उत्तरकांडम् - काव्य ५०१ ते ५५०
उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
युधाजितं प्रीत म ना रामः सत्कृत्य मातुलम्
प्राहिणोज्जयहृष्टात्मा स्वपुरं स ययौ मुदा. ॥५०१॥
अन्यानाप्तान्भूभु ज श्च साहाय्यं कर्तुमागतान्
स्वराष्टं प्रेषयामास सत्कृत्य भरताहृतान्. ॥५०२॥
नृपाणां समुदा य स्तं रामं त्यक्त्वा ततो व्रजन्
दुःखितोऽभूत्तथात्यंतं देही देहमिव त्यजन्. ॥५०३॥
यैः सहायैः प्रप ज यं हत्वा रावणमाहवे
तेभ्यः कपिभ्यः प्रददौ रत्नाकल्पान् रघूत्तमः. ॥५०४॥
सुग्रीवस्य सहा य त्वं कीर्तयित्वा पुनःपुनः
तस्मै ददौ महार्हाणि भूषणानि रघूद्वहः. ॥५०५॥
बिभीषणं यातु रा जं तस्यामात्यांश्च राक्षसान्
प्रशस्य तेभ्यः प्रायच्छद्रत्रालंकारसंचयान्. ॥५०६॥
अथांकमारोप्य म रुद्वालिपुत्रु सुताविव
सुग्रीवमाह श्रीरामः ‘ सत्कारार्हाविमौ सखे ! ॥५०७॥
मंत्रे युक्तौ तव श्री मन् ! ममापि च हिते रतौ
एतौ त्वया मयाप्यंग ! पूजनीयौ कपीश्वर ! ’ ॥५०८॥
इत्युक्त्वा स्वशरी रा त्स व्यवमुच्यातिवत्सलः
भूषणानि महार्हाणि तदांगदहनूमतोः ॥५०९॥
बबंधांगेषु स म लंचक्रे नक्रेभतारकः
बहून्मासान् दत्तमहान् वासयामास सन्निधौ. ॥५१०॥
अथ काकुत्स्थरा ज स्तं सुग्रीवं सबिभीषणम्
जाम्बवत्प्रमुखान् सर्वान्यूथपानिदमब्रवीत्. ॥५११॥
‘ यूयं मे सुहृदो य त्नाद्भवद्भिरहमुद्धृतः
धन्यो राजा सुकंठोऽयं धन्योऽयं च बिभीषणः. ॥५१२॥
धन्या यूयं शरी रा न्मे प्राणेभ्यो वसुतः प्रियाः
हिया स्वर्गद्रुमा व्याप्ता श्रुत्वा युष्मदुपक्रियाः. ॥५१३॥
सौम्य ! सुग्रीव धा म त्वं किष्किंधायामलंकुरु
भुंक्ष्व निष्कंटकं राज्यं प्राज्यं सुखमवाप्नुहि. ॥५१४॥
बिभीषण सखे !ऽ ज स्रं लंकायां वस हर्षितः
स्मर्तव्योऽहं त्वया प्रीत्या गच्छ त्वं विगतज्वरः. ’ ॥५१५॥
श्रुत्वा वाक्यं सत्प्रि य स्य रामस्यर्क्षाश्च वानराः,
‘ साधु साध्वि’ति तं सर्वे प्रशशंसुः पुनःपुनः. ॥५१६॥
‘ तव बुद्धिर्वरा ज ह्वुकन्येव त्रिजगद्धिता
माधुर्य परमं राम ! भवतो वचसि स्थितम्. ॥५१७॥
त्वं संश्रितानां श्रे य स्कृत् वीर्यमत्यद्भुतं तव ’
तेष्वित्यादि ब्रुवाणेषु हनूमान् प्रणतोऽब्रवीत्. ॥५१८॥
‘ स्नेहो म परमो रा जंस्त्वयि तिष्ठतु नित्यदा
भक्तिश्च नियता वीर ! भावो नान्यत्र गच्छतु. ॥५१९॥
यावद्रामकथा म ह्यां चरिष्यति तवाद्भुता
तावच्छरीरे वत्स्यंतु प्राणा मम न संशयः. ॥५२०॥
यच्च तच्चरितं श्री मन् कथां ते रघुनंदन !
तन्ममाप्सरसो राम ! श्रावयेयुर्नरर्षभ ! ’ ॥५२१॥
तच्छ्रुत्वा‘हमुदा रा ख्य ! तव चर्यामृतं प्रभो !
उत्कंठां प्रहरिष्यामि मेघलेखामिवानिलः. ’ ॥५२२॥
एवं ब्रुवाणं रा म स्तु हनूमंतं वरासनात्
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच च. ॥५२३॥
‘ एवमेतद्वायु ज ! भो ! भविता नात्र संशयः
चरिष्यति कथा यावदेषा लोकेषु मामिका. ॥५२४॥
तावद्भविष्यति य शस्तव देहेऽसवस्तथा
लोका हि यावत्स्थास्यंति तावत्स्थास्यंति मे कथाः. ॥५२५॥
शेषस्येहोपका रा णां भवाम ऋणिनो वयम्
एकैकस्योपकारस्य प्राणान् दास्यामि ते कपे ! ॥५२६॥
तज्जीर्णतां यातु म यि यत्त्वयोपकृतं कपे !
नरः प्रत्युपकाराणामापत्स्वायाति पात्रताम्. ’ ॥५२७॥
तस्यांजनातनू ज स्य मौक्तिकं हारमात्मनः
उत्तार्य कंठे श्रीरामो बबंध स्वयमादरात्. ॥५२८॥
मायामानुषका य स्य नत्वा पादौ पुनःपुनः
जग्मुः स्वं स्वं गृहं रक्षः कपयः साश्रुलोचनाः. ॥५३९॥
विमानो राजरा ज स्य निदेशात्पुनरागतः
स राममाह, ‘ राजेंद्र ! शृणु विज्ञापनां मम. ॥५३०॥
मामाह स प्रभो ! य क्षस्वामी पुष्पक ! रावणम्
हत्वा त्वं निर्जितस्तस्मात्तमेव वह राघवम्. ॥५३१॥
प्रीतिर्मे परमा रा तौ हते तस्मिन् दशानने
कामो ममैष स्वीकारः कर्तव्यः प्रभुणा तव. ॥५३२॥
गच्छ रामं वह म नाक् नास्ति कश्चिव्द्यतिक्रमः
अहमाज्ञापयामि त्वां प्रभुसन्निहितो भव. ’ ॥५३३॥
‘ एवमाज्ञामहं श्री दात्प्राप्याद्य त्वामपस्थितः
भो राम ! परमात्मस्त्वं निर्विशंकः प्रतीच्छ माम्. ॥५३४॥
पूजयित्वा पुण्य रा शी रामः प्रीत्या तमब्रवीत्,
‘ गच्छ श्रीदांतिकं सौम्य ! त्वमागच्छ स्मृतो यदा. ’ ॥५३५॥
नत्वा चकार ग म नं तमनंतयशःप्रदम्
तत्पुष्पकं यक्षराजसमीपमवसत् पुनः. ॥५३६॥
ततो‘तिभद्रं प्र ज या प्राप्तं राज्ये तव प्रभो !
इत्येवं भरतःघ प्राह रामं राजशतोत्तमम्. ॥५३७॥
सर्वप्रजानां प्रि य कृद्राघवः सीतया सह
नंदनप्रतिमाशोकवनेऽथ विजहार सः. ॥५३८॥
अथ गर्भवती रा ज्ञी बभूव जनकात्मजा
तामाह रामः ‘ कामस्ते देवि ! कः क्रियतामि’ति. ॥५३९॥
स्मितं कृत्वा सुता म ह्याः सा श्रीरामं तदाब्रवीत्,
‘ तपोवनानि पुण्यानि द्रष्टुमिच्छामि रागह्व ! ॥५४०॥
कामोऽयमेव रा ज न् ! मे फलमूलाशिनां सताम्
अप्येकरात्रिं काकुत्स्थ ! निवसेयं तपोवने. ’ ॥५४१॥
वदान्यकोटिगे य स्तां सीतामाह प्रियः प्रियाम्,
‘ विश्रब्धा भव वैदेहि ! श्वो गमिष्यस्यसंशयम्. ’ ॥५४२॥
भद्रं दूतं सर्व ज न प्रवृत्तिज्ञं रघूत्तमः
पप्रच्छ, ‘ काः कथा भद्र ! नगरे विषये च नः. ॥५४३॥
मदाश्रितानि न्या य ज्ञ ! कानि सीताश्रितान्यपि
वाक्यान्याहुर्जना ब्रूहि, मा शंकां कुरु चेतसि. ॥५४४॥
वदंति खलु पौ राः किं किं वा जानपदा जनाः
अनुजान् वापि मे शूरान् कैकेयीं मातरं स्पश ! ॥५४५॥
वक्तव्यतां व रा म ह्या वने राज्ये व्रजंति हि
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभान्यहम् ’ ॥५४६॥
उवाच स स्पशः, श्री मन् ! कथयंति शुभाशुभम्
दुष्करं कृतवान् रामः समुद्रे सेतुबंधनम्. ॥५४७॥
वशं नेता वान रा श्च दुर्धर्षो रावणो हतः.
दुराचारेण चौर्येण दशकंठेन या हृता. ॥५४८॥
तामाहृत्य महा म र्षं विस्मृत्य, जनकात्मजाम्
गृहमानीतवान् रामः कथं नायं जुगुप्सते. ॥५४९॥
अस्माकं स्त्रीष्वप्य ज स्रं सहनीयं भविष्यति
यथा हि कुरुते राजा वर्तंते तमनु प्रजाः. ॥५५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP