उत्तरकांडम् - मंत्रगणना

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


मंत्ररामायणे बालकांडे रामप्रसादजे
त्रयोविंशतिरेवात्र मंत्राः संत्रासदाः कलेः. ॥१॥
द्वितीयेऽत्र सतामिष्टेऽयोध्याकांडे शुभप्रदाः
विंशतिः परिसंख्याता मंत्राः सेव्याः सतां सदा. ॥२॥
तृतीयेऽरण्यकांडेऽत्र त्रिंशन्मंत्राः प्रकीर्तिताः
कामदाः कविवर्गाणां नंदनस्था द्रुमा इव. ॥३॥
चतुर्थे त्वत्र किष्किंधाकांडे कांडेऽभिपूजिते
त्रिंशदेव महामंत्राः पुरुषार्थफलप्रदाः. ॥४॥
पंचमे सुंदरे कांडे मंत्राः षट्त्रिंशदुत्तमाः
सर्वोऽपि सेवनाद्येषां भवेत्पुरुष उत्तमाः. ॥५॥
मंत्राः षष्ठे युद्धकांडे षडशीतिरुदाहृताः
सर्वेऽपि रसिका येभ्यः समुत्पन्नमुदाहृताः. ॥६॥
मंत्रा उत्तरकांडेऽत्र सर्वसंसिद्धिवल्लभाः
एकोनाशीतिरुदिता मुदिता यैः सतां सभाः. ॥७॥
एवं सप्तसु कांडेषु सर्वे मंत्राः शुभप्रदाः
सदा जयंति चत्वारः शतानि त्रीणि चार्चिताः ॥८॥
मंत्ररामायणे ग्रंथे सज्जनानां सुखप्रदे
अक्षिबाणांकशिखि ( ३९५२ ) भिर्विज्ञेया श्लोकसंमितिः. ॥९॥
त्रयोदशाक्षरो मंत्रः सर्वत्रात्र विराजते
तेनैतन्नामतः ‘ श्रीमन्मंत्ररामायणं ’ बुधाः. ॥१०॥
वर्णः प्रथमकांडेऽत्र महामंत्रस्य सज्जनाः
श्लोकानां प्रथमे पादे सर्वत्र प्रथमः स्फुटः. ॥११॥
द्वितीये च द्वितीयः स तृतीये च तृतीयकः
एवं सप्तमकांडेऽन्ये मंत्रवर्णोऽत्र सप्तमः. ॥१२॥
पृष्ठे त्रयोदशश्लोकलिपेरेतत्स्फुटीभवेत्
आर्षात्सुमुद्धृतमिदं तीर्थं गंगाह्रदादिव. ॥१३॥
सत्काव्योपवनं यदाद्यकविना वाल्मीकिना निर्मितं
तत्रत्यैरतिरम्यपद्यकुसुमैः प्रीत्या गृहीतैर्गुणे
श्रीमंत्रे विरचय्य दाम रुचिरं ‘ श्रीमंत्ररामायणं ’
श्रीरामस्य जगद्गुरोरुचितयोः पादाब्जयोरर्पितम्. ॥१॥
इति श्रीमंत्ररामायणे श्रीरामनंदनमयूरविरचिते श्रीमदुत्तरकांडे एकोनाशीतितमो मंत्रः समाप्तः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP