उत्तरकांडम् - काव्य ६०१ ते ६५०
उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
रूपं दृष्टं नहि म या पदौ दृष्टौ तवानघे !
कथं त्वामद्य पश्यामि रामेण रहितां वने ? ’ ॥६०१॥
इत्युक्त्वा तामग्र ज स्य प्रियां नत्वा रुदन् पुनः
नावा गंगां समुत्तीर्य रथमध्यारुहद्द्रुतम्. ॥६०२॥
शोकाकुलः स प्र य यावनाथामिव तां सतीम्
परतीरस्थितां दृष्ट्वा परावृत्य मुहुर्मुहुः. ॥६०३॥
दृष्ट्वा मुनिकुमा रा स्तां रुदती जानकीं वने
प्राद्रवन् यत्र भगवान् वाल्मीकिस्तपसांनिधिः. ॥६०४॥
ते कृत्वैवाशु न म नं मुनिपुत्रा महर्षये
सर्वे निवेदयामासुस्तास्तु रुदितस्वनम्. ॥६०५॥
‘ भगवान् ! मुनिरा ज स्त्री कस्याप्येषा महात्मनः
श्रीरिवादृष्टपूर्वात्र विरौति त्राहि पश्य ताम्. ’ ॥६०६॥
स ज्ञात्वा ज्ञानन य नः प्राद्रवद्यत्र मैथिली
अर्घ्यमादाय रुचिरं जान्हवीतीरमागमत्. ॥६०७॥
दृष्ट्वा सीतां स द्वि ज न्मश्रेष्ठो वाल्मीकिरब्रवीत्,
‘ स्रुषा दशरथस्य त्वं रामस्य महिषी प्रिया. ॥६०८॥
जनकस्यात्मजा यत्नाद्द्रष्टच्या सत्यधीश्वरी.
वत्से ! जानकि ! धर्मज्ञे ! स्वागतं ते पतिव्रते ! ’ ॥६०९॥
तां सीतां शोकभा रा र्तां वाल्मीकिर्मुनिपुंगवः
उवाच मधुरां वाणीं ल्हादयन्निव तेजसा. ॥६१०॥
‘ वृत्तं तवैतत्सु म ते ! विदितं मम तत्वतः
सर्वं च दिव्यज्ञानेन त्रैलोक्ये यद्धि वर्तते. ॥६११॥
मुनिपत्न्योऽन्न सु श्री काः सुव्रतास्तपसि स्थिताः
तास्त्वां वत्से ! यथा वत्सं पालयिष्यंति नित्यशः. ॥६१२॥
त्वामपापां वेद्मि रा ज्ञि ! ध्यानलब्धेन चक्षुषा
विश्रब्धा भव वत्से ! मे समीपे निवसिष्यसि. ’ ॥६१३॥
वचस्तदाकर्ण्य म हं प्रपता परममद्भुतम्
सीता नत्वा मुनेः पादौ तथेत्याह कृतांजलिः. ॥६१४॥
सीता प्रयांतं द्वि ज पं प्रांजलिः पृष्ठतोऽन्वगात्
तापस्यस्तं नमश्चक्रुस्ताः स वाल्मीकिरब्रवीत्. ॥६१५॥
‘ राजा दशरथो य ज्वा स्नुषेयं तस्य सुव्रता
रामस्य महिषी सीता जनकस्यात्मजा सती. ॥६१६॥
इयं त्यक्ता सती रा ज्ञा परिपाल्या मया सदा
इमां भवत्यः पश्यंतु स्नेहेन वचनान्मम. ’ ॥६१७॥
मुहुर्मुहुः प्राज्य म हास्तां ताभ्यः परिदाय सः
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः. ॥६१८॥
उदक्कोले स्थितो ज न्हुकन्याया मुनिना सतीम्
दृष्टा प्रवेशितां भव्ये स्वाश्रमे लक्ष्मणस्तदा. ॥६१९॥
अब्रवीत्तप्तका य स्तं सुमंत्रं मंत्रसारथिम्,
सीतावियोगजं तापं पश्य रामस्य सारथे ! ॥६२०॥
यो हि देवान्सभु ज गान् गंधर्वासुरराक्षसान्
निहन्याद्राघवः क्रुद्धः स दैवं पर्युपासते. ॥६२१॥
हंतास्मिन्कर्मणि य शोनाशके समनुष्ठिते
प्राप्तः सुमंत्र ! रामेण को नु धर्मपरिग्रहः ? ’ ॥६२२॥
सुमंत्रः प्राह तं रा मानुजं शोकाकुलं भृशम्,
‘ न संतापस्त्वया कार्यो दृष्टमेतत्पुरातनैः. ॥६२३॥
भृगुशापफलं म न्ये प्राप्तं रामेण विष्णुना
तस्य पत्नी हतानेन यत्पुराभयदा द्विषाम्. ॥६२४॥
वसिष्ठस्याश्रमे श्री मान् दुर्वासा मम सन्निधौ
पुरा दशरथायैतत्कथयामास लक्ष्मण ! ॥६२५॥
त्वयापि विरहं रा जा प्राप्स्यत्येतत्कथंचन
भरते नैव वक्तव्यं शत्रुघ्नेऽपि च लक्ष्मण ! ॥६२६॥
भृगुशापादयं म र्त्यलोके जन्माप्तवान् प्रभुः
रहस्यं कथितं तुभ्यं सीतात्यागार्तिभेषजम्. ॥६२७॥
नृलोके चक्रिणो ज न्म जातं हंतुं दशाननम्. ’
इति श्रुत्वाथ सौमित्रिस्तामयोध्यां जगाम सः. ॥६२८॥
ततस्तस्योरुगा य स्य साश्रुनेत्रस्य लक्ष्मणः
जग्राह चरणौ, पश्चाद्वाक्यमेतदुवाच सः. ॥६२९॥
त्यक्त्वा देवीं त्वद्रि रा हं वाल्मीकेराश्रमे शुभे
पुनरप्यागतो वीर ! पादमूलमुपासितुम्. ॥६३०॥
मा शुचः संस्कृत म ते ! कालस्य गतिरीदृशी
त्वद्विधा न हि शोचंति बुद्धिमंतो मनस्विनः. ॥६३१॥
यदर्थं मैथिल ज निस्त्यक्ता शोकं न मुंचतः
सोऽपवादः पुरे राजन् ! भविष्यति न संशयः. ’ ॥६३२॥
तमाह रामो, ‘नि य तं हितमुक्तं त्वयानघ !
मया सीतावियोगोत्थः स्वसंतापो निराकृतः. ॥६३३॥
राजकार्यं मया ज स्त्रं कर्तव्यं तदकुर्वतः
निष्फला मम सौमित्रे ! चत्वारो दिवसा गताः. ॥६३४॥
पौरकार्याणि यो य त्तो न करोति दिने दिने
संवृते नरके घोरे पतितः स भवेत् ध्रुवम्. ॥६३५॥
नृगेण हि पुरा रा ज्ञा कोटीः स्पर्शयता गवाम्
गौः संगादागतान्यस्य दत्तान्यस्मै द्विजन्मने. ॥६३६॥
विवदंतौ तौ स म न्यू गोः स्वामिग्राहकावुभौ
नृगद्वारि स्थितौ प्राप्तौ न प्रवेशं चिरं द्विजौ. ॥६३७॥
ताभ्यां शप्तो रुषा श्री मान् कृकलासो भवेति सः
निर्दिष्टो यादवः कृष्ण उद्धर्ता विष्णुरीश्वरः. ॥६३८॥
अद्यापि शापं तं रा जा भुंक्ते वतस ! सुदारुणम्
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते. ॥६३९॥
इक्ष्वाकुतनयो म ह्याः पतिर्निमिरुदारधीः
वसिष्ठेन पुरा शप्तो निमिनापि स लक्ष्मण ! ॥६४०॥
मित्रावरुणते ज स्त्वमाविशेति चतुर्मुखः
वसिष्ठमुक्तवान् देवो विदेहः स तथाकरोत्. ॥६४१॥
उर्वशीहेतुतो य स्तु मित्रावरुणतेजसा
पूर्णः कुंभस्ततो जातो वसिष्ठोऽगस्त्य एव च. ॥६४२॥
प्रतीक्षा न कृता रा ज्ञा सत्रे यस्मात्पुरोधसः
तेनापराधेन निमिः शप्तस्तेन महात्मना. ॥६४३॥
स निमिः साधुर म रान्प्रोवाच वरदांस्तदा,
‘ नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः. ॥६४४॥
तदुक्तमेवम ज राः श्रुत्वोचुस्तं निमिं नृपम्,
‘ नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि. ॥६४५॥
मथितस्तस्य का य स्तैस्तत्संतानार्थिभिर्द्विजैः
अरण्यां मथ्यमानायां प्रादुर्भूतो महातपाः. ॥६४६॥
नाम्ना मिथिः स रा ज न्यो मथनाद्रघुनंदन !
जननाज्जनको जातो वैदेहो यद्विदेहजः ॥६४७॥
ययातिर्न समो य स्माद्देवयान्यां स भूपतिः
शप्तः शुक्रेण सौमित्रे ! जरां प्राप सुदःसहाम्. ॥६४८॥
एवं रामो सद्दु रा पः कथयामास सत्कथाः
श्वोलूकयोरप्यहरन्न्यायकर्ता मनोव्यथाः. ॥६४९॥
अथागता भये म ग्ना मुनयो यमुनाश्रिताः
संपूज्य रामस्तान्कार्यं प्रप्रच्छ प्रांजलिः प्रभुः. ॥६५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP