उत्तरकांडम् - काव्य ४०१ ते ४५०
उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
स्थितं प्रहस्तम य नं रुद्ध्वा तन्मुसलं कृती
वंचयित्वा तं गदया पातयामास मूर्छितम्. ॥४०१॥
तं दृष्ट्वा पतितं रा ज्ञो भीताः सर्वे निशाचराः
शुक्रसारणमारीचा अपसृष्टा रणाजिरात्. ॥४०२॥
दशाननः सोऽति म न्युर्नृपमभ्यद्रवत्तदा
रावणार्जुनयोर्युद्धमभवद्रामेहर्षणम्. ॥४०३॥
स्तनांतरेऽर्जुनः श्री मान् गदिनं राक्षसेश्वरम्
सर्धप्राणेनाजघान गदया भीमवेगया. ॥४०४॥
रक्षसो वज्रसा रा सा वरत्राते महोरसि
दुर्बलेव गदा राम ! द्विधाभूतापतत्क्षितौ. ॥४०५॥
दशाननोऽप्यति म हाः प्रहारेणापराड्मुखः
अपासर्पंद्धनुर्मात्रं निषसाद च निष्ठनन्. ॥४०६॥
ततो हैहयरा ज स्तं शत्रुमालक्ष्य विह्वलम्
सहसोत्पत्य जग्राह गरुत्मानिव पन्नगम्. ॥४०७॥
दोःसहस्रेण सु य शा गृहीत्वा तं दशाननम्
बबंध बलवान् राजा बलिं नारायणो यथा. ॥४०८॥
बध्यमाने सुरा रा तौ साधु साध्विति वादिनः
पुष्पवृष्टिं सुराश्चक्रुः कार्तवीर्यस्य मूर्धंनि. ॥४०९॥
व्याघ्रो मृगमिवा म र्षाद्गृह्य सिंह इव द्विपम्
ररास हैहयो राजा हर्षादंबुदवन्मुहुः. ॥४१०॥
प्रहस्तो गतते ज स्कं बद्धं दृष्ट्वा दशाननम्
मुख्यैर्निशाचरैः सार्धमभिदुद्राव हैहयम्. ॥४११॥
सप्रहस्तैस्तदा य त्तेर्यत्तैः क्षिप्तं वरायुधम्
तदेवादाय तेनैव तान् जघान महाभुजः. ॥४१२॥
तदायुधैस्तान् र ज नीचरान्त्स समरेऽर्जुनः
भित्त्वा विद्रावयामास वायुरंबुधरानिव. ॥४१३॥
आदाय रक्षःक्ष य कृत्सोऽर्जुनस्तं दशाननम्
प्रविवेश पुरीं पौरैर्विप्रैः शक्र इवार्चितः. ॥४१४॥
तदाकर्ण्य तपो रा शिः पुलस्त्यो भगवानृषिः
प्रार्थयामास तं भूपं, ‘ पौत्रं मुंच ममेति ’ सः ॥४१५॥
सख्यं कृत्वाद्भुत म हाः प्रपूज्य दशकंधरम्
विमुच्य तं ब्रह्मसुतं विससर्ज कृतांजलिः. ॥४१६॥
पुलस्त्यः स मुनिः श्री मान् मोचयित्वात्मजात्मजम्
जगाम ब्रह्मणो लोकं शोकं नैव ददाति यः. ॥४१७॥
पुनः पृथ्वीं चचा रा रिर्भग्नान् कुर्वन्महीक्षितः
ततो जगाम किष्किंधां नगरीं वालिपालिताम्. ॥४१८॥
गत्वाह्वयामास म त्तो वालिनं हेममालिनम्
तारस्तारापितोवाच युद्धकामं दशाननम्. ॥४१९॥
‘ गतः स ऋक्षर ज सः पुत्रः प्रतिबलस्तव
कोऽन्यः प्रमुखतः स्थातुं भवतोऽत्र कपिः क्षमः. ॥४२०॥
संध्यामन्वास्य नि य माच्चतुः सिंधुभ्य आत्ममान्
अस्मिन् समय आयाति वाली तिष्ठ मुहूर्तकम्. ॥४२१॥
त्वं पशयितानस्थि रा शीन् य एते शंखपांडुराः
युद्धार्थिनामिमे राजन् ! हतानां वालिना द्विषाम्. ॥४२२॥
त्वया यद्यपि सा म र्थ्य प्राप्तं प्राज्यामृताशनात्
तथाप्यासाद्य कीशेंद्रं समाप्तं तव जीवितम्. ॥४२३॥
तमिदानिमिह ज गच्चित्रं त्वं पश्य वालिनम्
तिष्ठ क्षणं जीवितं तु दुर्लभं ते भविष्यति. ॥४२४॥
अथवा त्वरसे य त्रान्मर्तुं त्वं राक्षसाधिप !
दक्षिणं सागरं गच्छ द्रक्षसे तत्र वालिनम्. ’ ॥४२५॥
इत्युक्तो गर्व पुं ज स्तं तारं निर्भत्स्य रावणः
दक्षिणाब्धिं गतोऽपश्यद्वालिनं भानुसंनिभम्. ॥४२६॥
गृहीतुकामो नि य मात्संध्योपासनतत्परम्
पृष्ठतो वालिनमरिर्निःशब्दपदमन्वगात्. ॥४२७॥
सार्वभौमो वान रा णां दृष्ट्वा दुष्टं यदृच्छया
स्थितस्तथैव नियमे स चकार न संभ्रमम्. ॥४२८॥
हस्तग्राह्यं तु तं म त्वा पादशब्देन रावणम्
पराड्मुखोऽपि जग्राह वाली सर्पमिवांडजः. ॥४२९॥
गृहीतुकामं तं श्री मान् गृहीत्वा राक्षसं हरिः
खमुत्पपात वेगेन कृत्वा कक्षावलंबिनम्. ॥४३०॥
स रावणं जहा रा रिं वितुदंतं नखैर्मुहुः
मुमोक्षयिषवोऽमात्या गर्जतस्तमभिद्रुताः. ॥४३१॥
अन्वीयमानो व्यो म स्थस्तैर्दशाननमंत्रिभिः
रराज वेगवान् वाली जलदैरंशुमानिव. ॥४३२॥
अशक्रुवंतोऽति ज वं तं प्रपतुं ते निशाचराः
तस्य बाहूत्थवेगेन परिश्रांता व्यवस्थिताः. ॥४३३॥
ततः स वाली प्र य यौ क्षिप्रं पश्चिममर्णवम्
तत्र संध्यामुपासित्वा गतः सागरमुत्तरम्. ॥४३४॥
प्रपय पूर्वं च वा र्रा शिं वहमानो निशाचरम्
तत्र संध्यामुपास्याथ किष्किंधामागतो हरिः. ॥४३५॥
गतश्रीकं हृत म दं कक्षाक्रांतं दशाननम्
किष्किंधोपवने वाली मुमोच प्रहसन्मुहुः. ॥४३६॥
उवाच कपिरा ज स्तं, ‘ कुतः कस्त्वमिति ’ प्रभुः
स प्राह, ‘ वानरेंद्राहं राक्षसेंद्रोऽस्मि रावणः. ॥४३७॥
अहो बलं तेऽति य शो यत्त्वया वानरेश्वर !
अहं गृहीत्वा पशुबद्धामितश्चतुरोऽर्णवान्. ॥४३८॥
त्रयाणामेव हि ज गत्यद्भुतैषासदा गतिः
मनोऽनिलसुपर्णानां तव चात्र न संशयः. ॥४३९॥
दृष्टमद्य बलं य त्ते तदिच्छामि कपीश्वर !
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः. ॥४४०॥
दाराः पुत्राह पुरं रा ष्ट्रं भोगाच्छादनभोजनम्
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ! ’ ॥४४१॥
ततस्तदा हृष्ट मती तावुभावग्निसाक्षिकम
भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम् ॥४४२॥
बलमप्रतिमं श्री मन् ! वालिनोऽभवदुत्तमम्
सोऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा. ’ ॥४४३॥
तं कुंभसंभवं रा जा राघवः स तदाब्रवीत्
‘ वालिरावणयोरल्पमधिकं मारुतेर्बलम्. ॥४४४॥
दाक्ष्यं धैर्यं विक्र म श्च प्राज्ञता नयसाधनम्
गुणा अन्ये च भगवान् ! हनूमति कृतालयाः. ॥४४५॥
एकस्यास्यैव भु ज योर्मया वीर्येण जानकी
प्राप्ता कीर्तिरियं श्रीश्च सौमित्रिश्च रणे जयः. ॥४४६॥
जिष्णुविष्णुश्रीद य मास्तेषां न भगवंस्तथा
श्रूयंते तानि कर्माणि यानि युद्धे हनूमतः. ॥४४७॥
पतिः किमर्थं ता रा याः सुग्रीवप्रियकाम्यया
तदा वैरे समुत्पन्ने भगवन्न हतोऽमुना. ॥४४८॥
न ज्ञातवानहं म न्ये भगवन्नात्मनो बलम्
यदृष्टवान् जीवितेष्टं क्लिशंतं वानराधिपम्. ॥४४९॥
तपःश्रीकेलिकुं ज त्वमेतन्मे भगवन् ! मुने !
विस्तरेण यथातत्त्वं कथयामरपूजित ! ’ ॥४५०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP