संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ३५१ ते ४०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ३५१ ते ४०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ३५१ ते ४०० Translation - भाषांतर नीते पुरीं शत म खे घननादेन तेजसा प्रजापतिं पुरस्कृत्य ययुर्लंकां सुरास्तदा. ॥३५१॥आसाद्य राक्षसं श्री मानब्रवीत्तं पितामहः.‘ वत्स ! रावण ! तुष्टोऽस्मि पुत्रस्य तव विक्रमात्. ॥३५२॥ जितो यतो देव रा जो मेघनादेन संगरे जगतींद्रजिदित्येवमेष ख्यातो भविष्यति. ॥३५३॥तन्मुच्यतां शत म खो महाबाहो ! दशानन ! किं चास्य मोक्षणार्थाय प्रयच्छंतु दिवौकसः ’ ॥३५४॥अथाह तत्काय ज स्तमिंद्रजित्समितिंजयः,‘ अमरत्वमहं देव वृणे यद्येष मुच्यते. ’ ॥३५५॥ततोऽब्रवीद्भूरि य शा मेघनादं प्रजापतिः, ‘ नास्ति सर्वामरत्वं हि प्राणिनः कस्यचिद्भुवि. ’ ॥३५६॥स तमाह सुरा रा ध्यं ‘ स्यंदनेऽग्नेः समुत्थिते तिष्ठतोऽमरता मे स्याद्वर एष वृतो मया. ’ ॥३५७॥‘ एवमस्त्वि’ति सा म ज्ञस्तमुवाच प्रजापतिःमुक्तश्चेंद्रजिता शक्रः सुराश्च त्रिदिवं गताः. ॥३५८॥दीनोऽभूद्देवरा ज स्तं ब्रह्मोवाच, ‘ शतक्रतो ! अहल्याधर्षणस्यैतत्फलं प्रपतं खलु त्वया. ॥३५९॥प्रजानां परमं य त्तन्मया रूपं समुद्धृतम् ततः स्त्री निर्मिता पूर्वं रत्नभूता जगन्नये. ॥३६०॥हलं वैरूप्यमो ज स्विन् ! हल्यं तत्प्रभवं तु यत् तन्निंद्यत्वं न यस्याः सा नाम्नाहल्येति कीर्तिता. ॥३६१॥कस्य भार्या महा य स्य भवित्रीयं जगत्स्विति मम चिंताभवद्रत्रभूतां निर्माय तां भृशम्. ॥३६२॥स्थानाधिकतया रा मां त्वं जानीषे ममेति ताम् गौतमे सा मया न्यस्ता न्यासभूतावसच्चिरम्. ॥३६३॥तेन प्रत्यर्पिता म ह्यमविकारेण चेतसा मुनेर्ज्ञात्वा महाधैर्यं तस्मै सा स्पर्शिता मया. ॥३६४॥सा त्वया धर्षिता श्री मन् ! कामार्ते समन्युनादृष्टस्त्वं गौतमेनासि सप्तश्चात्युग्रतेजसा. ॥३६५॥धर्षणान्मम दा रा णां शत्रुहस्तं गमिष्यसिमौतमेनैवमुक्तस्त्वं तस्यैतत्फलमागतम्. ॥३६६॥अहल्यां चाप्यति म हा गौतमः स तदाब्रवीत्दुर्विनीतेऽधुना ध्वंस ममाश्रमसमीपतः. ॥३६७॥यस्मात्सुरूपता ज न्याद्रर्वात्त्वमनवस्थिता तस्माद्रूपवती लोके न त्वमेका भविष्यसि. ॥३६८॥इत्युक्ता सा विन य तः प्रांजलिर्मुनिमब्रवीत्,‘ वंचतास्मि मुने ! तेन त्वद्रूषेण दिवौकसा ॥३६९॥नाहं दुष्टा तपो रा शे ! प्रसादं कर्तुमर्हसि. ’ तयैवं प्रार्थितः शांतक्रोधस्तामाह गौतमः, ॥३७०॥‘ उत्पत्स्यत्यद्भुत महा इक्ष्वाकूणां महारथः आतिथ्यं तस्य कृत्वा त्वं पूता मां पुनराप्स्यसि. ॥३७१॥स्मर तद्देवरा ज त्वं दुष्कृतं यत्त्वया कृतम् शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम्. ॥३७२॥तच्छीघ्रं वैष्णवं य ज्ञं कुरु शक्र ! यथाविधि पावितः ऋतुना तेन प्राप्स्यसे त्रिदिवं पुनः. ॥३७३॥ प्रहारार्तस्तनू ज स्ते पुलोम्नाश्वपवाहितः नीतः समुद्रे कुशली स त्वागंताऽचिराद्धरे. ॥३७४॥तच्छ्रुत्वा वैष्णवं य ज्ञमिष्ट्वा देवेश्वरस्ततः पुनस्त्रिदिवमाक्रामदन्वशासच्च पूर्ववत्. ॥३७५॥एतद्बलं महा रा ज ! प्रोक्तमिंद्रजितो मया निर्जितस्तेन देवेंद्रः प्राणिनोऽन्ये तु किं पुनः. ॥३७६॥‘ आश्चर्यमिति ’ रा म श्च लक्ष्मणश्चाब्रवीत्तदा अगस्त्यवचनं श्रुत्वा वानरा राक्षसाश्च ते. ॥३७७॥अगस्त्यं राघवः श्री मानब्रवी ‘ द्भगवन् ! यदा बभ्राम पृथिवीं सर्वां रावणो राक्षसेश्वरः. ॥३७८॥तदा लोकास्तपो रा शे ! शून्या आसन्किमंग ! यत् धर्षणं यत्र न प्रप्तो, हतवीर्या उताभवन्. ॥३७९॥तमगस्त्योऽगाध म तिः प्रहसन्नाह राघवम्,‘ चचार रावणो भूमिं बाधमानो धरापतीन्. ॥३८०॥ततो माहिष्मतीं ज न्यकामः प्राप्तो वरोद्धतः यत्रासीदर्जुनो राजा साक्षादग्निश्च सर्वदा. ॥३८१॥स दशास्यो दिने य स्मिन्प्राप्तो माहिष्मतीं पुरीम् तस्मिन्नेव दिने रंतुमर्जुनो नर्मदां गतः. ॥३८२॥आख्याते सचिवै रा ज्ञोऽसांनिध्ये सर्वशर्मदाम् विंध्यं, चित्रं महाशैलं ययौ पश्यन्त्स नर्मदाम्. ॥३८३॥प्रशस्य नर्मदां म ध्येपुलिनं दशकंधरः जांबूनदमयं लिंगं पूजयामास सादरम्. ॥३८४॥ननर्त सामानि ज गावीश्वरस्याग्रतस्तदा नर्मदायाः प्रतिस्तोतः प्रवृद्धं जलमाययौ. ॥३८५॥नर्मदापुलिने य त्र राक्षसेंद्रः स रावणः शिवस्य पूजामकरोत्तस्माद्देशाददूरतः. ॥३८६॥तत्र रेवासिंधु ज ले सदारः सोऽर्जुनः प्रभुः क्रीडन् रुरोध कुतुकी दोःसहस्त्रेण तां नदीम्. ॥३८७॥तस्याः स वेगः प य सः संप्रेषित इवाद्भुतः पुष्पोपहारं सकलं जहार त्रिदशद्विषः. ॥३८८॥तं वेगप्रभवं रा जा सोऽन्वेष्टुं शुकसारणौ आदिशत्तौ गतौ व्योममार्गगौ पश्चिमामुखौ. ॥३८९॥गत्वार्धयोजनं म ध्ये नर्मदं महिलाशतमसहस्रबाहुं क्रीडंतं पुरुषं समपश्यताम्. ॥३९०॥तावागत्योचतुः,‘ श्री मन् ! कोऽपि तालोच्छ्रितः पुमान्योषितः क्रीडयत्यारान्नदीं रुद्ध्वा भुजैः प्रभो ! ’ ॥३९१॥ज्ञात्वा तमर्जुनं रा हुः प्रभाकरमिव स्वयम्प्रमत्तो रावणः प्रागात्तं नृपं युद्धलालसः. ॥३९२॥तन्मंत्रिणः क्रुधा मत्तः प्राह गंभीरया गिरा,‘ युद्धार्थं रावणः प्रपत इत्याख्याताशु हैहयम्. ’ ॥३९३॥उत्तस्थुः सायुधा ज न्यकामं तं ते तदाब्रुवन्, ‘ युद्धस्य कालो विज्ञातः साधु भो साधु रावण ! ॥३९४॥क्षीबं योषिद्गतं य स्त्वं योद्धुमुत्सहसे नृपम् श्वो वा युध्यस्व हत्वास्मानर्जुनेन सहाद्य वा. ’ ॥३९५॥ततोऽतिदुष्टाचा रा स्ते सचिवास्तस्य रक्षसःहत्वा तान् भक्षयामासुः क्षुधिताः कुणपाशनाः. ॥३९६॥तदा बभूव सु म हांस्तीरे हलहलाध्वनिः हैहयाधिपयोधानां युध्यतां चापि रक्षसाम्. ॥३९७॥दक्षास्यसचिवा ज घ्नुः कार्तवीर्यस्य तद्बलम्तस्य कर्माशु कथितं पुरुषैरर्जुनाय तत्. ॥३९८॥तच्छ्रुत्वा शत्रुभ य दः स्त्रीजनं नर्मदांभसः उत्ततार न भेतव्यमित्युक्त्वा कुपितोऽर्जुनः ॥३९९॥गदामादाय स ज वः स सहस्रभुजोऽर्जुनः अभिदुद्राव रक्षांसि तमांसीव दिवाकरः. ॥४००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP