उत्तरकांडम् - काव्य १००१ ते १०२७
उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.
लोको यथा मम म हान् युक्तो ब्रह्मगुणैः सदा
ब्रह्मलोकसमीपस्थः क्रममुक्तिप्रदः कृतः. ॥१००१॥
लोकः संतानकः श्री मान्ययैषामद्य कल्पितः ’
इत्युवाच स्वयं ब्रह्मा भगवान्भूतभावनः. ॥१००२॥
ततः पतिर्वान रा णां सुग्रीवो हृष्टमानसः
निमज्य सारवे तीर्थे विवेश रविमंडलम्. ॥१००३॥
गोप्रताराव्हये म ग्नास्तीर्थे परमपावने
ऋक्षाश्च कपयः प्रापुः सुरान् येभ्यस्तदुद्भवः. ॥१००४॥
पौरा जानपदा ज ग्मुः स्वजनैः सह सारवम
स्वर्गस्थाः शुश्रुवुस्तेषां चकिताः सहसा रवम्. ॥१००५॥
स्थावरा जंगमा य ज्ञैर्महद्भिर्दुर्लभं पदम्
गोप्रतारे कृतस्नानाः प्रपौर्भासुरविग्रहाः. ॥१००६॥
सुतीर्थे प्राणिवा रा स्ते प्रहृष्टाः कृतमज्जनाः
दिव्यदेहाः प्रसादेन प्रभोः सर्वेऽपि सज्जनाः. ॥१००७॥
अमर्त्यत्वं गता म र्त्या दिव्यालंकारवाससः
विमानानि समारूढाः सर्वे भास्वरमूर्तयः. ॥१००८॥
गोप्रतारे तदा ज न्मी सर्वस्त्यक्तकलेवरः
दिव्यरूपोऽभवच्छ्वापि बिडालो ग्रामसूकरः. ॥१००९॥
सरयूपुण्यतो य स्य महिमा परमाद्भुतः
ये तत्र त्यक्तदेहास्ते लोकं संतानकं गताः. ॥१०१०॥
संतानकं मुदा ज ग्मुरृक्षवानरराक्षसाः
अनुग्रहाद्भगवतो रामस्याद्भुतकर्मणः. ॥१०११॥
गंधर्वैः सह गा य द्भिः पुण्यं निजयशोद्भुतम्
शृण्वन्त्संतांनकं निन्ये विमानैस्तान् दयार्णवः. ॥१०१२॥
तत्र सर्वानुदा रा णां नाथः श्रीविष्णुरीश्वरः
स्थापयामास तान्प्रेम्णा पितापुत्रानिवौरसान्. ॥१०१३॥
ततः स्वयं स्वधा म स्वैः सर्वैर्ब्रह्मादिभिः सह
ययौ भक्तमयूराणां मेघो रामः सतां गतिः. ॥१०१४॥
श्रीमद्रामायणं श्री मान्वाल्मीकिर्मुनिपुंगवः
महाकाव्यं चकारेत्थं भव्यमादिमहाकविः. ॥१०१५॥
गीतं रामकुमा रा भ्यां श्रुतं सर्वैर्महर्षिभिः
ब्रह्मणा सत्यलोके च कैलासगेऽपि शंभुना. ॥१०१६॥
अश्वमेधे महा म न्यौ सह सर्वैर्मुनीश्वरैः
सचिवैर्भ्रातृभिः सार्ध रामेणापि श्रुतं स्वयम्. ॥१०१७॥
हितेच्छुभिः समा ज प्यं श्राव्यं दुःस्वप्रनाशनम्
पापतापप्रशमनं मनोरथकरं परम्. ॥१०१८॥
वेदैः सममिदं य ज्ञदानतीर्थफलप्रदम्
सर्वपापैः प्रमुच्येत पादमप्यस्य यः पठेत्. ॥१०१९॥
पापान्यपि दिवा रा त्रौ यः कुर्यान्मानवः सदा
पठत्येकमपि श्लोकं पापात्स परिमुच्यते. ॥१०२०॥
न केवलमिदं मह्यां पाताले त्रिदिवेऽपि च
नित्यं शृण्वंति संहृष्टाः काव्यं रामायणं परम्. ॥१०२१॥
श्रीमद्रामायणेऽ ज स्रं प्रेमात्यंतं हनूमतः
नारदस्य तु सर्वस्वमेतद्वाल्मीकिसद्गुरोः. ॥१०२२॥
गंधर्वैर्गीयते य त्रात्सिद्धैश्च परमर्षिभिः
सर्वैर्मुमुक्षुभिर्मुकैः सेव्यते सुमनोहरम्. ॥१०२३॥
रामायणं यशोऽ ज स्रं श्रीमच्छ्रीनायकाननम्
का न नंदत एतेन सभैतत्स्वर्द्रुकाननम् ॥१०२४॥
प्रेम रामायणे य स्य प्रसन्नास्तस्य देवताः
या आपदः प्रपश्यंति स्वबलं भ्रश्यदेव ताः. ॥१०२५॥
वाल्मीकिं तपसां रा शिमनुमान्य महाकविम्
तद्गुरुं नारदं व्यासं शुकमन्यान्कवीन्मुनीन् ॥१२॥
‘ मंत्ररामायणं म ह्यं श्रीमद्रामायणात्स्वयम्
दत्तमुद्धृत्य बालाय श्रीरामेण दयालुना. ॥१३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP