संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| मंत्ररामायणम्|उत्तरकांडम्| काव्य ७०१ ते ७५० उत्तरकांडम् काव्य १ ते ५० काव्य ५१ ते १०० काव्य १०१ ते १५० काव्य १५१ ते २०० काव्य २०१ ते २५० काव्य २५१ ते ३०० काव्य ३०१ ते ३५० काव्य ३५१ ते ४०० काव्य ४०१ ते ४५० काव्य ४५१ ते ५०० काव्य ५०१ ते ५५० काव्य ५५१ ते ६०० काव्य ६०१ ते ६५० काव्य ६५१ ते ७०० काव्य ७०१ ते ७५० काव्य ७५१ ते ८०० काव्य ८०१ ते ८५० काव्य ८५१ ते ९०० काव्य ९०१ ते ९५० काव्य ९५१ ते १००० काव्य १००१ ते १०२७ मंत्रगणना उत्तरकांडम् - काव्य ७०१ ते ७५० उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे. Tags : mayurramramayanमयूररामरामायणसंस्कृत काव्य ७०१ ते ७५० Translation - भाषांतर वसिष्ठं तपसां राशिं वामदेवं च नारदम् मार्कंडेयं मुनीनन्यान्प्रांजलिः प्राह राघवः. ॥७०१॥ ‘ वृद्धो मृतात्मजो म ग्नः शोके जानपदो द्विजः रुद्ध्वा द्वारं स्थितः कार्यं भगवंतो मयाद्य किम् ? ॥७०२॥तच्छ्रुत्वा नारदः श्री मानुवाच, ‘ रघुनंदन ! मन्ये तप्यति शूद्रोऽद्य तेन वालवधो ह्ययम्. ॥७०३॥ तस्मात्स्वदेशं त्वं रा जन् ! मृगयाघं निवारय भविष्यत्येव धर्मेण विप्रबालस्य जीवनम्. ’ ॥७०४॥नारदस्यामृत म यं श्रुत्वा वाक्यं रघुत्तमःप्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्. ॥७०५॥गच्छाभ्यर्णं त्वं द्वि ज स्य समाश्वासय सौम्य ! तम् बालस्य च शरीरं ततैलद्रोण्यां निधापय. ’ ॥७०६॥एवं संदिश्य तं य त्तमाज्ञासंपादनेऽनुजम्मनसा पुष्पकं दध्यावागच्छेति महायशाः. ॥७०७॥तद्विज्ञायेंगितं रा ज्ञः पुष्पको हेमभूषितः आजगाम मुहूर्तेन समीपं सेवनादृतः. ॥७०८॥सोऽब्रवीत्, ‘ प्रणतो म ह्या नाथा‘यमहमाज्ञया वश्यस्तव महाबाहो ! किंकरः समुपस्थितः. ’ ॥७०९॥नत्वा महर्षीन् रा जा र्षिर्विमानमाधिरुह्य सः प्रतीचीमुत्तरां पूर्वां विचिन्वन् दक्षिणां ययौ. ॥७१०॥ शैवलस्य सरो य त्रादपश्यत्पार्श्व उत्तरे विंध्यस्य दक्षिणे भागे स्वादर्शतलनिर्मलम्. ॥७११॥तत्र कैअसल्यात्म ज निस्तप्यंतं सुमहत्तपः ददर्श तापसं वृक्षे लंबमानमधोमुखम्. ॥७१२॥तमाह, ‘ कृशका य स्त्वं धन्यस्तापस ! सुव्रत ! कोऽसि जात्या कस्तपोऽर्थो ब्रूह्येतत्सत्यवाग्भव. ’ ॥७१३॥अब्रवीत्सोऽवाक्शिरा स्तं रामं सत्यपराक्रमम्,‘ शूद्रः शंबूकनामाहं स्वर्गार्थं देव ! मे तपः. ’ ॥७१४॥तच्छ्रुत्वैवासिम म लं कोशान्निष्कृष्य दारुणम् लंबमानस्य शूद्रस्य शिरश्चिच्छेद राघवः. ॥७१५॥सेंद्रा देवास्तदा श्री शं शशंसुः साधु साध्विति पुष्पवृष्टिमुचः प्रोचु‘र्वरं वरय राघव ! ’ ॥७१६॥प्रोवाच प्रांजली रा जा, ‘ द्विजपुत्रः स जीवतु ’त ऊचुः, ‘ पतिते शूद्रे द्विजपुत्रः स उत्थितः. ॥७१७॥अगस्त्यं प्रति या म त्वं द्रष्टुमागच्छ तं मुनिम् तस्य दीक्षा समाप्ताद्य वर्षं हि द्वादशं गतम्. ॥७१८॥सदा स्थितोऽभूत्स ज ले द्रष्टव्यः सुमहातपाः. ’ इत्युक्त्वा ते सुरा जग्मुर्द्रष्टुं रामोऽपि कुंभजम्. ॥७१९॥दृष्ट्वा सुरास्तं प्र य युः स्वर्गं रामस्ततो गतः.तं संपूज्य मुनिः प्रीत्या प्रशशंसासकृत्प्रभुम्. ॥७२०॥‘ राम ! त्वमसि ना रा णामयनं धर्मपालकः त्वया धर्मेण विप्रस्य जीवनं प्रापितः सुतः. ॥७२१॥उषित्वा रजनी म त्र श्वः पुरीं गंतुमर्हसि इदं गृहाण वलयं निर्मितं विश्वकर्मणा. ॥७२२॥तद्गृहीत्वा कुंभ ज स्य प्रियकृद्रघुनंदनः पप्रच्छ, ‘ भवता प्राप्तं कुतो वा केन वाहृतम्. ’ ॥७२३॥सोऽब्रवीदद्भुत य शाः ‘ शतय्तोजनविस्तृते वनेऽपश्यं सरो राम ! प्रसन्नं योजनायतम्. ॥७२४॥रम्यं शवं च रा ज न् ! मे दृष्ट्वाभूद्विस्मयो महान् अथापश्यं व्योमयानं स्वर्गिणं तत्र भास्वरम्. ॥७२५॥तं शवं पद्मन य नो भक्षयामास सोऽखिलम् तमपृच्छमहं कस्त्वं देवसंकाश ईदृशः. ॥७२६॥यथा नाथो निर्ज रा णां गंधर्वाप्सरसां मतः आहारो गर्हितोऽतीव किमर्थं वक्तुमर्हसि. ’ ॥७२७॥स प्रांजलिः प्राह ‘ म म ब्रह्मन् ! वृत्तमिदं शृणु वैदर्भः श्वेतनामाहं सुदेवो मत्पिता मुने ! ॥७२८॥आश्रमोऽयं मम श्री मन्नत्र तप्तं मया तपः त्रीणि वर्षसहस्राणि ब्रह्मलोकमहं गतः. ॥७२९॥क्षुत्तृट् च सत्तपो रा शे ! पीडयामास तत्र माम्सत्यलोके महापुण्ये क्षुप्तिपासाविवर्जिते. ॥७३०॥ब्रह्माणमवदं म र्त्यमिव मां भगवन् ! कुतः क्षुत्तृट् च बाधतेऽत्रापि देवभूतं तपोबलात्. ॥७३१॥ब्रूह्येतद्दययाऽ ज त्वं पाकोऽयं कस्य कर्मणः आहारः कश्च मेऽत्यंतं क्षुधितस्य जगत्पते ! ’ ॥७३२॥ब्रह्माह मां ‘ भक्ष य त्वं श्वेत् ! स्वक्रव्यमन्वहम्देहमेव निजं पुष्टं, न दत्तं किमपि त्वया. ॥७३३॥देहस्तेऽभ्यवहा रा र्थं भविष्यति पुनःपुनः गर्हितात्कर्मणोऽस्मात्त्वामगस्त्यो मोचयिष्यते. ॥७३४॥अगस्त्यं त्वामहं म न्ये नान्यस्यात्र गतिर्मुने ! इदं गृहाणाभरणं प्रसादं कर्तुमर्हसि. ॥७३५॥इदं तावन्मुनेऽ ज स्त्रं सुवर्णं धनमंबरम्भक्ष्यं भोज्यं च ब्रह्मर्षे ! ददात्याभरणानि च. ॥७३६॥गृहीत्वैतत्तार य मामिति श्रुत्वैव तद्गिरम् मया गृहीतं वलयं मुक्तः कृच्छ्रात्स तत्क्षणात्. ॥७३७॥शक्रतुल्येन रा ज न् ! दिव्यमाभरणं स्वयम् अस्मिन्निमित्ते श्वेतेन दत्तमद्भुतदर्शनम्. ॥७३८॥श्रुत्वा विचित्रं भू य स्तं मुनिं पप्रच्छ राघवः यत्प्रविष्टो वनं श्वेतः कथं तदमृगद्विजम्. ॥७३९॥मुनिराह पुरा रा जा दंड इक्ष्वाकुनंदनः ददर्श शुक्रस्य सुतां रूपेणाप्रतिमां भुवि. ॥७४०॥धर्षयामास तां म त्तो विरजां गुरुनंदिनीम् कृत्वैतद्दारुणं कर्म मधुमंतं पुरं गतः. ॥७४१॥ तच्छ्रुत्वा भार्गवः श्री मान् विरजायाः प्रधर्षणम्क्रुद्धः शशाप तं चंडं नविजितेंद्रियम्. ॥७४२॥पांसुवर्षं सप्त रा त्राच्छक्रात्प्रादुर्भविष्यति विंध्यशैवलमध्यस्थविषयस्य विनाशनम्. ॥७४३॥वधं प्राप्स्यत्यसौ म त्तः सपुत्रबलवाहनः शपं श्रुत्वाश्रमं त्यक्त्वा विषयांते गतो जनः. ॥७४४॥त्यक्त्वाश्रमं मुनि ज ने गतेऽथ विरजां कविः अब्रवी‘दाश्रमेऽत्रैव वस त्वं सुसमाहिता. ॥७४५॥त्वत्समीपे निर्भ य ता प्राणिनां वसतां सदा. ’ इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत्. ॥७४६॥दंडस्य विषयो रा ज्ञो दुर्मतेस्तस्य राघव ! सप्ताहाद्भस्मसाद्भूतो यथोक्तं ब्रह्मवादिना. ॥७४७॥देशो भार्गवसा म र्थ्यादभवन्निर्मृगद्विजः ततःप्रभृति काकुत्स्थ ! दंडकारण्यमुच्यते. ॥७४८॥तपस्विवासाच्च ज नस्थानं नाम्नाभवत्प्रभो ! एवं श्रुत्वा मुनिं नत्वा श्रीरामः स्वपुरं ययौ. ॥७४९॥ विमानं पुष्पकं य क्षभर्तुरंतिकमेव सः पुनः संप्रेषयामास संपूज्य रघुवल्लभः. ॥७५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP