संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः २२ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः २२ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः २२ Translation - भाषांतर सूत उवाच - असंख्यातानि कल्पानि गतानि ब्रह्मणो द्विजाः ।सांप्रतं वर्तते यच्च वाराहमिति संज्ञितम् ॥१॥विस्तरं तस्य वृक्ष्यामि शृणुर्ध्व मुनिपुंगवाः ।शृण्वतां पापहानिः स्याच्छ्रद्धया सर्वदेहिनाम् ॥२॥एकं कल्पमहः प्रोक्तं ब्रह्मणः परमेष्ठिनः ।रात्रिश्च तावती प्रोक्ता कल्पमानमथोच्यते ॥३॥चतुर्युगाणां साहस्रं कल्पमानं निगद्यते ।शतत्रयं षष्ठ्यधिकं कल्पनां वर्षमुच्यते ॥४॥चतुर्मुखस्य विप्रेन्द्राः पराख्यं तच्छतं भवेत् ।तदन्ते सर्वभूतानां प्रकृतौ विलयं स्मृतः ॥५॥प्राकृतः प्रलयस्तेन कथ्यते कालाचिन्तकैः ।त्रयाणामपि देवानां प्रकृतौ विलयो भवेत् ॥६॥पुनः कालवशात्तेषामुत्पत्तिः कथ्यते बुधैः ।कालो हि भगवाञ्शंभुर्महादेव इति श्रुतिः ॥७॥सृज्यन्ते बहवो रुद्राश्चानन्ताश्च चतुर्मुखाः ।नारायणा ह्यसंख्वाता देवदेवेने शंभूना ॥८॥संहर्ता च पुनरेतेषां कालरूपी महेश्वरः ।परार्धं ब्रह्मणो विप्रा अतीतमिति नः श्रुतम् ॥९॥पाद्मकल्पमतीतं यत्तत्परार्धं द्विजोत्तमाः ।वाराहो वर्तते कल्पो वाराहो यत्र पद्मभूः ॥१०॥आसीदेकार्णवं घोरं निर्विभागं तमोमयम् ।एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥११॥ब्रह्मा नारायणो भूत्वा योगनिद्रां समाश्रितः ।सुष्वाप सलिले तस्मिन्नीश्वरेच्छाप्रणोदितः ॥१२॥मुनयः सत्यलोकस्था देवं नारायणं प्रति ।इमं चोदाहरन्त्यत्र श्लोकं मुनिवरोत्तमाः ॥१३॥आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ॥१४॥एवं युगसहस्रान्ते योगनिद्रामपास्य वै ।ब्रह्मत्वमग्रहीद्देवः सृष्ट्यर्थं मुनिपुंगवाः ॥१५॥मग्नां जलान्तः पृथिवीं ज्ञात्वा देवश्चतुर्मुखः ।तस्यास्तूद्धरणार्थाय वाराहं रूपमास्थितः ॥१६॥अप्रतर्क्यमनौपम्यं रूपं भगवतः परम् ।क्षणाद्रसातलं गत्वा यज्ञेशः पुरुषोत्तमः ॥१७॥अभ्युज्जहार धरणीं दंष्ट्रया परमेश्वरः ।सनकाद्यैः स्तूयमानो भगवान्हव्यकव्यभुक् ॥१८॥आसीद्यथाऽवनिः पूर्वं संस्थाप्य च तथा पुनः ।कल्पान्तदग्धानखिलान्पर्वतांश्च महीधरः ॥१९॥ततश्चिन्तयतः सृष्टिं कल्पादौ पद्मजन्मनः ।अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥२०॥तमो मोहो महामोहस्तमिस्रं चान्धसंज्ञितः ।अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥२१॥पञ्चधाऽवस्थितः सर्गो ध्यायतः सोऽभिमानिनः ।संवृतस्तमसाऽतीव बीजं त्वगिव सर्वतः ॥२२॥अन्तर्बहिश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ।मुख्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥२३॥तं दृष्ट्वाऽसाधकं सर्गममन्यत्कमलासनः ।पुगश्चिन्तयतः सर्गं तिर्यक्श्रोतोऽभ्यवर्तत ॥२४॥यस्य तिर्यक्प्रवृत्तः स तिर्यक्श्रोतस्ततः स्मृतः ।पश्वादयः समाख्याता उत्पथग्राहिणश्च ये ॥२५॥तमप्यसाधकं दृष्ट्वा देवदेवः पितामहः ।ससजान्यं पुनः सर्गमूध्वश्रोतं तु सात्त्विकम् ॥२६॥देवसर्ग इति प्रोक्तः प्रकाशात्मा सुखाधिकः ।पुनश्चिन्तयतोऽव्यक्तादर्वाक्श्रोतस्त्वसाधकः ॥२७॥प्रकाशबहुलाः सर्वे तमोयुक्ता रजोधिकाः ।दुःखोत्कटाः सत्त्वयुक्ता मनुष्याः परिकीर्तिताः ॥२८॥पुनश्चिन्तयतस्तस्य भूतसर्गोऽभ्यजायत ।संविभागरताः क्रूरास्ते परिग्राहिणः स्मृताः ॥२९॥एते पञ्च समाख्याताः सर्गा देवेन भानुना ।महतः प्रथमः सर्गो ज्ञातव्यो ब्रह्मणो द्विजाः ॥३०॥तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।वैकारिकस्तृतीयस्तु प्रोक्त ऐन्द्रियको द्विजाः ॥३१॥इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।चतुर्थोमुख्यसर्गस्तु मुख्या वै स्थावराः स्मृताः ॥३२॥तिर्यग्योन्यस्तु यः प्रोक्तस्तिर्यग्योन्यस्तु पञ्चमः ।तथोर्ध्वश्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥३३॥ततोऽर्वाक्श्रोतसां सर्गः सप्तमः स तु मानुषः ।अष्ठमो भौतिकः सर्गो भूतादीनां द्विजोत्तमाः ।नवममश्वैव कौमारः प्राकृता वैकृतास्त्विमे ॥३४॥९६१॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वाराहकल्पप्राकृतादिसर्गकथनं नाम द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP