उत्तरकांडम् - काव्य १५१ ते २००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


स गत्वा राजरा ज स्य समीपं तमथाब्रवीत्,
‘ प्रेषितोऽहं तव भ्रात्रा दशग्रीवेण सुव्रत ! ॥१५१॥
भ्राता ब्रवीति ते य त्स तत्त्वं मम मुखाच्छृणु,
सुमालिप्रमुखैर्लंका भुक्तपूर्वा निशाचरैः. ॥१५२॥
लंका तदेषा र ज नीचराणां साधु दीयताम्,
तमाह धनदः, ‘ पित्रादत्ता शून्या निशाचरैः ॥१५३॥
निवेशिता मया य त्नाद्दानमानादिभिर्गुणैः
गच्छ ब्रूहि दशग्रीवं प्रहस्त ! त्वं वचो मम. ॥१५४॥
लंकापुरी तथा रा ज्यं यच्च द्रव्यमुपार्जितम्
तवाप्येतन्महाबाहो ! भुंक्ष्वेदं त्वमकंटकम्. ॥१५५॥
अविभक्तं वसु म म राज्यं चेदं त्वया सह. ’
एवमुक्त्वा धनाध्यक्षो जगाम पितुरंतिकम्. ॥१५६॥
अभिवाद्य गुरुं श्री दः प्राह भ्रातुर्यदीप्सितम्.
स प्रांजलिं सुतं प्राह, ‘ शृणु पुत्र ! वचो मम. ॥१५७॥
लंकापुरापहा रा र्थमुक्तवान्मम संनिधौ
मया निर्भर्त्सितश्चासौ बहुशो न शमं गतः. ॥१५८॥
वरप्रदानसं म त्तो मान्यामान्यं न वेत्ति सः
क्रूरात्मा मम शापाच्च दारुणां प्रकृतिं गतः. ॥१५९॥
कैलासं राजरा ज ! त्वं गच्छ तात ! सहानुगः
निवेशय पुरं तत्र निवासार्थं सुखी भव. ’ ॥१६०॥
पित्रैवमुक्तः सु य शाः कैलासं गिरिशालयम्
सदारपुत्रसचिवः सधनः सानुगो गतः. ॥१६१॥
प्रहस्तोऽथ मुदा रा त्रिंचराधीशं दशाननम्
प्राह, लंकापुरी शून्या त्यक्त्वैनां धनदो गतः. ’ ॥१६२॥
दशाननः प्राप्त म हः सानुजः सबलस्तदा
विवेश स सुहृत्त्यक्त्वा शंकां लंकां महामहाः. ॥१६३॥
तत्राभिषिक्तः स्वं ज नैरवसद्दशकंधरः.
अलकायां च कैलासे रचितायां धनेश्वरः. ॥१६४॥
विद्युज्जिह्वाभिधा य स्वां स्वसारं दानवाय सः
ददौ शूर्पणखां प्रीत्या कालकेयाय राक्षसः. ॥१६५॥
मंदोदरीं मय ज निं वृतवान् दशकंधरः
मायाविदुंदुभ्यनुजां हेमाकुक्षिसमुद्भवाम्. ॥१६६॥
वैरोचनस्य प्र य तां दौहित्रीं समकल्पयत्
वज्रज्वालाभिधां भार्यां कुंभकर्णस्य रावणः. ॥१६७॥
गंधर्वाणां तथा रा ज्ञः शैलूषस्य महात्मनः
सरमां नाम धर्मज्ञा भार्यां लेभे बिभीषणः. ॥१६८॥
मंदोदरीयशोऽ म त्रं द्यौः पाथोदमिवातुलम्
पुत्रं महेंद्रजेतारं मेघनादमजीजनत्. ॥१६९॥
जातमात्रेण हि श्री मंस्तेन राघवसूनुना
रुदता सुमहान्मुक्तो नादो घनरवोपमः. ॥१७०॥
स मत्तो रक्षसां रा जा जगत्पीडामथाकरोत्
तच्छ्रुत्वा धनदो दूतं प्रेषयामास कोविदम्. ॥१७१॥
तत्संदेशं स सु म तिः कथयामास तद्धितम्
‘ मैवं कुरु जगत्पीडां धर्म एव स्थितिर्हिता. ॥१७२॥
निराकृतोऽस्मग्र ज स्ते बहुशो रक्षसाधिप !
सापराधोऽपि बालो हि रक्षितव्यः स्वबांधवैः. ॥१७३॥
कैलासे वसतो य न्मे वृत्तं शृणु दशानन !
तत्र देवो मया दृष्ट उमया सहितः प्रभुः. ॥१७४॥
सव्यं चक्षुर्मया रा जन् ! दैवाद्देव्यां निपातितम्
का न्वेषेत्येव सहजं न खल्वन्येन हेतुना. ॥१७५॥
जगद्धात्र्यास्तु सु म हत्तेजो निरुपमं हि तत्
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम्. ॥१७६॥
भगवत्यास्तु ते ज स्तद्द्रष्टुं चक्षुर्न मे क्षमम्
रेणुध्वस्तमिव ज्योतिः पिंगलत्वमुपागतम्. ॥१७७॥
ततो गतोऽहं नि य तस्तटं तस्य गिरेः परम्
तूष्णीं वर्षशतान्यष्टौ सुव्रतं समधारयम्. ॥१७८॥
समाप्ते नियमेऽ ज न्मा तत्र देवो महेश्वरः
ततः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः, ॥१७९॥
‘ प्रीतोऽस्मि जनिता य त्त्वत्तपसानेन सु व्रत !  
मया चैतद्व्रतं चीर्णं त्वया चापि मदुत्थितम्. ॥१८०॥
व्रतादस्माद्दुष्क रा त्त्वं सखा भव ममानघ !
पिंगलत्वमवाप्तं यच्चक्षुर्देव्या निरीक्षणात्. ॥१८१॥
एकपिंगेति ना म त्वं प्राप्य ख्यातो भविष्यसि ’
एवं प्राप्तप्रसादेन लब्ध्वानुज्ञां च शंकरात् ॥१८२॥
आगतेन मया श्री मन् ! श्रुतस्ते पापनिश्चयः
तदधर्मान्निवर्तस्व मृत्युदात्कुलदूषणात्. ॥१८३॥
वशे स्थाप्य मनो रा जन् ! पुण्यां कीर्तिमुपार्जय,
चिंत्यते हि वधोपायः सर्षिसंघैः सुरैस्तव. ’ ॥१८४॥
एवमुक्तः क्रूर म तिः कोपसंरक्तलोचनः
हस्तान् दंतांश्च संपिष्य दशास्यो वाक्यमब्रवीत्. ॥१८५॥
‘ ज्ञातं वचस्ते सु ज ड ! ब्रूहि मा पुनरीदृशम्
नैव त्वमसि नैवासौ भ्राता येनासि चोदितः. ॥१८६॥
रुद्रसख्यं श्राव य ते मूढो ब्रूते न मे हितम्
नैवैतत्क्षमणीयं मे यदेतद्भाषितं त्वया. ॥१८७॥
न हंतव्यो राज रा जो ज्येष्ठो भ्रातेति मर्षितम्
त्रीन् लोकानपि जेश्यामि तस्यैकस्य कृतेऽचिरात्. ॥१८८॥
तेन सार्द्धं तान्य म स्य क्षयं नेष्यामि लोकपान्
इत्युक्त्वाऽत्तुं ददौ हत्वा दूतमाज्ञां स रक्षसाम्. ॥१८९॥
भंक्त्वाज्ञां राजरा ज स्य वरसंपन्मदोद्धतः
सेना आज्ञापयामास रक्षसां कामरूपिणाम्. ॥१९०॥
ततः कृतस्त्वस्त्य य नो रथमारुह्य रावणः
त्रैलोक्यविजयाकांक्षी ययौ यत्र धनेश्वरः. ॥१९१॥
बलेन यक्षान ज यन्माणिभद्रमुखान् रणे
जहार पुष्पकं जित्वा माययास्त्रैश्च सोग्रजम्. ॥१९२॥
वार्यमाणो मया, ‘ यत्त्वं नावगच्छसि दुर्मते !
पश्चादस्य फलं प्राप्य तप्स्यसे निरयं गतः. ’ ॥१८३॥
इति शप्त्वा राज रा जो युद्धं तेन सहाकरोत्
पपात मूर्च्छितो नीतः स यक्षैर्नंदनं वनम्. ॥१९४॥
आरुह्य पुष्पक म थ प्रहृष्टः स दशाननः
जितं त्रिभुवनं मेने गर्वोत्स्रेकात्सुदुर्मतिः. ॥१९५॥
ततः शरवणे श्री मत्पुष्पकं ब्रह्मनिर्मितम्
दिव्यं निरुद्धसंचारमभवत्सहसाद्भुतम्. ॥१९६॥
‘ कुतो नु स्तंभितं रा जव्योमयान’मिति स्वकैः
मीमांसमाने सचिवैः सह तस्मिन् दशानने ॥१९७॥
नंदीश्वरोऽमित म हा आजगाम त्रिशूलभृत्
उवाच स तमुत्सिक्तं राक्षसेंद्रमशंकितः. ॥१९८॥
‘ निवर्तस्वाशु र ज नीचर ! क्रीडति शंकरः
प्रभुणा सर्वभूतानामगम्योऽयं कृतो गिरिः. ’ ॥१९९॥
तच्छ्रुत्वा रक्तन य नः पुष्पकादवरुह्य सः
‘ कोऽयं शंकर ’ इत्युक्त्वा तं दृष्ट्वा वानराननम्. ॥२००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP