संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ७५१ ते ८०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ७५१ ते ८०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ७५१ ते ८०० Translation - भाषांतर भरतं लक्ष्मणं ज न्मप्रभृत्यात्ममतानुगम्रामोऽपृच्छद्राजसूयं कर्तुं मंत्रविनिश्चयम्. ॥७५१॥तं प्रभुः राजसू य स्य क्रियां कर्तुं समुत्सुकम् प्रांजलिर्दर्शयन् दोषं तोषं दातुं महामतिः ॥७५२॥प्रोवाच भरतो, ‘ रा जसूयाद्बहुनृपक्षयः भविष्यति दयालोस्तेऽयुक्त’मित्यसकृत्सुधीः. ॥७५३॥अश्वमेधे कुरु म नो मनोरन्वयभूषण ! ’ इत्याह लक्ष्मणो रामं कामं सर्वसतां मतम्. ॥७५४॥‘ हत्वा वृत्रासुरं श्री मान् देवराजः शचीपतिः अदर्शनं गतो राम ! ब्रह्महत्यानिपीडितः. ॥७५५॥अश्वमेधेन घो रा या दुःसहाया रघूत्तम ! विमुक्तो ब्रह्महत्यायाः शक्रो विष्णुप्रसादतः. ’ ॥७५६॥तमाह रामः, ‘ सु म ते ! हयमेधोऽतिपावनःमुक्तः स्त्रीत्वादिलः पुत्रः कर्दमस्य प्रजापतेः. ॥७५७॥महासेनो यत्र ज ज्ञे यत्रोमां भगवान् हरः रमयामास तं देशमाजगाम इलो नृपः. ॥७५८॥कृत्वात्मानं शिवो य त्र स्त्रीरूपं पुरुषाभिधम् वृक्षादि च प्रभू रेमे देव्याः प्रियचिकीर्षया. ॥७५९॥तं देशं स इलो रा जा मृगयायाः प्रसंगतः प्रविश्यापश्यदात्मानं स्त्रीकृतं सानुगं तदा. ॥७६०॥ ज्ञात्वा तत्प्रभुसा मर्थ्यं जगाम शरणं हरम् तं प्रहस्याह भगवान् बहुरूपो महेश्वरः. ॥७६१॥‘ वरं वरय रा ज न् ! मे पुरुषत्वं विनेप्सितम्. ’ प्रणिपत्य शिवा स्तुत्वा प्रार्थयामास खिन्नधीः ॥७६२॥उमाह, ‘ कार्दमे य ! त्वं मत्तश्चेद्वरमिच्छसि अर्धस्य दाता देवोऽयं वरस्यार्धस्य चाप्यहम्. ’ ॥७६३॥प्रजापतेरात्म ज स्तामित्युवाच कृतांजलिः, ‘ मासं स्त्रीत्वं प्राप्य मातर्मासं स्यां पुरुषः पुनः. ’ ॥७६४॥देव्याह, ‘ कार्दमे य ! त्वं पुमान्मासं भविष्यसिन स्मरिष्यसि पुंभावे स्त्रीत्वं स्त्रीत्वे च पौरुषम् ॥७६५॥एवं लब्ध्वा वरं रा जा स इलो मुदमाययौ स्त्रीत्वे पुत्रं बुधाल्लेभे पुरूरवसमुत्तमम्. ॥७६६॥एवंभूतोऽपि सु म हत्कृच्छ्रान्मुक्तः स भूपतिः अश्वमेधेन सौमित्रे ! प्रसादात्परमेशितुः. ॥७६७॥प्रतिष्ठाने ततः श्री मान् उवास बहुलाः समाः अश्वमेधसमो यज्ञो न भूतो न भविष्यति. ॥७६८॥तस्मादावश्यको रा ज्ञामश्वमेधः सतां मतः मयापि खलु कर्तव्यो वसिष्ठस्याभ्यनुज्ञया. ॥७६९॥ तद्वरिष्ठं मति म तां वामदेवादिभिः सहवसिष्ठं द्रष्टुमिच्छामि तं त्वं गुरुमिहानय. ॥७७०॥वसिष्ठादिर्मुनि ज नः समानीतस्तमानतः रामः प्रांजलिराचख्यावश्वमेधमनोरथम्. ॥७७१॥तमूचुर्मुनयो, ‘ य ष्टुमश्वमेधेन राघव ! समर्थस्त्वं वयं सर्वे सहायास्तव कर्मणि. ’ ॥७७२॥गुरूणामाज्ञया रा जा भरतं गोमतीतटे प्राहिणोन्नैमिषे कर्तुं यज्ञवाटं यथोचितम्. ॥७७३॥दूतान्प्रस्थाप्य सु म तीन् शत्रुघ्नं कपिनायकम्बिभीषणं नृपान् विप्रानानयामास सानुगान्. ॥७७४॥अश्वस्य रक्षणे ज न्यप्रवीणं लक्ष्मणं प्रभुः व्यादिदेश प्रववृते स यज्ञः परमाद्भुतः. ॥७७५॥कांचनीं जानकीं य ज्ञक्रियार्हां रघुनंदनः कारयित्वा ततो दीक्षां जग्राह जगदीश्वरः. ॥७७६॥तस्मिमन्यज्ञे जनोऽज स्रं हृष्टः पूर्णमनोरथः दत्तं सर्वं मुखाद्यावद्देहीति न विनिःसृतम्. ॥७७७॥न बभूवेदृशो य ज्ञः शक्रस्य वरुणस्य वा यमस्य सोमस्येत्यूचुः सर्व एव तपोधनाः. ॥७७८॥रात्रिंचरा वान रा श्च सुवेषाः प्रयताः प्रियाः यज्ञागतानां सर्वेषामासन् सर्वेऽपि किंकराः ॥७७९॥वाल्मीकिवाटः सु म हान् रुचिरो गोमतीतटे आसीत्सुमहितो भूपैर्मुनिभिश्च महात्मभिः. ॥७८०॥शिष्यावुवाच स श्री मान् ‘ युवां गत्वा समाधिनाकृत्स्त्रं रामायणं काव्यं गायतां परया मुदा. ॥७८१॥यदि पृच्छेद्युवां रा जा रामः कस्येति दारकौ वाल्मीकेरथ शिप्यौ द्वावेवं ब्रूतां सुनिस्पृहौ. ॥७८२॥ लोभो युवाभ्यां न म नाक्कर्तव्यो धनवांछया किं धनेनाश्रमस्थानां फलमूलाशिनां सदा. ॥७८३॥गेयं समग्रं सु ज नौ नावज्ञेयश्च पार्थिवः पिता हि सर्वभूतानां राजा भवतिधर्मतः. ’ ॥७८४॥संदिष्टौ तौ विन य तस्तथेति रचितांजली यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्. ॥७८५॥तां शुश्राव सदा रा ध्यः सत्कृतिं मुनिनिर्मिताम् बालाभ्यां मधुरं गीतां कौतूहलपरोभवत्. ॥७८६॥कर्मांतरे सभा म ध्ये समाहूय महामुनीन् बालौ कुशलवौ गातुं स्थापयामास राघवः. ॥७८७॥सर्वज्ञसत्समा ज स्थौ श्रोतॄणां हर्षवर्धनम् गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ. ॥७८८॥प्रवृत्तस्य सुगे य स्य श्रवणेनातिहारिणा नैव तृप्तिं ययुः सर्वे श्रोतारो रामसंसदि. ॥७८९॥हृष्टा विप्राश्च रा ज न्या वैश्याः शूद्राश्च दारकौ पिबंत इव चक्षुर्भ्यां पश्यंति स्म मुहुर्मुहुः. ॥७९०॥ऊचुः परस्परं य ज्ञे संगताह सर्व एव ते उभौ रामस्य सदृशौ बिंबाद्विंबमिवोद्धृतौ. ॥७९१॥जटावल्कधरौ रा शी न स्यातां यदि तेजसाम्विशेषं नाधिगच्छामो गायतो राघवस्य च. ॥७९२॥ततोऽपराह्णस म ये सर्गान् श्रुत्वा स विंशतिम् अष्टादशसहस्राणि सुवर्णस्य महात्मनोः. ॥७९३॥प्रयच्छेति तदा श्री मान् राघवः प्राह लक्ष्मणम्ददौ स शीघ्रं सौमित्रिस्तयोः स्वर्ण पृथक् पृथक्. ॥७९४॥दीयमानं कुमा रा भ्यां फलमूलाशिनोर्वने किमनेनेति ताभ्यां तत्सुवर्णं नोररीकृतम्. ॥७९५॥तथो तयोः पर म कं वाक्यं श्रुत्वा निरिच्छयोःश्रोतारश्चैव रामश्च सर्वं एव सुविस्मिताः. ॥७९६॥पप्रच्छ तौ सुते ज स्कौ रामः कौतूहलान्वितः ‘ कर्ता काव्यस्य कः कास्ते कौ युवा’मिति सादरम्. ॥७९७॥तमूचतुस्तौ ‘ सु य शा वाल्मीकिर्भगवान्मुनिः काव्यस्य कर्ता संप्राप्तो यज्ञस्य सविधं प्रभुः. ॥७९८॥यदि बुद्धिः कृता रा जन् ! श्रवणाय महारथ ! कर्मातरे क्षणीभूतस्तच्छ्टणुष्व सहानुजः. ’ ॥७९९॥बाढमित्याह सु म ना रामस्तावथ तं तदा आपृच्छय जग्मतुर्हृष्टौ यत्रास्ते मुनिपुंगवः. ॥८००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP