संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य २५१ ते ३०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य २५१ ते ३०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य २५१ ते ३०० Translation - भाषांतर शक्रो मयूरं भु ज गान्न भयं तव सर्वथा इदं नेत्रसहस्रं मे त्वद्बर्हेषु भविष्यति. ॥२५१॥वर्षमाणेऽतिश य तो मयि त्वं प्राप्स्यसे मुदम् इत्यब्रवीद्धर्मराजो वायसं ‘ त्वमरोगभाक्. ॥२५२॥स्वतो मृत्युर्मद्व रा त्ते न भविष्यति सर्वथा,त्वयि तृप्ते संतु तृप्ता ये च मद्विषये स्थिताः. ’ ॥२५३॥ ‘ वर्णस्तवास्तु वि मलश्चंद्रमंडलसंनिभः ’ हंसमित्यब्रवीद्राजा यादसां वरदस्तदा. ॥२५४॥ प्रसन्नो राजरा ज श्च कृकलासं तदाब्रवीत्, ‘ स्वर्णवर्णं तव शिरो मम प्रीत्या भवत्विति. ’ ॥२५५॥एवं दत्तवरा य ज्ञे समाप्ते भूभुजा सह देवाः स्वभवनं याताः सर्वे शक्रपुरोगमाः. ॥२५६॥केचिद्धतास्तेन ज गत्यधिपाः शासनातिगाः निर्जिताः स्मेत्यभाषंत केचिन्नीतिविशारदाः. ॥२५७॥धीमान् दुष्यंतो ग य श्च गाधिश्च सुरथस्तथा पुरूरवाश्चोचुरेते ‘ वयं तात त्वया जिताः. ’ ॥२५८॥अयोध्याधिपती रा जा योऽनरण्याभिधो महान् निर्जिता राक्षसास्तेन हरिणा हरिणा इव. ॥२५९॥पातयामास तं म ह्यां तलेनाहत्य रावणः उपहासं दशग्रीवश्चक्रे वरमदोद्धतः. ॥२६०॥सोऽन्यरण्यो नृपः श्री मानब्रवीत्तं दशाननम्, ‘ यदि सम्यक्कृतो धर्मस्तर्हि सत्यं वचोऽस्तु मे. ॥२६१॥उत्पत्स्यते कुले रा ज्ञामिक्ष्वाकूणां सतामिह रामो दाशरथिर्नाम यस्ते प्राणान् हरिष्यति. ’ ॥२६२॥महानादः प्राप्त म हैस्ताडितो देवदुंदुभिः तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता. ॥२६३॥ततोऽनरण्यो रा ज न्यश्रेष्ठः प्राप्तस्त्रिविष्टपम् ददर्श घनपृष्ठस्थं नारदं राक्षसेश्वरः. ॥२६४॥कृताभिवादनं य त्तं विजये दशकंधरम् देवर्षिरब्रवी‘द्युक्तं नेदं ते मृतमारणम्. ॥२६५॥हत एव ह्ययं रा जन् ! लोको मृत्युवशो यतः किमयं बाध्यते तात ! त्वयावध्येन दैवतैः. ॥२६६॥जित एव त्वया म र्त्यलोकोऽयं नात्र संशयः.अवश्यमेभिः सर्वैश्च गंतव्यं यमसादनम्. ॥२६७॥तन्निगृह्णीष्व ते ज स्विन् ! यमं परपुरंजय तस्मिन् जिते जितं सर्वं भवत्येव न संशयः. ’ ॥२६८॥जगाम जेतुं स य मं देवर्षिप्रेरितो बली तत्पूर्वं नारदो गत्वा स्वयमंतकमब्रवीत्. ॥२६९॥‘ विजेता राजरा ज स्य ससैन्यो दशकंधरः उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्. ’ ॥२७०॥अत्रांतरे तद्वि य द्गं पुष्पकं दर्शनं गतम्प्राणिनो मोचितास्तेन बलिना निरयं गताः. ॥२७१॥प्रेतसंरक्षका रा ज्ञः पितॄणां सचिवास्तदा मंत्रिणो दशकंठस्य युयुधुस्ते परस्परम्. ॥२७२॥ भग्ना वीरास्ते य म स्य रौद्रणास्त्रेण रक्षसा ततः स्वयं धर्मराजो युयुधे तेन शत्रुणा. ॥२७३॥सप्तरात्रं रणः श्री दभ्रात्रा तेनामितौजसा कृतः स्वयं कृतांतेन सार्धं परमदारुणः. ॥२७४॥रयराक्षसयो रा सीत्तद्युत्तं तुमुलं प्रभो ! प्रजापतिं पुरस्कृत्य द्रष्टुं तत्रागताः सुराः. ॥२७५॥राक्षसेंद्रोऽपि स म रे धर्मराजोऽपि राघव ! आत्मनो जयमाकांक्षन् परं चक्रे परिश्रमम्. ॥२७६॥मृत्युराह यमं ज न्ये, ‘ मुंच त्वं धर्मराज ! माम् न हि कश्चिन्मया दृष्टो बलवानपि जीवति. ॥२७७॥शंभुर्विरोचनो य श्च नमुचिः शंबरः स च हतो हिरण्यकीशपुः किमुतायं निशाचरः. ’ ॥२७८॥उवाच तं धर्म रा ज‘स्त्वं तिष्ठैनं निहन्म्यहम्. ’ इत्युक्त्वा कालदंडं स तोलयामास पाणिना. ॥२७९॥प्रहर्तुकामे श म ने तेन दंडेन रावणम् पितामहः प्रभुः साक्षाद्दर्शयित्वा तमब्रवीत्. ॥२८०॥‘ कुरूक्तमर्कात्म ज ! मे न खल्वमितविक्रम ! न हंतव्यस्त्वयानेन दंडनैष निशाचरः. ॥२८१॥मया प्रसन्नेन य म ! प्रदत्तोऽस्मै वरः खलुस त्वया नानृतः कार्यो दंडं मा मुंच रक्षसि. ’ ॥२८२॥इत्युक्तो धर्मरा ज स्तं चतुर्वदनमब्रवीत्, ‘ एष व्यावर्तितो दंडः प्रभविष्णुर्हि नो भवान्. ’ ॥२८३॥एवमुक्त्वाथ स य मस्तत्रैवांतर्हितोऽभवत् रावणो नाम विश्राव्य निर्गतः कालसादनात्. ॥२८४॥ततो रसातलं रा जा राक्षसानां जगाम सः तत्र भोगवतीं जित्वा पुरीं वासुकिपालिताम् ॥२८५॥ययौ पुरीं मणि म यीं निवातकवचैः सह चक्रे युद्धं राक्षसेंद्रस्तत्र संवत्सरो गतः. ॥२८६॥आजगाम विधिः श्री मान् दैत्यांस्तानित्युवाच सः, ‘ न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः. ॥२८७॥भवंतोऽपि प्रवी रा नो शक्या जेतुं सुरादिभिः रावणस्य सखित्वं मे भवद्भिः सह रोचते. ’ ॥२८८॥ब्रह्माज्ञया ते स म रान्निवृत्ताः स च रावणः सख्यं निवातकवचैः सार्धं चक्रेऽग्निसाक्षिकम्. ॥२८९॥तत्रोष्य वर्षं र ज नीचरेंद्रो हततापसः असुरेभ्यः सखित्वेन मायानां शतमाप सः. ॥२९०॥गत्वाश्मनगरं य त्तः कालकेयान् बलोत्कटान् अवधीत्सूर्पणख्याश्च भर्तारमसिनाच्छिनत्. ॥२९१॥वरुणस्थालयं रा ज्ञः कैलासमिव भास्वरम् अपश्यत्सुरभिं तत्र क्षीरोदो यत्पयोभवः. ॥२९२॥संपूज्य तां प्रीत म तिः सोऽजयद्वरुणात्मजान् श्रुत्वा प्रचेतसं ब्रह्मलोकस्थं निर्गतस्ततः. ॥२९३॥निवृत्तो राक्ष्जसो ज हे मार्गे राजर्षिकन्यकाः देवपन्नगगंधर्वयक्षासुरवरात्मजाः. ॥२९४॥दर्शनीयां हि यां य त्र सोऽपश्यद्दशकंधरः हत्वा बंधुजनं तस्या विमाने तां रुरोध सः. ॥२९५॥ ताः सर्वा योषितोऽज स्रं मुमुचुर्बाष्पजं जलम् अलं निनिंदुः शोकार्ताः सपंत्यस्तं महाखलम्. ॥२९६॥ निनिंदुस्ताः स्वनि य तिं कन्यकाश्च सभर्तृकाः विलेपुः सभृशं स्मृत्वा पितॄन्मातॄः पतीन्सुतान्. ॥२९७॥क्रोधादूचुः समं रा मा, ‘ यस्मात्परवधूरतः तस्मात्प्राप्स्यत्ययं मृत्युं स्त्रीकृतेनैव दुर्मतिः. ’ ॥२९८॥सतीभिः परमा म र्षादेवं वाक्येऽभ्युदीरिते दिव्या दुंदुभयो नेदुः पुष्पवृष्टिः पपात च. ॥२९९॥स बभूव गत श्री कः सतीभिः शप्त उद्धतः शुद्धतस्तद्व्रतात्तस्य तेजोहानिर्न युद्धतः. ॥३००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP