संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ५१ ते १०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ५१ ते १०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ५१ ते १०० Translation - भाषांतर प्राप्योपायं शंक रा त्ते देवा राक्षसपीडिताः शरण्यं शरणं जग्मुर्विष्णुं प्रणतवत्सलम्. ॥५१॥दत्त्वाभयं तान्सोऽ म र्त्यान् शंखचक्रगदाधरः स्वस्थानं प्रेषयामास तज्ञ्ज्ञात्वोवाच माल्यवान्, ॥५२॥‘ भ्रातरौ ! प्रार्थितः श्री शः सुरैः सोऽस्मान्निशाचरान्,हंतुं प्रतिज्ञां कृतवान् किं कर्तव्यमतःपरम् ? ’ ॥५३॥सुमालिमालिनौ रा म ! मत्तावूचतुरग्रजम्, ‘ हंतव्यास्त्रिदशा यैर्नो घातार्थं प्रार्थितोऽच्युतः. ’ ॥५४॥इति कृत्वा मतिं म त्ता देवान् हन्तुं समुद्यताः चतुरंगबलोपेता लंकायास्ते विनिर्गताः. ॥५५॥तज्ञ्ज्ञात्वा द्विजरा ज स्य पृष्ठमारुह्य चक्रभृत् तानाससाद दुर्वृत्तान् हंतुं मंतुं स्मरप्रभुः. ॥५६॥शस्त्रैर्जघ्नुः प्रभुं य त्ता युगपत्सर्व एव ते ततः शार्ङ्गधनुर्मुक्तैः शरैस्तानहनद्धरिः. ॥५७॥पांचजन्यं महा रा वं प्रदध्मौ पुरुषोत्तमः पतुस्ते राक्षसा भग्ना वाहनेभ्यो भयार्दिताः. ॥५८॥त्रासयामास स म हान् शंखराजरवः परान्मृगराज इवारण्ये समदानिव कुंजरान्. ॥५९॥सुमाली प्राप्तवि ज यं विष्णुं हंतुं धनुर्धरः ररास राक्षसो हर्षात्सतडित्तोयदो यथा. ॥६०॥सुमालिनो निर्भ य स्य सारथेरिषुणा शिरः चिच्छेद त्रिजगन्नाथो भ्रांतास्ते तस्य वाजिनः. ॥६१॥अथ मालिशरा ज न्ये कार्तस्वरविभूषिताः विविशुर्हरिमासाद्य क्रौंचं पत्ररथा इव. ॥६२॥सोऽर्द्यमानोऽपि सु य शा बहुभिर्मालिनः शरैः न चुक्षुभे रणे विष्णुर्जितेंद्रिय इवाधिभिः. ॥६३॥मालिनं त्रिदशा रा तिं क्रूरं विमुखमाशुगैः चकार पातयन् मौलिं ध्वजं चापं तुरंगमान्. ॥६४॥जघान गदया म ध्ये ललाटं स खगेश्वरम् गरुत्मान् विमुखश्चक्रेऽजितमाजौपराड्मुखम्. ॥६५॥पराड्मुखोऽपि स श्री शस्तिर्यग्वलितकंधरः मालिनोऽपातयच्छीर्षं चक्रेणातुलतेजसा. ॥६६॥हते मालिनि तौ रा जन् ! सुमाली माल्यवानुभौ सबलौ शोकसंतप्तौ लंकामेव प्रधावितौ. ॥६७॥स गरुत्मान्महा म न्युः पक्षवातेन राक्षसान्द्रावयामास देवोऽपि ममर्दारिगदेषुभिः. ॥६८॥पेतुर्हताः सिंधु ज ले राक्षसाश्छिन्नमस्तकाः माल्यवान् केशवं प्राह क्रोधप्रस्फुरिताधरः. ॥६९॥‘ नारायण ! त्वं सु य शाः क्षत्रक्षर्मं पुरातनम् न वेत्स्ययुद्धमनसो भीतान् हंसि यथेतरः. ’ ॥७०॥उवाच तेजसां रा शिः, ‘ सुराणामभयं मया उत्सादनेन भवतां तदेतदनुपाल्यते. ’ ॥७१॥शक्त्या विष्णुं बाहु म ध्ये स बिभेदाशु माल्यवान् हरेरुरसि सा रेजे मेघस्थेव शतहदा. ॥७२॥तामेव शक्तिम ज नः प्रभुरुत्कृष्य तेजसा चिक्षेप, सा माल्यवंतं बिभेदोरसि दारुणा. ॥७३॥मोहं प्राप्तोऽपि का य स्य क्षतं सोऽगणयन् बली आश्वस्तोऽभ्यहनद्देवं पुनः शूलेन वक्षसि. ॥७४॥तथैव देवरा ज स्य माल्यवान्मुष्टिनानुजम्ताडयित्वा धनुर्मात्रमपक्रांतो निशाचरः. ॥७५॥विष्णुं खगेशं च य दा राक्षसोऽताडयत्पुनः गरुडः पक्षवातेन सुदूरं तमपोहयत्. ॥७६॥दृष्ट्वैवाग्रजमा रा त्तं द्रावितं पक्षिणा तथा सुमाली स्वबलैः सार्धं लंकामभिमुखो ययौ. ॥७७॥गरुत्मतः पक्ष म रुद्बलोद्धूतः स माल्यवान्स्वबलेन समागम्य ययौ लंकां हिया वृतः. ॥७८॥एवं भग्ना रणे श्री मन् राम ! ते बहुशोऽरयः त्यक्त्वा लंकां गता वस्तुं पातालं स्वजनावृताः. ॥७९॥ये त्वयाद्य हता रा जन् ! पौलस्त्या रजनीचराः माल्यवत्प्रमुखाः सर्व एतेभ्यो बलवत्तराः. ॥८०॥न चान्योऽद्भुतस्रा म र्थ्यो हंता लोकेषु राक्षसान्विना नारायणं राम ! शंखचक्रगदाधरम्. ॥८१॥राम ! नारायणोऽ ज य्यः साक्षात्त्वं प्रभुरव्ययःराक्षसान् हंतुमुत्पन्नः शरणागतवत्सलः. ॥८२॥कृतस्त्वया वधो य स्य राक्षसस्य रघूत्तम ! जन्म प्रभावं तस्य त्वं रावणस्य निबोध मे. ॥८३॥स सुमाली सुरा रा तिर्यदा यातो रसातलम् तदा धनाधिपो लंकामवसत्पुत्रपौत्रवान्. ॥८४॥अथैकदा प्रभो ! म र्त्यलोकमादाय कन्यकाम्सुमाली व्यचरत् पश्यन् वरं दुहितुरात्मनः. ॥८५॥तदा विश्रवसं ज न्मप्रदं दृष्टुं धनेश्वरम् गच्छंतं पुष्पकेनेड्यमपश्यल्लोकनायकम्. ॥८६॥सविस्मयोऽचिंत य त्स रक्षसां श्रेय उत्तमम्, ‘ किं कृत्वेत्येवमचिराद्वर्धेमहि कथं वयम् ? ’ ॥८७॥अथाब्रवीदात्म ज निं कैकसीं स रसातले, ‘ पुत्रि ! प्रदानकालस्ते न च विज्ञायते वरः. ॥८८॥तत्त्वं विश्रवसं य त्रात्सेवया वरय स्वयम्ईदृशास्ते भविष्यंति पुत्राः पुत्रि ! न संशयः. ’ ॥८९॥सा तच्छ्रुत्वा वचो रा त्रिंचरकन्या स्वयं ययौ उपसृत्य प्रदोषे तं चरणाधोमुखी स्थिता. ॥९०॥विलिखंतीमथ म हीमंगुष्ठाग्रेण सुंदरीम् विश्रवा वीक्ष्य पप्रच्छ, ‘ का त्वं कार्यं च किं तव ? ’ ॥९१॥इवमुक्ता तु सा श्री मन् कृतांजलिरथाब्रवीत्,‘ आत्मप्रभावेन मुने ! ज्ञातुमर्हसि मे मतम्. ॥९२॥विद्धि मां तपसां रा शे ! शासनात् पितुरागताम्ब्रह्मर्षे कैकसीं नाम शेषं त्वं ज्ञातुमर्हसि. ’ ॥९३॥तां ध्यात्वोवाच स ‘ म या विज्ञातं ते मनोगतम् सुताभिलाषो मत्तस्ते मत्तमातंगगामिनि ! ॥९४॥उपस्थिता मां र ज नीमुखे त्वं दारुणे ततः प्रसविष्यसि सुश्रोणि ! राक्षसान् क्रूरकर्मणः. ’ ॥९५॥साब्रवीत्साश्रुन य ना, ‘ भगवान् ! ब्रह्मवादिनः त्वत्तः कुपुत्रान्नीच्छामि प्रसादं कर्तुमर्हसि. ’ ॥९६॥सोऽब्रवीत्तां पुष्क रा क्षीं पश्चिमो यः सुतस्तव मम वंशानुरूपः स भविष्यति शुभानने ! ’ ॥९७॥एवमुक्ता तु स म ये नीलांजनचयोपमम् दशास्यं विंशतिभुजं जनयामास सा सुतम्. ॥९८॥तस्य राम ! यदा ज न्म तदोत्पाताः सुदारुणाः बभूवुर्भूमिकंपाद्याः सर्वलोकभयप्रदाः. ॥९९॥कृतस्तथाह्वयो य त्स प्रसूतो दशकंधरःद्विबाहुरेकवत्क्रश्च कामरूपोऽपि सोऽभवत्. ॥१००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP