संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ४५१ ते ५०० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ४५१ ते ५०० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ४५१ ते ५०० Translation - भाषांतर ‘ सत्यमेतत्प्रभो ! य त्त्वं ब्रवीष्यस्मिन् हनूमति न बले विद्यते त्युल्यो न गतौ न मतौ परः. ॥४५१॥अमोघशापैर्द्वि जपैः शापो दत्तोऽस्य राघव ! न वेत्ता स्वं बलं सर्वं बली सन्नित्ययं पुरा. ॥४५२॥श्रोतु तवाभिप्रा य श्चेच्छिशुनानेन यत्कृतम् समाधाय मतिं राम ! निशामय वदाम्यहम्. ॥४५३॥प्रशास्ते केसरी रा ज्यं मेरौ सोऽस्य पिता प्रभो ! तस्य भार्यांजना तस्यां वायोर्जातोऽयमात्मजः. ॥४५४॥ फलं मत्वा दिन म णिं जपापुष्पचयोपमम् उत्पपात नभो बलः क्षुधितोऽत्तुमयं विभो ! ॥४५५॥सर्वेऽब्रुवंस्तदा श्री मान् यथायं पवनात्मजः नाप्येवं बलवान् वायुर्न गरुत्मान्मनोऽपि नो. ’ ॥४५६॥संत्रस्तोऽपसृतो रा हुः शक्रं गत्वा तमब्रवीत्. ‘ पुरा दत्तं मह्यमन्नं तदन्यस्मै कथं त्वया. ॥४५७॥अद्य पर्वण्यर्क मत्तुमागतोऽन्य सुरेश्वर ! आरुह्यैरावतं शक्रस्तच्छ्रुत्वागाद्यतो रविः. ॥४५८॥अथ राहुं कृत ज वं शक्रात्पूर्वं समागतम् उत्पपात फलं मत्वा तं गृहीतुमयं शिशुः. ॥४५९॥त्रस्तस्य तस्याभ य दः परावृत्तस्य वज्रभृत् बभूवाभिमुखः शक्रस्तदैन रघुनंदन ! ॥४६०॥फलबुद्ध्या हस्ति रा जं तमादातुमयं यदा अभिदुद्राव वज्रेण हरिरेनमताडयत्. ॥४६१॥ततः पपातैव म हत्यचलेऽयं रघूत्तम ! पतमानस्य चैतस्य वामा हनुरभज्यत. ॥४६२॥तदवस्थे तनु ज नौ पतिते वज्रताडितेचुक्रोधेंद्राय पवनः प्रजानामहिताय सः. ॥४६३॥प्रचारं स तु सं य म्य प्रजास्वंतर्गतं प्रभुःगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः. ॥४६४॥रुरोध भूतानि ज गत्प्राणः सर्वाणि रोषितः विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत. ॥४६५॥ततः प्रजा देव य क्षगंधर्वासुरमानुषाःप्रोचुः प्रजापतिं देवं ‘ दुःखं नो नुद दुःखहन् ! ’ ॥४६६॥तद्दुःखपरिहा रा य प्रजानां स प्रजापतिःवायोः समीपमागत्य शिशुं पस्पर्श पाणिना. ॥४६७॥ स्पृष्टमात्रः स क म लप्रभवेण महात्मना जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्, ॥४६८॥ चचार पवनः श्री मान् यथापूर्वं शरीरिषु मरुद्रोधाद्विनिर्मुक्ता अभवन्मुदिताः प्रजा ॥४६९॥अथोवाच सुरा रा ध्यः सुरान्त्सर्वान् हितं वचः, ‘ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति. ॥४७०॥ वरान् ददध्वम म रा मारुतस्यास्य तुष्टये. ’ स्वर्णपद्ममयीं मालां दत्त्वोवाच शतक्रतुः ॥४७१॥‘ मारुतायं काय ज स्ते वज्रावध्यो भविष्यति हनुर्हता ततो नाम्ना भविता हनुमानिति. ’ ॥४७२॥सूर्यश्चाह, ‘ मदी य स्य तेजसः शतिकां कलाम् ददामि शास्त्राण्यप्यस्मै दास्यामि समये स्वयम्. ’ ॥४७३॥वरुणोऽप्याह वा रा वा मत्पाशैर्वास्य मारुतेः वर्षायुतशतैर्मृत्युर्नं भविष्यति सर्वथा. ॥४७४॥ प्रीत्योवाचाथो य म श्च, ‘ मम दंडादवध्यता अनामयत्वं संग्रामेऽप्यविषादः सदास्त्वि’ति. ॥४७५॥गदेयं मामिका ज न्ये नैनं जातु वधिष्यतिइत्येवं वरदः प्राह श्रीदस्त्र्यक्षसखः प्रभुः. ॥४७६॥ ‘ अवध्योऽयं मदी य स्य शस्त्रास्त्रस्य भविष्यति ’ इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः. ॥४७७॥विश्वकर्माप्याह, ज गत्प्राणपुत्रो मदायुधैःअवध्यत्वमयं प्रपतश्चिरंजीवी भविष्यति. ’ ॥४७८॥ब्रह्माह, ‘ शत्रुभ य दो मित्राणामभयंकरःअजेयो भविता पुत्रस्तव मारुत ! मारुतिः. ’ ॥४७९॥कामरूपः समी रा यं सुतः कामगतिस्तवरोमहर्षकराण्येव कर्ता कर्माणि संयुगे. ॥४८०॥प्रीतिं संपाद्य रा म स्य रावणारेर्महात्मनःसाहाय्यमतुलं कृत्वा कीर्तिमान् प्रभविष्यति. ॥४८१॥इत्युक्त्वा वरदः श्री मान् ब्रह्मामंत्र्य समीरणम्जगाम त्रिदशैः सार्धं सत्यलोकमृषिस्तुतः. ॥४८२॥पुत्रं केसरिदा रा णां गृहं नीत्वा स मारुतः वरदानं समाख्याय तानापृच्छय विनिर्गतः. ’ ॥४८३॥प्राप्तातिवरसा म र्थ्य आश्रमेषु तपस्विनाम् अग्निहोत्राणि पात्राणि वल्कलानि व्यनाशयत्. ॥४८४॥पीडिताः शांतिभा ज स्ते वरज्ञानातिमन्यवः शेपुरेनं ‘ नात्मबलं वेत्तासि स्वयमित्यलम्. ॥४८५॥कीर्तिस्तवान्येन य दा भवित्री स्मारिता पुनःतदांजनेय ! नचिराद्बलवृद्धिर्भविष्यति. ’ ॥४८६॥एवं शप्तः साप रा धो हृततेजा मरुत्सुतःमृदुभावं गतो राम ! स्वबले जातसंशयः. ॥४८७॥ शापान्न तस्मिन्स म ये वेदायं बलमात्मनः वालिसुग्रीवयोर्वैरं यदा राम ! समुत्थितम्. ॥४८८॥गुणाधिः कोऽपि ज नो मारुते रघुराज ! नो असौ व्याकरणादीनि शास्त्राण्यर्कात्समग्रहीत्. ॥४८९॥जगामाद्रेरुद य तो ह्ययमस्तगिरिं तदा सूर्योन्मुखः पृष्ठगामी सादरो रचितांजलिः. ॥४९०॥अस्य वायोस्तनू ज स्य प्रलयांभोनिधेरिव कः स्थास्यत्यंतकस्येव पुरस्ताद्रघुनंदन ! ॥४९१॥राघवैषोऽद्भुत य शाः सुग्रीवप्रमुखा इमेत्वत्कारणात्सुरैः सृष्टास्तारनीलनलांगदाः. ’ ॥४९२॥अगस्त्यात्सानुजो रा मो वानरा राक्षसाश्च तेश्रुत्वेत्थं मारुतेः कर्म विस्मयं परमं गताः. ॥४९३॥ अथोवाच प्रपय म हं राघवं कुंभसंभवः ‘ दृष्टः संभावितश्चासि राम ! गच्छामहे वयम्. ’ ॥४९४॥तच्छ्रुत्वा प्रांजलिः श्री मान् महर्षीन् राघवोऽब्रवीत्, ‘ अद्य मे देवतास्तुष्टाः पितरश्च मुनीश्वराः. ॥४९५॥दर्शनाद्भवतां रा ज्यं धन्यं पूतं कुलं श्रुतम् विज्ञाप्यं मेऽस्ति तत्कार्यं भवद्भिरनुकंपया. ॥४९६॥अहं करिष्यामि म न्यून् प्रभावाद्भवतां सताम् भविष्यथ सदस्या मे ममानुग्रहकांक्षिणः. ’ ॥४९७॥‘ एवमस्त्वि’ति ते ज ग्मर्मुनयोऽनुनयोद्यताःसूर्येंदुवह्निभिस्तुल्यरुचयः शुचयः सदा. ॥४९८॥जनकं प्रभुरा य त्तः पूजयित्वा कृतांजलिः मिथिलां प्रेषयामास दर्शनोत्कां चिरोषितम्. ॥४९९॥जामात् रघुवी रा द्यत्प्राप्तं रत्नादि तत्स्वयम् सीतायै प्रददौ प्राज्यं प्रेम्णा दुहितृवत्सलः. ॥५००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP