गाम्भसि द्विजाः ।
अश्वमेधसहृस्त्रस्य फलमाप्नोत्यनुत्तमम् ॥२५॥
वाराणस्यास्तु माहात्म्यमिति किंचिन्मयोदितम् ।
यः पठेच्छृणुयाद्वाऽपि याति माहेश्वरं पदम् ॥२६॥३३५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे त्रिलोचन माहात्म्यादिकथनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP