उत्तरकांडम् - काव्य २०१ ते २५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


अवज्ञाय समा रा ध्यं द्वितीयमिव शंकरम्
श्रीमदांधो जहासोच्चैर्नंदीश्वरमसत्तमः. ॥२०१॥
नंदी तमाह सा म र्षो, ‘ यस्मान्मां कपिरूपिणम्
अवज्ञाय प्रहासं त्वं कृतवान् बलदर्पितः. ॥२०२॥
तस्मान्मद्रूपते ज स्का मनःसंपातरंहसः
उत्पत्स्यंति वधार्थं हि कुलस्य तव वानराः. ’ ॥२०३॥
एवं शप्ते तत्क्ष य स्य निश्चयोत्थप्रहर्षतः
देवदुंदुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता. ॥२०४॥
अचिंतयित्वा स ज गत्पतिप्रतिनिधेर्वचः
पर्वतं तं समासाद्य वाक्यमाह दशाननः. ॥२०५॥
‘ क्रीडा ते गोपते ! य त्र पुष्पकस्य गतिस्त्वया
यतश्छिन्ना तं तवेमं समुन्मूलं करोम्यगम्. ॥२०६॥
केनौजसात्र मा रा रिर्नित्यं क्रीडति राजवत्
विज्ञातव्यं न जानीते भयस्थानमुपस्थितम्. ’ ॥२०७॥
एवमुक्त्वा स सा म र्थ्याद्विक्षिप्याधो गिरेर्भुजान्
तोलयामास तं शीघ्रं, स शैलः समकंपत. ॥२०८॥
गिरेश्चालनतः श्री मत्युमा सा भगवत्यपि
चचालालिंगितवती मानिन्यपि महेश्वरम्. ॥२०९॥
ततो राम ! पुरा रा तिर्देवानां प्रभवो हरः
पादांगुष्ठेन तं शैलं पीडयामास लीलया. ॥२१०॥
पीडितास्तद्भुजा म ध्ये मूलं राम ! महागिरेः
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः. ॥२११॥
तेनातिरोषाद्भु ज गप्रभबाह्वतिपीडनात्
मुक्तो विरावः सहसा त्रैलोक्यं येन कंपितम्. ॥२१२॥
‘ महादेवं तोष य स्व नीलकंठमुमापतिम्
तमृते शरणं नान्यं पश्यामोऽत्र दशानन ! ’ ॥२१३॥
इत्युक्तो रक्षसां रा जा सचिवैः स तथाकरोत्,
संवत्सरसहस्रं तु रुदतो रक्षसो गतम्. ॥२१४॥
ततः प्रणम्य स म नः स्थिरीकृत्य महेश्वरम्
तुष्टाव सामभिः स्तोत्रैर्विविधैः करुणार्णवम्.॥२१५॥
ततः प्रीतः प्राह ज गत्पतिर्मुक्त्वा भुजान्नतम्,
‘ शैलाक्रांतेन यो मुक्तस्वयारावः सुदारुणः. ॥२१६॥
भीतं च शब्दितं य स्माद्तल्लोकत्रयं भृशम्
तस्मात्त्वं रावणो नाम्ना ख्यातो राजन् ! भविष्यसि. ॥२१७॥
अनुज्ञातोऽद्य व्र ज त्वमि’त्युक्तो रावणोऽब्रवीत्,
‘ यदि देव ! प्रसन्नोऽसि वरं मे देहि याचतः. ॥२१८॥
अवध्यत्वं मया य त्रात्प्राप्तं देव ! चतुर्मुखात्
निर्विघ्नमायुषः शेषं शस्त्रं च त्वं प्रयच्छ मे. ’ ॥२१९॥
एवमुक्तः स्मरा रा तिश्चंद्रहासमसिं वरम्
शापाद्यनाश्यं च ददावायुषः शेषमीश्वरः. ॥२२०॥
आज्ञामवाप्य न म नंस कृत्वारुह्य पुष्पकम्
ततो महीतलं राम ! पर्यक्रामत रावणः. ॥२२१॥
क्षत्रियान् बलिनः श्री मान् बाधमानश्चरन् भुवि
कन्यामपश्यद्धिमवद्वनेऽजिनजटाधराम्. ॥२२२॥
तामपृच्छत्स स्म रा र्तः ‘ का त्वं कस्ये’ति सा सती
विधिना तस्य चातिथ्यं कृत्वोवाच तपस्विनी. ॥२२३॥
‘ कुशध्वजो नाम म म ब्रह्मर्षिरमितप्रभः
बृहस्पतिसुतस्तातो बुद्ध्या यो गुरुणा समः. ॥२२४॥
तस्याहं कुर्वतोऽ ज स्रं वेदाभ्यासं महात्मनः
संभूता वाड्मयी कन्या नाम्ना वेदवती स्मृता. ॥२२५॥
सुरादिभिः कृतो य त्रो मदर्थं राक्षसेश्वर !
विष्णुरेवात्यभिप्रेतो जामाता मत्पितुः प्रभुः. ॥२२६॥
दैत्येन शंभुना रा त्रौ सुप्तस्तातो हतस्ततः
तनुं तस्य परिष्वज्य प्रविष्टाग्निं प्रसूर्मम. ॥२२७॥
पितुर्मनोरथ म हं स्त्यं कर्तुं निरंतरम्
तमेव जगतां नाथं हृदयेन समुद्वहे. ॥२२८॥
कर्तुं स्वं सफलं ज न्म चरामि विपुलं तपः
कथितं वृत्तमेतन्मे गच्छ पौलस्त्यनंदन ! ’ ॥२२९॥
श्रुत्वाब्रवीत्स भू य स्तां, ‘ यौवनं तेऽतिवर्तते,
त्रैलोक्यसुंदरि ! त्वं मे भव भार्या शुचिस्मिते ! ॥२३०॥
कष्टैरलं, न वि ज ने वने वस्तुं त्वमर्हसि
वीर्येण तपसा भोगैर्न स विष्णुर्मया समः. ’ ॥२३१॥
प्रोवाच तं सा प्र य ता, ‘ मां मैवं जगदीश्वरम्
त्वदृते राक्षसेंद्रान्यः कोऽवमन्येत बुद्धिमान् ? ॥२३२॥
एवमुक्ते त या रा जन् ! कन्यां तां मूर्धजेषु सः
बलाज्जग्राह कामांध, सा चुकोप तपस्विनी. ॥२३३॥
केशान् परात्तान्स म लान् कन्या वेदवती तदा
कराग्रेणाच्छिनत्खड्गभावं नीतेन तेजसा. ॥२३४॥
मर्तुं कृतत्वरा श्री मन्नुवाच तमघाचलम्
‘ धर्षितायास्त्वयानार्य ! न मे जीवनमिष्यते. ॥२३५॥
वधार्थं ते पुना रा त्रिंचरोत्पत्स्ये तपोऽस्ति चेत्
प्रख्यातायोनिजा साध्वी भवेयं धर्मिणः सुता. ’ ॥२३६॥
इत्युक्त्वा सा तप्त म नाः प्रविष्टा जातवेदसम्
सैषा श्रीर्जानकी भार्या तव त्वं विष्णुरव्ययः. ॥२३७॥
प्रायादुशीरबी ज स्थं मरुत्तं रावणस्ततः
भयन्महेंद्रः संवृत्तो मयूरस्तस्य रक्षसः. ॥२३८॥
वायसोऽभूत्तत्र य मः कृकलासो धनेश्वरः
संवृत्तो वरुणो हंसस्तिर्यग्योनिं गताः सुराः. ॥२३९॥
तमासाद्य महा रा जं मरुत्तं राक्षसाधिपः
प्राह, ‘ युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद. ’ ॥२४०॥
स द्विषन्नीरद म रुन्मरुत्तःप्राह, ‘ को भवान् ? ’
अवहासं ततो मुक्त्वा रक्षसां पतिरब्रवीत्. ॥२४१॥
‘ अविस्मयेन रा ज न्य ! भृशं प्रीतोऽस्म्यहं तव
धनदस्यानुजं यो मां नावगच्छसि रावणम्. ॥२४२॥
लाके कोन्योस्त्यहो य स्तं मां न जानाति विश्रुतम्
भ्रातरं येन निर्जित्य विमानमिदमाहृतम्. ॥२४३॥
तं दशास्यं मनु ज राट्‍ स मरुत्तस्तदाब्रवीत्,
‘ धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः. ॥२४४॥
श्लाघ्यो जगत्सु सु य शास्त्वादृशोऽन्यो न विद्यते,
कं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान् वरम्. ॥२४५॥
श्रुतपूर्वं न मे राजन् ! यादृशं भाषसे स्वयम्
तिष्ठेदानीं न मे जीवन् प्रतियास्यसि दुर्मते ! ॥२४६॥
प्रेषयामि त्वां य म स्य क्षयं तीक्ष्णैः शरैरहम्
इत्युक्त्वेषुधनुष्पाणिः संगराय स निर्ययौ. ॥२४७॥
बृहस्पत्यनुजः श्री मान्त्संवर्तो दीक्षितं नृपम्
वारयामास सत्रस्थं, स निर्वृत्तो गुरोर्गिरा. ॥२४८॥
तं मत्वा निर्जितं रा जन् ! राक्षसः शुकनामकः
‘ रावणो जयती ’ त्युच्चैर्घोषयामास हर्षितः. ॥२४९॥
भक्षयित्वा तत्र म त्तो यज्ञवाटस्थितानृषीन्
गतो दशाननो‍न्यत्र नृपानन्यान् जयन् भुवि. ॥२५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP