संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ६५१ ते ७०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ६५१ ते ७०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ६५१ ते ७०० Translation - भाषांतर विप्राः प्रोचु‘र्मधुः श्री मान् दैत्यो भक्तोंऽबिकापतेः शूलं शूलाद्विनिष्कृष्य तस्मै दत्तं स्मरारिणा. ॥६५१॥ तत्पुत्रो लवणो रा जन् ! बाधते शूलतेजसा, तं शूलरहितं हत्वा ब्राह्मणांस्त्रातुमर्हसि. ॥६५२॥अभिषिच्यात्मसा म र्थ्यं शत्रुघ्नं तैर्द्विजैः सह राघवः प्रेषयामास लवणं हंतुमोजसा. ॥६५३॥रामादमोघम ज तः संभूतं शरमद्भुतम्प्राप्य प्रणम्य तं प्रायाच्छत्रुघ्नः सेनया वृतः. ॥६५४॥पुण्यकीर्तराल य स्य वाल्मीकेराश्रमेऽवसत्तत्र कल्माषपादस्य स मुनेरशृणोत्कथाम्. ॥६५५॥ यस्यां स राघवो रा त्रौ पर्णशालां समाविशत् तस्यां सीताप्यर्धरात्रे प्रसूता दारकद्वयम्. ॥६५६॥ प्रसूतौ पुण्यस म ये बालचंद्रसमप्रभौ दृष्टौ वाल्मीकिना प्रीत्या मार्जितौ तौ कुशैर्लवैः. ॥६५७॥ वाल्मीकिर्द्विजरा ज स्तं कुश इत्याह यः कुशैः पुत्रः संमार्जितो ज्येष्ठो लवं च प्रोक्षितं लवैः. ॥६५८॥ अर्धरात्रे सोऽन्व य स्य वृद्धिं श्रुत्वा प्रभोर्मुदा पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत्. ॥६५९॥प्रजावत्याः पुत्र ज न्मप्रहृष्टो लक्ष्मणानुजः मुनिं प्रांजलिरामंत्र्य प्रययौ यमुनातटम्. ॥६६०॥ इक्ष्वाकोरन्ववा य स्य भूषणं यो महायशाः स मांधाता हतोऽनेव लवणेन दुरात्मना. ॥६६१॥इति शुश्राव सू रा त्मप्रभवायास्तटे मुनेः च्यवनात्स सुमित्राया नंदनो विस्तरात्कथाम्. ॥६६२॥ ततः प्रभाते स म धोर्निर्गतः स्वपुरात्सुतःभक्ष्यमाहर्तुमटवीं गतो दूरं महाबलः. ॥६६३॥ज्ञात्वा तदैव स श्री मान् गृहीतवरकार्मुकः उत्तीर्य यमुनां तूर्णं तस्थौ द्वारि मधोः पुरः. ॥६६४॥प्राप्तेऽर्धे दिवसे रा त्स क्रूरकर्मा मधोः सुतः आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन्. ॥६६५॥ददर्श लवणो म द्यमांसमत्तः स राघवम् तमाह, ‘ किमनेन त्वमायुधेन करिष्यसि ? ’ ॥६६६॥ईदृशानां मया ज न्ये सायुधानां नराधम ! भक्षितानि सहस्त्राणि कालेनानुगतो ह्यसि. ’ ॥६६७॥श्रुत्वा वचो निर्भ य स्य हसतश्च मुद्दुर्मुहुः शत्रुघ्नः कुपितः प्राह भ्राता रामस्य धीमतः. ॥६६८॥‘ शत्रुघ्नोऽहं भूसु रा रे ! वधाकांक्षी तवागतः द्वंद्वयुद्धं देहि मत्तो न त्वं जीवन् गमिष्यसि. ’ ॥६६९॥तच्छ्रुत्वा लवणो म त्तस्तमाह प्रहसन्मुहुः ‘ दिष्ट्या प्राप्रोसि मंद ! त्वं भ्राता मन्मातुलद्विषः. ॥६७०॥जन्मकामस्य ते ज न्यमहं दास्यामि दुर्मते ! मुहूर्तं तिष्ठ तावत्त्वं यावदायुधमानये. ’ ॥६७१॥तमाह राघवो य त्तः, ‘ क्क मे जीवन् गमिष्यसि स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना. ’ ॥६७२॥तल्लक्ष्मणस्यानु ज स्य वचः श्रुत्वा स राक्षसः क्रोधमाहारयत्तीव्रं ‘ तिष्ठ तेष्ठे’ति चाब्रवीत्. ॥६७३॥तं ब्रुवाणं तथा य ज्ञद्विजघ्नं घोरदर्शनम शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत्. ॥६७४॥‘ शत्रुघ्नो न तदाऽ रा ते जातो भूपा हता यदा तदद्य मद्वाणहतो व्रज त्वं यमसादनम्. ॥६७५॥सर्वे हृष्टा भूम्य म रास्त्वां मया निहतं रणे पश्यंतु रक्षोपसद ! त्रिदशा इव रावणम्. ’ ॥६७६॥यदैवं प्राह स श्री मांश्चुक्षुभेऽतितरामरिःचिक्षेप वृक्षांच्छत्रुघ्नः शरैस्तांच्छतधाच्छिनत्. ॥६७७॥ततोऽन्यागप्रहा रा त्स स्रतांगो मूर्च्छितोऽभवत्तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्, ॥६७८॥ रक्षो लब्धांतर म पि न विवेश स्वमालयम् वज्राननं वज्रवेगं जग्राहामोघमद्भुतम्. ॥६७९॥ लब्धसंज्ञः स ते ज स्विप्रवरस्तं महाशरम्वज्राननं वज्रवेगं जग्राहामोघमद्भुतम्. ॥६८०॥तस्मिन् धृते प्रल य जज्वलनप्रतिमे शरेभीतान् सुरर्षीनभयं ददौ देवः पितामहः. ॥६८१॥ संधाय बाणं सा रा ढ्यं विकृष्य धनुराश्रुति शत्रुघ्नः स महातेजा मुमोच लवणोरसि. ॥६८२॥सायकोऽतुलसा म र्थ्यो विदार्यारेरुरस्तदा गत्वा रसातलं हस्तं पुनरेवागमद्द्रुतम्. ॥६८३॥निर्भिन्नवक्षा र ज नीचरः स लवणः खलः पपात सहसा भूमौ वज्राहत इवाचलः. ॥६८४॥तच्छूलं तन्निल य तः समुत्पत्य महाप्रभम् पश्यतां सर्वदेवानां रुद्रस्य दशमागमत्. ॥६८५॥पूजितः प्राप्तवि ज यः शत्रुघ्नः स महर्षिभिः शक्रादिभिश्च त्रिदशैर्लवणे दुर्जये हते. ॥६८६॥ सुरास्तमूचुः प्र य तं ‘ वरं वरय सुव्रत ! ’ तान्प्रत्युवाच शत्रुघ्नो बद्धांजलिपुटस्तदा. ॥६८७॥‘ पुरीयं मधुरा रा जधानीत्वं प्राप्नुयादिति ’ वरयामास ते प्रीताः सर्वे प्रोचुस्तथास्त्विति. ॥६८८॥ततो निवेश्य सु म ना राजधानीं मनोहराम् जगाम द्वादशे वर्षे द्रष्टुं रामं चिरोषितः. ॥६८९॥वाल्मीकेराश्रमे श्री मानवसत्तेन पूजितः शुश्राव रामचरितं गायतोस्तत्कुमारयोः. ॥६९०॥श्रुत्वा रामयशो रा गी विसंज्ञो बाष्पलोचनः मुहूर्तमात्रमभवद्विनिश्वस्य मुहुर्मुहुः. ॥६९१॥ आश्चर्ये सैनिका म ग्नाः शत्रुघ्नमिदमब्रुवन्, ‘ अद्भुतं किमिदं राजन् ! वाल्मीकिं पृच्छ तत्त्वतः. ’ ॥६९२॥स तानाहाश्रमेऽ ज स्रं संत्याश्चर्याण्यनेकशःअद्भुतोऽर्थः परिप्रष्टुं न क्षमोऽस्माकमीदृशः. ’ ॥६९३॥अलब्धनिद्रः प्र य तः प्रातर्नत्वा मुनीश्वरम् अयोध्यामगमद्रामं नत्वाभूद्धर्षनिर्भरः. ॥६९४॥स उषित्वा सप्त रा त्रमाज्ञप्तः प्रभुणा पुनः जगाम मधुरां भव्यां राजधानीं मनोरमाम्. ॥६९५॥ततः कदाचिद्वि म ना मृतमादाय बालकम् वृद्धो जानपदो विप्रो राजद्वारमुपागमत्. ॥६९६॥चक्रे विलापं स ज रन् पुत्रशोकाकुलो भृशम्, ‘ नाहं पापी मृतोऽसि त्वं बाल ! दोषेण भूपतेः. ॥६९७॥राम ! बालं जीव य मे नो चेद्वार्यत्र निश्चितम् सदारोऽहं मरिष्यामि ब्रह्महत्यां त्वमाप्नुहि. ॥६९८॥न दृष्टो न श्रुतो ज न्मी मृतः कश्चन कुत्रचित् तवैव राज्येऽभिनवं मयैतदनुभूयते. ’ ॥६९९॥एवं पुत्रस्यात्य य तः शोकाक्रांतो द्विजोऽब्रवीत् ततोप्यतितमां रामो दुःखं प्रप सतां गतिः. ॥७००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP