संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ५८

सौरपुराणं - अध्यायः ५८

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
अथासौ हिमवान्विप्रा देवीमात्मसुतामुमाम् ।
प्रदानार्थं महेशाय संप्राप्तो मन्दरं क्षणात् ॥१॥
आह दृष्ट्वा गिरिं नन्दी देवदेवं पिनाकिनम् ।
वक्तुकामः समायातो भगवान्पर्वतेश्वरः ॥२॥
श्रुत्वा तु वचनं श्लक्ष्णं व्यक्तं नन्दीमुखात्तदा ।
मेघगम्भीरया वाचा महादेवोऽब्रवीदिदम् ॥३॥
वदत्वयं गिरिश्रेष्ठो हृदये यत्प्रतिष्ठितम् ।
कामस्तस्य ( स्या ) चिरादेव भविष्यति न संशयः ॥४॥
एवमुक्तस्तदा विप्रा देवदेवेन शंभुना ।
उवाच मिरिशार्दूलो भूत्वाऽग्रेऽवनताञ्जलिः ॥५॥
हिमवानुवाच -
याऽऽसीत्पूर्वं च ते पत्नी साऽवतीर्णा गृहे मम ।
तामेव तव दानार्थमागतोऽस्मि महेश्वर ॥६॥
अमी ब्रह्मादयो देवास्त्वत्समीपमिहाऽऽगताः ।
\किं गोत्रमिति पृच्छामि ह्येषामग्रे विभो वद ॥७॥
श्रुत्वा तु भारतीं तस्य विश्वेशो विश्ववन्दितः ।
किं गोत्रमिति संचिन्त्य नोत्तरं प्रससर्ज ह ॥८॥
दृष्ट्वा निरुत्तरं शंभुं जहसुर्देवदानवाः ।
एष एव जगद्योनिर्गोत्रमस्य कथं भवेत् ॥९॥
इत्युचुर्विबुधाः सर्वे हिमवन्तं नगोत्तमम् ।
देवानां च वचः श्रुत्वा गिरिराजोऽब्रवीदिदम् ॥१०॥
विश्वेश्वरं परं धाम परमात्मानमव्ययम् ।
शाश्वतं गिरिशं स्थाणुं विश्वाकारं सनातनम् ॥११॥
दत्ता दत्ता पुनर्दत्ता उमा सत्येन ते प्रभो ।
ततो महान्रवो विप्रा जयशब्दादिमङ्गलैः ॥१२॥
दुन्दुभीनां च वाद्यानामभवत्सागरोपमः ।
गृहीतेति शिवः प्राह पार्वती पर्वतेश्वरम् ॥१३॥
तद्धरते भगवाञ्शंभुरङ्गुलीयं प्र [ न्य ] वेशयत् ।
इमं च कलशं हैममादाय त्वं नगोत्तम ॥१४॥
याहि गत्वा त्वनेनैव तामुमां स्नापय त्वरा ।
अन्येषां परिहारार्थमेष एव विधिः सदा ॥१५॥
जगत्त्रयेऽपि नूनं स्याद्व्रज तूर्णं नराधिप ।
ततस्तुष्टो महाशैलोऽभोजयत्सुसमाहितः ॥१६॥
एवं यज्ञरतो विप्रास्तर्पणाय चराचरान् ।
अभवद्देवमुद्दिश्य शंकरं स गिरिस्तदा ॥१७॥
तथाऽस्मिन्नन्तरे देवो धर्मकेतुर्महश्वरः ।
उत्थितो मुनिशार्दूलाः समालोक्य च शाङ्गिंणxx ॥१८॥
अभवज्जयशब्दानां तुमुलो हि महांस्तदा ।
पुष्पवृष्टिनिपातश्च सत्यलोकाद्द्विजोत्तमाः ॥१९॥
नानावनाधिपाश्चैव ऋतवश्च मुदान्विताः ।
कुसुमैर्दिव्यगन्धाढ्यैर्ववृषुर्मेघवृन्दवत् ॥२०॥
वीणावेणुमृतङ्गानां दुन्दुभीनां ततो रवः ।
हरिर्विरञ्चिशक्राद्याः पूरंयन्ति सुरास्तदा ॥२१॥
विप्रास्त्रलोक्यनादेन वेदघोषं प्रचक्रिरे ।
गायत्री चैव सावित्री रुद्रकन्यास्तथैव ॥२२॥
विद्याधर्योऽथ नागिन्यो देवानां च तथाऽङ्गानाः ।
सिद्धकन्या मनोहार्या यक्षकन्यास्तथैव च ॥२३॥
मातरः सप्त याश्चैव याश्च नक्षत्रमातरः ।
गिरीणां च तथा नार्यः समुद्राश्च सरांसि च ॥२४॥
मङ्गलं गायमानाश्च अर्घमष्टाङ्गसंयुतम् ।
सुप्रहृष्टा ददुः सर्वा देवदेवस्य पादयोः ॥२५॥
एतस्मिन्नन्तरे विप्रा हिमवत्संप्रणोदितः ।
मैनाकस्तत्र संप्राप्तो हेमकुम्भकरः सधीः ॥२६॥
सालङ्कायनपौत्रस्य गत्वा तस्याग्रतः स्थित ।
तेनापि देवदेवेस्य ज्ञापितो गिरिरव्रतः ॥२७॥
अथासौ भगवान्देवो मङ्गलेशो जलाशयः ।
स्नापयद्वेधसा युक्तः समुद्रैः शूलपाणीनम् ॥२८॥
स्नाप्यमाने तदा देवे नद्यो वै सागरा द्विजाः ।
बभूवः सलिलैर्युक्ताः कृशाङ्गाः स्वेदसंयुताः ॥२९॥
अथ ते त्रिदशाः सर्वे सनारायणका द्विजाः ।
परं विस्मयमापन्ना भवं पश्यन्ति चाद्भुतम् ॥३०॥
ततो निलीयमानास्तु शरीरे शंकरस्य तु ।
नद्यः सर्वाः समुद्राश्च प्रपश्यन्ति सुविस्मिताः ॥३१॥
योगमायाहतं वीक्ष्य तत्तोयं जगति स्थितम् ।
अस्तुवन्पशुभर्तारं ब्रह्माद्या देवतागणाः ॥३२॥
ततस्तैस्तु स्तुतो देवः प्रहस्य भगवान्भवः ।
विसृज्य ष तदा तोयमभवत्पूर्वरूपधृत् ॥३३॥
एवं साम्ये स्थिते तस्मिन्देवदेवे पिनाकिनि ।
स्नापितोऽसौ विरञ्चाद्यैस्त्रिमूर्तिर्भगवान्भवः ॥३४॥
मैनाकोऽप्यञ्जलिं कृत्वा देवदेवस्य चाग्रतः ।
संस्थितो हर्षसंयुक्तो निधिं लब्ध्वा यथाऽधनः ॥३५॥
विसर्जितस्ततस्तेन देवदेवेन शंभुना ।
त्रैलोक्यतिलके तस्मिन्ययौ तूर्णं नगात्मजः ॥३६॥
तदंशुकं परिधाप्य देवीं तामरसेक्षणाम् ।
स्नापयंस्तेन कुम्भेन हराङ्घ्रिपतितेन च ॥३७॥
नीरपातं द्विजश्रेष्ठाः कृतमेतत्कपर्दिना ।
पार्वतेयविधिर्नूनं कुलजानां सदाऽनघः ॥३८॥
ततो बह्गवती देवी हृष्टपुष्टा तपोमयी ।
पितुरभ्याशगा भूत्वा विवेश परमासने ॥३९॥३२०५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहवर्णनं नामाष्टषञ्चाशोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP