संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः ७ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः ७ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः ७ Translation - भाषांतर यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।संबन्धिनाम् अतो भेद उपमेये न गम्यते ॥६०१॥तस्मात् सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये ।उपमेयगतो भेद उपमानेषु दृश्यते ॥६०२॥उपमानं समस्तानाम् अभिन्नम् श्रूयते क्व चित् ।भिन्नानाम् उपमेयनाम् एकैकम् वोपमीयते ॥६०३॥यथा गरुड इत्य् एतद् व्यूहापेक्षं प्रयुज्यते ।एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥६०४॥एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।काश्यपस्येति तेनायं प्रत्येकम् अवतिष्ठते ॥६०५॥मेघाः शैल इवेत्य् उक्ते समस्तानां प्रतीयते ।सादृश्यम् गिरिणैकेन प्रत्येकं तेन भिद्यते ॥६०६॥छापेक्षा तद्विषयता विधेयत्वान् न गम्यते ।काकतालीयम् इत्य् अत्र प्रसिद्धम् ह्य् उपलक्षणम् ॥६०७॥राजाश्वादिश् च विषयः स्याद् अन्यो वेत्य् अनिश्चितम् ।तेन च्छस्य विधानात् प्राग् व्यपदेशो न विद्यते ॥६०८॥द्वयोर् इवार्थयोर् अत्र निमित्तत्वं प्रतीयते ।एकेनावयवो युक्तः प्रत्ययो ऽन्येन युज्यते ॥६०९॥चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।दस्योर् अभिनिपातस् तु तालस्य पतनं यथा ॥६१०॥संनिपाते तयोर् यान्या क्रिया तत्रोपजायते ।वधादिर् उपमेये ऽर्थे तया छविधिर् इष्यते ॥६११॥क्रियायां समवेतायां द्रव्यशब्दो ऽवतिष्ठते ।पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥६१२॥यद् अन्वाख्यायकं वाक्यं तद् एवं परिकल्प्यते ।प्रयोगवाक्वं यल् लोके तद् एवं न प्रयुज्यते ॥६१३॥ययोर् अतर्किता प्राप्तिर् दृश्यते काकतालवत् ।तयोः समासप्रकृतेर् वृत्तिर् अभ्युपगम्यते ॥६१४॥काकस्य तालेन यथा वधो यस्य तु दस्युना ।तत्र चित्रीकृते ऽन्यस्मिन्न् उपमेये छ इष्यते ॥६१५॥चञ्चत्प्रकारश् चञ्चत्को बृहत्क इति चापरे ।मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥६१६॥तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।श्वासप्रबन्धैर् मण्डूकः स्पन्दमानप्रभो मणिः ॥६१७॥प्रविकासिप्रभो ऽल्पो ऽपि महान् य उपलभ्यते ।बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥६१८॥सादृश्यम् एव सर्वत्र प्रकारः कैश् चिद् इष्यते ।भेदे ऽपि तु प्रकाराख्या कैश् चिद् अभ्युपगम्यते ॥६१९॥प्रकारवचनः कश् चित् प्रकारवति संस्थितः ।प्रकारमात्रे वर्तित्वा कश् चित् तद्वति वर्तते ॥६२०॥सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।तुल्ययोर् अव्ययीभावे सहशब्दो ऽभिधायकः ॥६२१॥विप्सासादृश्ययोर् वृत्तिर् या यथार्थाभिधायिनः ।स चायम् अव्ययीभावे भेदो भेदेन दर्शितः ॥६२२॥सादृश्यं योग्यता कैश् चिद् अनाव् अभ्युपगम्यते ।यत् तु मूर्तिगतं साम्यं तत् सहेनाभिधीयते ॥६२३॥इत्थंभावे ऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥६२४॥गौर् वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।शुक्लादौ सति निष्पन्ने वाहीको न द्विर् उच्यते ॥६२५॥इति भर्तृहरिकृतं वाक्यपदीयम् समाप्तम् N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP