संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य १०१ ते १५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य १०१ ते १५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य १०१ ते १५० Translation - भाषांतर तस्य त्वनंतरं ज ज्ञे कुंभकर्णो महाबलः ततः शूर्पणखा राम ! धर्मात्माथ बिभीषणः. ॥१०१॥जातो बिभीषणो य र्हि पुष्पवर्ष तदापतत्नभस्थाने दुंदुभयो देवानां प्राणदंस्तथा. ॥१०२॥तावरण्ये महा रा ज ववृधाते महौजसौ कुंभकर्णदशग्रीवौ लोकोद्वेगकरौ तदा. ॥१०३॥कुंभकर्णः सुप्र म त्तो महर्षीन् धर्मवत्सलान्भक्षयन्विचचारोग्रो न संतुष्टो जगन्त्रये. ॥१०४॥बिभीषणः शुचिः श्री मान् ’ नित्यं धर्मे व्यवस्थितः स्वाध्यायाहारनियतो बुद्धिमान्विजितेंद्रियः. ॥१०५॥अथ राजन् राज रा जस्तत्र कालेन केनचित् आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः. ॥१०६॥तं दृष्ट्वा कैकसी म ग्ना दुःखे पुत्रं दधाननम्प्राह, ‘ पश्य दशग्रीव ! भ्रातरं भाग्यशालिनम्. ॥१०७॥भ्रातृभावे समेऽ ज स्रं पश्यात्मानं त्वमीदृशम्तथा यत्रं कुरु यथा भवेर्वैश्रवणोपमः. ’ ॥१०८॥स प्राह मातरं, ‘ य त्राच्छ्रीदतुल्योऽधिकोऽपि वा भविष्याम्योजसा मातः ! संतपं त्यज हृद्गतम्. ’ ॥१०९॥स इत्युक्त्वांभोध रा भ ! तपोर्थं कृतनिश्चयः दशग्रीवो ययौ राम ! गोकर्णं सानुजो वशी. ॥११०॥स कुंभकर्णः सु म हत्तपश्चक्रे महातपाः शीतवृष्टिसहो, ग्रीष्मे पंचाग्नीन् परितः स्थितः. ॥१११॥तस्य साधुः सोऽनु जन्मा नित्यं धर्मरतः शुचिः पंच वर्षसहस्त्राणि पादेनैकेन तस्थिवान्. ॥११२॥ तावतीश्च समा य त्तः स्वाध्याये धृतमानसः तस्थावूर्ध्वशिरोबाहुः सहस्रांशुं विलोकयन्. ॥११३॥दशकंठोऽपि सोऽ ज स्रं निराहारो दृढासनः पूर्णे वर्षसहस्रे स्वं शिरो वह्नौ जुहाव ह. ॥११४॥छेत्तुकामोऽभूत्स य दा दशास्यो दशमं शिरः वरदस्त्रिदशैः सार्धं प्राप्तस्तत्र पितामहः. ॥११५॥अब्रवीत्तं सुरा रा ध्यो, ‘ वरं वरय वांछितम् महासत्त्व ! दशग्रीव ! सफलस्ते परिश्रमः. ’ ॥११६॥हृष्टः स तस्मिन्स मये प्रबद्धांजलिरब्रवीत्, ‘ नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे. ’ ॥११७॥ततः प्रोवाच तं श्री मान् भगवांश्चतुराननः, ‘ नास्ति सर्वामरत्वं ते, वरमन्यं वृणीष्व मे. ’ ॥११८॥एवमुक्ते तदा रा म ! ब्रह्मणा लोककर्तृणादशग्रीव उवाचेदं कृतांजलिरथाग्रतः. ॥११९॥‘ सुपर्णयक्षाह्य म रदैत्यदानवरक्षसाम् अवध्योऽहं प्रजाध्यक्ष ! भवेयं त्वत्प्रसादतः. ॥१२०॥अन्येषु चिंता त्व ज ! मे नास्त्येवामरपूजित ! तृणभूता हि मे सर्वे प्राणिनो मानुषादयः. ’ ॥१२१॥इत्थमुक्तस्तत्प्रि य कृत्तमुवाच पितामहः,‘ भविष्यत्येवमेतत्ते वचो राक्षसपुंगव ! ॥१२२॥हुतानि यानि धी रा ग्नौ मस्तकानि त्वया पुरा पुनस्तानि भविष्यंति तथैव तव रक्षस ! ॥१२३॥कामरूपश्च स म ये भविष्यसि दशानन ! ’ एवमुक्तस्योत्थितानि तानि शीर्षाणि रक्षसः. ॥१२४॥अथाब्रवीत्पद्म ज स्तं साध्वाचारं बिभीषणम्,‘ परितुष्टोऽस्मि धर्मात्मन् ! वरं वरय सुव्रत ! ’ ॥१२५॥कृतांजलिः स प्र य तः प्राह लोकगुरु स्वयम्,‘ प्रीतस्त्वं कृतकृत्योऽस्मि वृतः सर्वगुणैरहम्. ॥१२६॥दातव्यश्चेत्कंज ज ! मे वरस्तच्छृणु वत्सल ! परमापद्रतस्यापि धर्मे भवतु मे मतिः. ॥१२७॥अस्त्रेषु प्रवरं य त्तत्प्रसादात्तव वत्सल ! अशिक्षितं च ब्रह्मास्त्रं भगवन् ! प्रतिभानु मे. ॥१२८॥सदा धर्मनया रा मा धर्मपालनसादरा सर्वत्र बुद्धिमें देव ! भवतु त्वत्प्रसादतः. ’ ॥१२९॥तमाह देवः स म हान्, ‘ सर्वमेतद्भविष्यति राक्षसोऽप्यसि साधुस्त्वममरत्वं ददामि ते. ’ ॥१३०॥कुंभकर्णाय च श्री मान् वरं दातुमवस्थितः तं देवं परमत्रस्ताः प्राहुः प्रांजलयः सुराः. ॥१३१॥‘ कुंभकर्णेनाम रा द्य ! महेंद्रानुचरा दश नंदनेप्सरसः सप्त भक्षिता ऋषयोऽप्वज ! ॥१३२॥भक्षिता बहवोऽ म अर्त्या एवंवीर्यो वरादृते,एष लब्धवरः स्याच्चेद्भक्षयेद्भुवनत्रयम्. ॥१३३॥वरव्याजेनाब्ज ज ने ! मोहोऽस्मै दीयतां प्रभो ! लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः. ’ ॥१३४॥एवमुक्तोऽचिंत य त्स ब्रह्मा देवहिते रतः चिंतिता चिपतस्थेऽस्य पार्श्वं देवी सरस्वती. ॥१३५॥विधिस्तामाह धी रा णां भजतामिष्टकारिणीम्, ‘ वाणि ! त्वं राक्षसेंद्रस्य भव वाक् देवतेप्सिता. ’ ॥१३६॥तथेत्युक्त्वा हृष्ट म तिः प्रविष्टा सा सरस्वती धाता तमाह, ‘ वत्स ! त्वं वरं वरय यो मतः. ’ ॥१३७॥स कैकस्या आत्म ज स्तं प्रभुं तन्मोहितोऽब्रवीत्,‘ स्वप्तुं वर्षाण्यनेकानि देवदेव ! ममेप्सितम्. ’ ॥१३८॥तथेति कृतमा य स्तं प्रोक्त्वा प्रायात्पितामहःसरस्वती जहौ कृत्वा देवकार्यं निशाचरम्. ॥१३९॥दशकंठस्यानु ज श्च चिंतयामास दुःखितः, ‘ ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् ? ॥१४०॥हंताहं मोहितो य त्नाद्देवैर्मन्ये समागतैः एवं गते किं कर्तव्यं वंचितेन मयारिभिः ? ’ ॥१४१॥लब्ध्वा वरान् खेच रा स्ते न्यवसन् पितुराश्रमे तदाकर्ण्य प्रहृष्टात्मा सुमाली तानुषागतः. ॥१४२॥मातामहः स कु म तिस्तं दशग्रीवमब्रवीत्,‘ दिष्ट्या वत्स ! त्वया प्राप्तश्चितितोऽयं मनोरथः. ॥१४३॥त्यक्त्वा लंकां वयं श्री शत्रस्ताः प्राप्ता रसातलम्तद्गतं नो महाबाहो ! महद्विष्णुकृतं भयम्. ॥१४४॥लंकायां रक्षयां रा जा भव त्वमधुना बली, त्वया राक्षसवंशोऽयं निमग्नोऽपि समुद्धृतः. ॥१४५॥धनेश्वराल्लब्ध म हा लंकामाच्छिद्य तेजसा अस्माभिः सचिवैर्युक्तो राज्यं त्वं भोक्तुमर्हसि. ’ ॥१४६॥उवाच विश्रवो ज स्तं मातुस्तातं सुमालिनम्, ‘ वित्तेशो गुरुरस्माकं नार्हसे वक्त्तुमीदृशम्. ’ ॥१४७॥ततः प्रहस्तो न य विद्दित्यदित्यात्मजन्मनाम्भ्रातृद्रोहात्मकं वृत्तं कथयामास विस्तरात्. ॥१४८॥चिंतयित्वा तद्दु रा त्मा प्रहस्तस्य वचस्ततः दशास्यो बाढमित्युक्त्वा स लंकोपवनं गतः. ॥१४९॥तं प्रहस्तं दूत म र्थमुक्त्वा वैश्रवणातिकम् प्रेषयामास साम्ना मे लंकां देहीति भाषितुम्. ॥१५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP