संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ४६ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ४६ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ४६ Translation - भाषांतर सूत उवाच - वक्ष्यामि शिवमाहात्म्यं शृणुध्वं मुनिपुंगवाः ।बहुभिर्बहुधा शास्त्रैः कीर्तितं मुनिपुंगवैः ॥१॥सदसद्रूपमित्याहुः सदसच्चापि संस्थितम् ।तं शिवं मुनयः केचिद्यं प्रपश्यन्ति सूरयः ॥२॥भूतभावविकारणे द्वितीयेन सदुच्यते ।अव्यक्तेन विहीनं स्यादव्यक्तमसदित्यपि ॥३॥उभे ते शिवरूपेण शिवादन्यन्न विद्यते ।तयोः पतित्वाच्च शिवः सदसत्पतिरुच्यते ॥४॥क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा ।शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिन्तकाः ॥५॥उत्कमक्षरमव्यक्तं व्यक्ताक्षरमुदाहृतम् ।रूपे ते शंकरस्यैव तन्नाम्ना परमुच्यते ॥६॥तयोः परः शिवः शान्तः क्षराक्षरपरो बुधैः ।उच्यते परमार्थेन महादेवो महेश्वरः ॥७॥समाष्टिव्यष्टि यद्रूपं समष्टिव्यष्टिकारणम् ।वदन्ति केचिदाचार्याः शिवं परमकारणम् ॥८॥समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तिं मुनीश्वराः ।रूपे ते गदिते शंभोर्नास्त्यन्यद्वस्तु किंचन ॥९॥तयोः कारणभावेन शिवो हि परमेश्वरः ।उच्यते योमशास्त्रज्ञैः समष्टिव्यष्टिकारणम् ॥१०॥क्षेत्रं क्षेत्रज्ञरूपीति शिवः कैश्चिदुदाहृतः ।परमात्मा परं ज्योतिर्भगवान्परमेश्वरः ॥११॥चतुर्विशतितत्त्वानि क्षेत्रशब्देन सूरयः ।प्राहुः क्षेत्रज्ञशब्देन भोक्तारं परमेश्वरम् ॥१२॥न किंचिच्च शिवादन्यदिति माहुर्मनीपिणः ।केचिदेवं प्रशंसन्ति महादेवं मुनीश्वरम् ॥१३॥वेदार्थतत्त्वविदुषः सम्यक्श्रुत्यनुसारतः ।प्राणेन प्राणिति ह्यसावपानेन ह्यपानिति ॥१४॥ब्यानेन व्यानिति तथा चोदानेन ह्युदानिति ।समानिति समानेन मन्वीति मनसा द्विजाः ॥१५॥बुद्ध्या विचारयत्येष पर एव महेश्वरः ।समस्तकरणैर्युक्तो वर्ततेऽसौ यदा तदा ॥१६॥जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ।यदाऽन्तःकरणैर्युक्तः स्वेच्छया विचरत्यसौ ॥१७॥सुप्त इत्युच्यते ह्यात्मा स्वयं तापविवर्जितः ।न बाह्यकरणैर्युक्तो न चान्तःकरणैस्तथा ॥१८॥सर्वोपाधिविनिर्मुक्तः पुण्यपापविवर्जितः ।स स्वरूपे सदा ह्यास्ते सुषुप्त इति गीयते ॥१९॥स्वप्नान्तं चैव बुद्धान्तं विचरत्येष शंकरः ।नदीतले यथा मत्स्बो गत्वाऽऽगत्य निवर्तते ॥२०॥श्येनो वाऽथ सुपर्णो वा श्रान्तः पर्वतकन्दरे ।शेते संहृत्य पक्षौ च प्रत्यगात्मा हृयं तथा ॥२१॥जाग्रत्स्वप्नगता भावास्तेषु शान्तो मुहुर्मुहुः ।संप्रसादं ततः प्राप्य परानन्दमयो भवेत् ॥२२॥अविद्ययैव सर्वोऽयं व्यवहारः परात्मनः ।गुणधर्मौ यदि स्यातां सुषुप्तौ रहितः कथग् ॥२३॥सत्यां निमित्तभूतायामविद्यायां द्विजोत्तमाः ।बुद्धौ भ्रमन्त्यामात्माऽपि भ्रमतीति जना विदुः ॥२४॥नित्यः सर्वगतो ह्यात्मा बुद्धिसंनिधिमत्तया ।यथा यथा भवेद्बुद्धिरात्मा तद्वदिहेष्यते ॥२५॥विद्याविद्यास्वरूमीति शंकरः कैश्चिदुच्यते ।धाता विधाता लोकानामादिदेवो महेश्वरः ॥२६॥भ्रान्तिविद्यापरश्चेति शिवरूपमनुत्तमम् ।अवाष मनसा सोऽयं केचिदागमवेदिनः ॥२७॥अर्थेषु बहुरूपेषु विज्ञानं भ्रान्तिरुच्यते ।आत्माकारेण संवित्तिर्बुद्धिर्विद्येति कीर्त्यते ॥२८॥विकल्परहितं तत्त्वं परमित्यभिधीयते ।व्यक्ताब्यक्तज्ञरूपीति शिवः कैचिन्निगद्यते ॥२९॥धाता च सर्वलोकानां विधाता परमेश्वरः ।तयोविंशतितत्त्वानि व्यक्तिशब्देन सूरयः ॥३०॥वदन्ति व्यक्तशब्देन प्रकृतिं च परां तथा ।कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिनम् ॥३१॥तत्र यच्छांकरं रूपं नाव्यक्तं न च शंकरात् ।यो हेतुस्त्रिगुणस्यापि सर्वस्य प्रकृतेः परः ॥३२॥चतुर्विधश्च त्रिविधः स एव भगवाञ्शिवः ।स एव सर्वभूतात्मा सर्वभूतभवोद्भवः ॥३३॥* ( कझसंज्ञितुपुस्तकयोरयं श्लोको न विद्यते । ) * आस्ते सर्वगतो देवो न च सर्वत्र दृश्यते । योगिनामपि यो योगी कारणानां च कारणम् ॥३४॥रुद्राणामपि यो रुद्रो द्रेवतानां च देवता ।ब्रह्माद्या अपि यं देवं न विदन्ति महेश्वरम् ॥३५॥यं ज्ञात्वा न पुनर्जन्म मरणं वाऽपि विद्यते ॥३६॥यदाऽऽपदो देहभृतां भवन्ति प्राणात्ययप्राप्तिकृतस्तदानीम् ।विहाय देवं जगदेकबन्धुं शिवं न चान्यः षरिहारहेतुः ॥३७॥आस्ते शिशुर्वरान्सर्वान्सर्वेषां देहिनां सदा (!) । देहभृत्कथ्यते तस्मान्निर्गुणोऽपि महेश्वरः ॥३८॥भूयानत्र गतः कालस्तत्रैकं जन्म गच्छतु ।जिज्ञास्यतामियं तावन्मुक्तिरेकेन जन्मना ॥३९॥भक्त्या भागवतः शंभोरिति देवोऽब्रवीद्रविः ।सकृत्संस्मरणाच्छंभोर्नश्यन्ति क्लेशसंचयाः ॥४०॥मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते ।तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥४१॥शिवं संपूजयेन्नित्यं भक्त्या ह्यात्मोपलब्धये ।मोहनिद्राप्रसुप्तेऽस्मिन्पशुपाशशताकुले ॥४२॥पुरुषाः कृतकृत्यास्ते ये शिवं शरणं गताः ।पुत्रदारगृहक्षेत्रधनधान्यर्धिमेदिनीम् ॥४३॥लब्ध्वेमां मा कृथा दर्पं रे रमां क्षणभङ्गुराम् ।त्यक्त्वा क्रोधं च कामं च लोभं मोहं मदं तथा ॥४४॥जना यजध्वमीशानं समीहितफलप्रदग् ।यावन्नाभ्येति मरणं यावन्नाभ्येति वै जरा ॥४५॥यावन्नेन्द्रियवैकल्यं तावदेवार्चयेश्वरम् ।ये यजन्ति न देवेशं विषयासवमोहिताः ॥४६॥शोचन्ते हि मृताः षङ्कलग्ना वनगजा इव ।कालः संनिहितापायः संपदः पदमापदाम् ॥४७॥समागमाः सापगमाः सर्वमुत्पादितं गुरु ।यजन्ति ये विदित्वैबं लिङ्गपूर्तिमहेश्वरम् ॥४८॥लभन्ते विपुलान्कामानिह चामुत्र चाक्षयान् ।आराधयध्वं विप्रेन्द्राः सर्वज्ञं विश्वतोमुस्त्रम् ॥४९॥क्षिप्रं यास्यथ तेनैव सायुज्यं नात्र संशयः ।भक्त्या भवं यजेद्यस्तु महापातकवानपि ॥५०॥सोऽपि याति परं स्थानं त्रिसप्तपुरुषान्वितः ।अश्वगेधसहस्राणि राजसूयशतानि च ॥५१॥महेशार्चनपुण्यस्य कलां नार्हन्ति षोडशीम् ।क्रीडन्ति शिशवो यत्र लिङ्गं कृत्वा व्रजन्ति ये ॥५२॥सैकतं मृन्मयं वाऽपि ते भवन्त्येव भूभुजः ।आध्यात्मिकं चाऽऽधिदैवं दुःखं चैवाऽऽधिभौतिकम् ॥५३॥देवादीनां विदित्वैवं मोक्षार्थी शिवमर्चयेत् अपारतरपर्यन्ताद्घोरात्संसारसागरात् ।महामोहजलात्कमक्रोधग्राहात्सुखोर्मिणः ॥५४॥प्राज्ञो वेदान्तविद्योगो निर्गमो निरहंकृतिः ।एको योगी प्रशान्तात्मा स संतरति नेतरः ॥५५॥दान्तः सुसयतो ध्याने निराशो विगतस्पृहः ।सर्वसङ्गविहीनश्च निर्द्वन्द्रो निरुपप्लवः ॥५६॥सर्वकर्मफलत्यागी जडान्धबधिराकृतिः ।मित्रारिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥५७॥* ( न स्यादित्यादि मोक्षं हीत्यन्तं शब्दजातं कखगङजसंज्ञितपुस्तकेषु नास्ति । ) एवं सुदुर्लभो मोक्षो * न स्याद्योगीव तादृशः ।सर्वे पृथिव्यां पाताले मुक्ताः प्रकृतिजैर्गुणैः ॥५८॥एवं सदुर्लभं ज्ञात्वा मोक्षं हि बहुसाधनम् ।पूजयध्वं महादेवं कर्मयोगेण चान्यथा ॥५९॥कर्म पूजा जपो होमः शंभोर्नामानुकीर्तनम् ।कर्मयोगाः समाख्याता एतैः पूज्यो महेश्वरः ॥६०॥यं यं काममभिध्यायेत्तदर्पितमनाः शिवम् ।संपूज्य तं तमाप्नोति सावित्र्याह यथा पुरा ॥६१॥तन्नामजापी तत्कर्गरतिस्तद्गतमानसः ।निष्कामः पुरुषो विप्राः स रुद्रपदमश्नुते ॥६२॥यः सर्वदाऽर्चयेदीशं स रुद्र इव भूतले ।पापहा सर्वमर्त्यानां दर्शनाश्स्पर्शनादपि ॥६३॥२४४९॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमाहात्म्यकथनं नाम मट्चत्वारिंशोऽध्ययः ॥४६॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP