उत्तरकांडम् - काव्य १ ते ५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.



प्राप्तराज्यो यदा श्री मान् रामोऽयोध्यापतिस्तदा
आजग्मुर्मुनयः सर्वे प्रेम्णा तं प्रतिनंदितुम्. ॥१॥
विश्वामित्रस्तपो रा शिर्यवक्रीतो‍ऽथ गालवः
अगस्त्योऽत्रिश्च भगवानन्ये च मुनिसत्तमाः. ॥२॥
प्रत्युज्जगाम रा म स्तान् द्वारपालनिवेदितान्
पूजयामास संस्थाप्य स्वासनेषु यथार्हतः. ॥३॥
कुशलं रघुरा ज स्तांस्ततोऽपृच्छत्सुसत्कृतान्
ते तमूचु‘र्महाबाहो ! सर्वत्र कुशलं हि नः. ॥४॥
त्वां तु दिष्ट्या स्वाल य स्थं वीरं कुशलिनं प्रभो !
सानुजं कीर्तिसंपन्नं पश्यामो हतशास्त्रवम्. ॥५॥
दिष्ट्यात्वया हतो रा जन् ! रावणो लोकरावणः
स भारस्ते न सधनुर्विज्येथास्त्वं जगन्नयम्. ॥६॥
लक्ष्मणेन च सं म र्दे शक्रजित्प्रमुखा द्विषः
दिष्ट्या हता महाभाग ! भ्रात्रा त्वद्दितकारिणा. ॥७॥
कुंभकर्णोऽपि च ज गत्कालो दिष्ट्या हतो रणे
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते. ॥८॥
सेंद्रा लोकेश्वरा य स्मान्त्रस्ताः सर्पादिवाखवः
दिष्ट्या दशास्यो निहतो द्वंद्वयुद्धगतस्त्वया. ॥९॥
वधो राक्षसरा ज स्य तव भारो न राघव !
द्वंद्वयुद्धमनुप्रपतः स दिष्ट्या रावणिर्हतः. ॥१०॥
रामास्माकं विस्म य स्तु श्रुत्वा शक्रजितं हतम्
अवध्यं सर्वभूतानां हंतु कोऽपि क्षमो न तम्. ॥११॥
दिष्ट्या त्वं वर्धसे रा कापतिस्वच्छमहायशाः
दत्वाद्य विपुलां राम ! विप्रेभ्योऽभयदक्षिणाम्. ’ ॥१२॥
श्रुत्वा तद्विस्मये म ग्नो रामः प्रांजलिरब्रवीत्,
‘ अतिक्रम्य दशग्रीवं किं प्रशंसथ रावणिम् ? ’ ॥१३॥
अथ कुंभोद्भवः श्री मानुवाच रघुनंदनम्
‘ शृणु राम पुरावृत्तं तस्य सर्वं ब्रवीमि ते. ॥१४॥
प्रजापतिसुतो रा जन् ! पुलस्त्यो भगवान्मुनिः
तृणबिंद्वाश्रमं गत्वा तपस्तेपे महातपाह. ॥१५॥
विघ्नं कुर्वंत्याश्र म स्थे मुनौ तस्मिंस्तु कन्यकाः
गायंत्यो वादयंत्यश्च लासयंत्यो यथासुखम्. ॥१६॥
रुष्टः स मुनिरा ज स्तास्तत्र प्रोवाच कन्यकाः,
‘ या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति. ’ ॥१७॥
ताः कन्याः शापभय तस्तं देशं नोपचक्रमुः
तृणबिंदोस्तु राजर्षेस्तनया न शृणोति तत्. ॥१८॥
साश्रमे वित्तचा रा थ कांचिदभ्यागतां सखीम्
अदृष्ट्वा तं तदापश्यत्तस्य श्रुत्वा श्रुतिध्वनिम्. ॥१९॥
मुनेर्वचनसा म र्थ्यात्सहसा गर्भवत्यभूत्
पित्रा पृष्टाब्रवीद्धेतुं मुनेर्दर्शनमेव सा. ॥२०॥
ध्यानं विवेश रा ज र्षिर्ज्ञात्वा शापं महात्मनः
तस्मै पुलस्त्याय ददौ कन्यां सोऽप्यग्रहीन्मुदा. ॥२१॥
मुनेर्वरात्सा प्र य ताऽसूत विश्रवसं सुतम्
पितेव तपसा युक्तः सोऽभविद्विश्रवा मुनिः. ॥२२॥
तस्मै विश्रवसेऽ ज स्य पौत्रायाद्भुततेजसे
भरद्वाजो ददौ कन्यां तस्या वैश्रवणः सुतः ॥२३॥
तस्मै ब्रह्माथ द य या लोकपालत्वमीप्सितम्
निधीनां रक्षणं चादात् तपसाराधितश्चिरम्, ॥२४॥
पुष्पकं च प्रचा रा य विमानं प्रददौ प्रभुः.
विष्णोर्भीतैः परित्यक्तां राक्षसैस्त्वष्टृनिर्मिताम् ॥२५॥
त्रिकूटस्थां हेम म यीं लंकां तस्मै पिताप्यदात्,
तां विश्वकर्मरचितां सोऽध्यावसदुदारधीः. ’ ॥२६॥
पप्रच्छ घटजं श्री मान् रामो राजीवलोचनः,
‘ ये लंकायां स्थिताः पूर्वं राक्षसाः कथितास्त्वया. ॥२७॥
भगवंस्ते तपो रा शे कस्माज्जाताः कथं स्थितः
अपराधं कमुदृइश्य निहता विष्णुना रणे. ॥२८॥
अगस्त्यः प्राह र म यन्मनो रामस्य सुक्तिभिः,
‘ प्रजापतिरपः सृष्ट्वा तद्रक्षार्र्थं महातपाः. ॥२९॥
व्यसृजद्वारिज ज निः स भूतानि पुरा प्रभुः
‘ अपो रक्षध्व’मित्याह तानि सत्त्वानि भूतकृत्. ॥३०॥
रक्षामेत्यब्जन य न ! प्रोक्तं यैस्ते तु राक्षसाः
यक्षामेति च यैरुक्तं यक्षास्ते नामतोऽभवन्. ॥३१॥
‘ हेतिः प्रहेतिश्च रा जन् मुख्यौ तत्र बभूवतुः
प्रहेतिर्धार्मिको नित्यं तपोवनरतोऽभवत्. ॥३२॥
हेतिस्तु संतान म तिः कालस्य भगिनीं भयाम्
उपयेमे सुतस्तस्यां विद्युत्केशाभिधोऽभवत्. ॥३३॥
विद्युक्तेशोऽपि ते ज स्वी संध्यादुहितरं प्रियाम्
उदावहद्रघूत्तंस ! नाम्ना सालकटंकटाम्. ॥३४॥
गर्भं प्राप्ता सा प्रि य तो भंदरे तं घनस्वनम्
तत्याज घनसंकाशं विद्युक्तेशरतार्थिनी. ॥३५॥
तस्मिन् काले गिरि ज रा सहारुह्य वृषं शिवः
गच्छन्मारुतमार्गेण शुश्राव रुदितं शिशोः. ॥३६॥
तत्र प्रसादं प्रि य या प्रेरितः शंकरोऽकरोत्
सद्योऽमरत्वं तारुण्यं पुरमाकाशगं ददौ. ॥३७॥
स सुकेशो यातु रा जः प्रख्यातोऽभूद्रघूत्तम !
गंधर्वो ग्रामणीस्तस्मै ददौ देववतीं सुताम्. ॥३८॥
स पुत्रांस्त्रीन्प्रति म ना जनयामास राघव !
माल्यवंतं सुमालिं च मालिं च बलिनां वरम्. ॥३९॥
तपस्तुष्टो ददौ श्री मान् वरांस्तेभ्यः सुदुर्लभान्
अजेयाः शत्रुहंतारो जातास्ते चिरजीविनः. ॥४०॥
देवा दैत्याश्च तै रा सन् पीडिता वरनिर्भयैः
विश्वकर्मकृता लंका प्राप्ता शक्रपुरीसमा. ॥४१॥
गंधर्वी नर्मदा म त्वा युक्तं कन्यात्रयं स्वयम्
अलंकृत्य ददौ तेभ्यो नक्षत्रे भगदैवते. ॥४२॥
सुंदरी यातुरा ज स्य भार्या माल्यवतोऽभवत्
तत्सुता वज्रमुष्टिश्च विरूपाक्षश्च दुर्मुखः ॥४३॥
सुप्तघ्नश्च तथा य ज्ञकोपो मत्तश्च राक्षसः
उन्मत्तनामा, कन्या च सुंदरयामनलाभिधा. ॥४४॥
भार्या सुमालिनो रा म ! नाम्ना केतुमती प्रिया
प्रहस्तोऽकंपनश्चैव विकटः कालिकामुखः. ॥४५॥
धूम्राक्षश्च तथा म र्त्यशत्रू दंडसुपार्श्वकौ
संह्रादिः प्रघसश्चैव भासकर्णश्च तत्सुताः. ॥४६॥
कन्या च रक्षोरा ज स्य राका पुष्पोत्कटाभिधा
कैकस्यथ चतुर्थी सा नाम्ना कुंभीनसी प्रभो ! ॥४७॥
मालेस्तु वसुदा य स्यामनलानिलनामकौ
हरः संपातिरित्येते बिभीषणहिते रताः. ॥४८॥
अथ तैर्बहुधाऽ ज स्य वरदानेन पीडीताः
त्रिदशाः शरणं जग्मुर्भगवंतं महेश्वरम्. ॥४९॥
तानुवाच त्रिन य नो, ‘ ममावध्या हि तेऽसुराः
गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः. ’ ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP