संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १३

सौरपुराणं - अध्यायः १३

सौरपुराणं व्यासकृतम् ।


स्कन्द उवाच -
भूतकार्यमिदं देहमापद्रोगाकुलं परम् ।
विषयैः पीड्यते देव सुखदुःखात्मकैः सदा ॥१॥
अभिभूतो यदा योगी दुःखैरध्यात्मसंभवैः ।
किमुपायं तदा तस्य यदा व भौतिकस्य च ॥२॥
ब्रूह्याधिदैविकस्यापि योगसंसिद्ध्ये प्रभो ।
यातनायोपसर्गाणां प्रसादाद्योगिनां वद ॥३॥
ईश्वर उवाच -
सात्त्विका राजसा विघ्नास्तामसास्त्विह योगिनाम ।
योगत्रासकराः सर्वे भवन्ति भवतामपि ॥४॥
प्रातिभाश्रवणावार्तादर्शनास्वादवेदनाः ।
उपसर्गा भवन्त्येते सात्त्विकास्तु षडेव हि ॥५॥
दरिद्रोऽहमहं चाऽऽढ्यः शूरोऽहं दुर्बलस्तथा ।
मूर्खोऽहं च सुविद्रांश्च सुरूपोऽहमरूपवान् ॥६॥
दाताऽहं कृपणश्चाहं सुखी भोग्यहमेव च ।
अकुलीनः कुलीनश्च कण्टकः कण्टकोज्झितः ॥७॥
मदीयं सर्वमेतद्धि वस्त्वित्यादिप्रजल्पनम् ।
अहंकारमयं किंचिद्यत्तत्कृत्स्नं हि राजसम् ॥८॥
अन्धत्वं चैव वाधिर्यं पङ्गुत्वं दुष्टरोगता ।
शिरोरोगो ज्वरः शूलयक्ष्ममूर्छाभ्रमादयः ॥९॥
राजसास्तामसाः सर्वे तमोहंकारसंयुताः ।
व्याधयो मिश्रभावेन पीडयन्तीह देहिनम् ॥१०॥
केवलं जाड्यभावेन मूढत्वं मोहनं तथा ।
अज्ञानत्वं च मूकत्वमित्याद्यास्तामसाः स्मृताः ॥११॥
गुह्यका यातुधानाश्च किंनरोरगराक्षसाः ।
देवदानवरौद्राश्च दैत्या मातरजा गणाः ॥१२॥
तामसास्तु ग्रहा भूता वायुभूता नरं सदा ।
पीडयन्तीह विघ्ना हि योगाभ्यासरतं ग्रहैः ॥१३॥
एवमाद्युपसर्गाणां वारणाय च धारणाम् ।
वक्ष्यामि विविधां वत्स योगिनां सिद्धिहेतवे ॥१४॥
त्वगादिसप्तधातूनामेकीभूतं विचिन्तयेत् ।
प्रणवं कण्ठनासाग्रे सबीजं वह्निदीपितम् ॥१५॥
वारुणेष च सर्वेषु उपसर्गेषु योगवित् ।
एतदेव चरेन्नित्यमुपसर्गादयो ययुः ॥१६॥
पित्तरोगाभिभूतो वा योगी योगपरायणः ।
ध्यानमेतत्प्रकुर्वीत तथाऽन्यच्छृणु पुत्रक ॥१७॥
सुवृत्तं चोडुनाथस्य चाक्षरं तत्र चिन्तयेत् ।
सुधाभिलषितं ध्यायेत्स्वस्य मूर्ध्नि शिवात्मकम् ॥१८॥
प्रविश्य ब्रह्मरन्धेण देहं निर्वाणजं स्मरेत् ।
शीतलेम सुगन्ध्रेन हृत्तत्त्वं चापि तेन वै ॥१९॥
पैत्तिफाश्चोपसर्गाश्च भानुना तिमिरं यथा ।
विषज्वररजराद्याथ नश्यन्त्यभ्यासतो ध्रुवम् ॥२०॥
नाशयेदन्धतां योगी दिव्बदृष्टिः प्रजावते ।
उत्क्षिप्यापानमन्यं च चन्द्रदैवत्यया पिवेत् ॥२१॥
पीत्वा पार्थिवतत्त्वेन स्तभ्भं वायोर्विनाशयेत् ।
पुष्टिरेवातला तस्य स्थिरत्वं रुजहीनता ॥२२॥
हृत्तत्त्वं च सुपीताभममरत्वं तथा स्मरन् ।
श्रोत्रमाकाशवाय्वोश्च अत्रैकत्वं विचिन्तयेत् ॥२३॥
मोचयेत्तं पुनर्वायुं बधिरत्वविनाशनम् ।
शृनोति दूरतः सर्वं श्रुतधारी भवेत्सदा ॥२४॥
वियन्मयोऽथ संचारी सतताभ्यासयोगतः ।
सरोज रसनायां च तत्द्रष्टारं सकर्णीकम् ॥२५॥
स्मृत्वा मध्ये पुनर्ध्यायेच्छुक्लवर्णां स्वरस्वतीम् ।
जडत्वं च शिरोरोगं मुस्त्ररोगान्विनाशयेत् ॥२६॥
प्रज्ञा चैव स्मृतिर्मेधा कवित्वं बुद्धिरुत्तमा ।
स्तम्भनं दुष्टसत्त्वानां सर्ववायूञ्जयेत्सदा ॥२७॥
हृत्सरोजगतं देवमष्टःआदशभुजैर्युतम् ।
नीलारुणं महाकायं त्रिदृक्चन्द्रजटाधरम् ॥२८॥
सिंहचर्माम्बरं भीं सर्वाभरणभूषितम् ।
भुजङ्गहाराभरणं सवॅंकङ्कणनूषुरम् ॥२९॥
ज्वालामालाकुलं दीप्तं भाभासितदिगाननम् ।
अभेद्यं विजयं रौद्रमक्षोभ्यं त्रिदशेश्वरम् ॥३०॥
कपालमालिनं चोग्रं भीमं दंष्ट्राकरालिनम् ।
अस्त्रैर्व्ययग्रकरं देवममोधैर्वह्निकारणैः ॥३१॥
स्मरणाद्यजनाच्चैव तैजसैर्विघ्ननाशनम् ।
शूलमुद्गरवज्रेषुदण्डकार्मुकशक्त्यसि ॥३२॥
पद्मान्ते दक्षिणे भागेऽविनाशं परमेश्वरम् ।
परिघध्वजस्त्रट्वाङ्गैरङ्कुशं च धनुर्गदाम ॥३३॥
ज्वालाननेन पाशेन वामभागेऽभयप्रदम् ।
अनेन ध्यानयोगेन सर्वविघ्नान्निवारयेत् ॥३४॥
वशं नयेज्जगत्सर्वमापद्यपि महेश्वरः ।
सम्यग्दर्शनसंपन्नो नाभिभूयेत कर्मभिः ॥३५॥
योगविद्योगयुक्तात्मा परं निर्वाणमृच्छति ।
आदित्यमण्डलं पद्मे सौम्यं वै पावकं ततः ॥३६॥
आत्मनो हृद्गुहावासं संचिन्त्यैवं महामुनिः ।
तत्र देवं परं शान्तं ध्यायेदीशं सुनिर्मलम् ॥३७॥
जगद्व्याप्यं स्थितं कृत्स्नं कालाकालविवर्जितम् ।
वियद्देशे हृत्कुञ्जे वा योगी योमविदां वरः ॥३८॥
ईश्वरं चिन्तयेत्स्थाणुं ज्ञानमानन्दविग्रहम् ।
उभावपि स्थिरीकृत्य योगी मोक्षाय कल्पते ॥३९॥
बाह्ये चित्तं समारोष्य वायोः परमकारयत् ।
ततो द्वाराणि संयम्य ब्रह्मरन्ध्रे लयं गतः ॥४०॥
लक्षमाधाय तत्रैव योजयेन्मयि षण्मुख ।
घृतं घृतेष्वेव यथा नियुक्त प्रयाति चैक्यादविशेषभावम् ।
तथैव लीनो न भवेत्स भूयः परे चतुथें त्वनया च युक्त्या ॥४१॥५८९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे शिवस्कन्दसंवादे सात्त्विकराजसविघ्नादिकथनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP