संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| संख्यासमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - संख्यासमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण संख्यासमुद्देशः Translation - भाषांतर संख्यावान् सत्त्वभूतो ऽर्थः सर्व एवाभिधीयते ।भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥१॥स धर्मो व्यतिरिक्तो वा तेषां आत्मैव वा तथा ।भेदहेतुत्वम् आश्रित्य संख्येति व्यपदिश्यते ॥२॥समवेता परिच्छेद्ये क्व चिद् अन्यत्र सा स्थिता ।प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥३॥परत्वे चापरत्वे च भेदे तुल्या श्रुतिर् यथा ।संख्याशब्दाभिधेयत्वं भेदहेतोस् तथा गुणे ॥४॥अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।अभेद्ये भेद्यभावो ऽपि द्रव्यधर्मस् तथा गुणे ॥५॥स्वबुद्ध्या तम् अपोद्धृत्य लोको ऽप्य् आगमम् आश्रितः ।स्वधर्माद् अन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥६॥परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः ।शब्दः सर्वपदार्थाना स्वधर्मद् विप्रकृष्यते ॥७॥यथैवाविषयं ज्ञानं न किं चिद् अवभासते ।तथा भावो ऽप्य् असंसृष्टो न कश् चिद् उपलभ्यते ॥८॥भेदेन तु समाख्यातं यल् लोको ऽप्य् अनुवर्तते ।आगमाच् छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥९॥बुद्धौ स्थितेषु तेष्व् एवम् अध्यारोपो न दुर्लभः ।परधर्मस्य न ह्य् अत्र सदसत्त्वं प्रयोजकम् ॥१०॥सामान्येष्व् अपि सामान्यं विशेषेषु विशिष्टता ।संख्यासु संख्या लिङ्गेषु लिङ्गम् एवं प्रकल्पते ॥११॥अतो द्रव्याश्रितां संख्याम् आहुः संसर्गवादिनः ।भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥१२॥आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते ।अतद्रूपेण संसर्गात् सा निमित्तसरूपता ॥१३॥संसृष्टेष्व् अपि निर्भागे भूतेष्व् अर्थक्रिया यथा ।सत्त्वादिषु च मात्रासु सर्वास्व् एवं प्रतीयते ॥१४॥द्वित्वादियोनिर् एकत्वं भेदास् तत्पूर्वका यतः ।विना तेन न संख्यानाम् अन्यासाम् अस्ति संभवः ॥१५॥एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।एकत्वाभ्यां समुत्पन्नम् एवं वा तत् प्रतीयते ॥१६॥एकत्वसमुदायो वा सापेक्षे वा पृथक् पृथक् ।एकत्वे द्वित्वम् इत्य् एवं तयोर् द्विवचनं भवेत् ॥१७॥एको ऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥१८॥संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते ।विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥१९॥एकविंशतिसंख्वावां संख्यान्तरसरूपयोः ।एकस्यां बुद्ध्यनावृत्त्या, भागयोर् इव कल्पना ॥२०॥असंख्यासमुदायत्वात् संख्याकार्यं विधीयते ।समूहत्वे तु तन् न स्यात् स्वाङ्गादिसमुदायवत् ॥२१॥संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥२२॥न संख्यायां न संख्येये द्वौ दशेत्य् अस्ति संभवः ।भेदाभावान् न संख्यायां विरोधान् न तदाश्रये ॥२३॥संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥२४॥संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।रूपं न रूपम् अप्य् एवं सम्ज्ञा सा हि सितादिषु ॥२५॥संख्यानजातियोगात् तु संख्या संख्येति कथ्यते ।रूपत्वजातियोगाच् च रूपे रूपम् इति स्मृतम् ॥२६॥निमित्तम् एकम् इत्य् अत्र विभक्त्या नाभिधीयते ।तद्वतस् तु यद् एकत्वं विभक्तिस् तत्र वर्तते ॥२७॥एकस्य प्रचयो दृष्टः समूहश् च द्वयोस् तथा ।निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥२८॥तद् एकम् अपि चैकत्वं विभक्तिश्रवणाद् ऋते ।नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥२९॥अन्वयव्यतिरेकौ च यदि स्याद् वचनान्तरम् ।स्याताम् असति तस्मिम्श् च प्रकृत्यर्थो न कल्प्यते ॥३०॥एकत्वम् एक इत्य् अत्र शुद्धद्रव्यविशेषणम् ।सगुणस् तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥३१॥द्व्येकयोर् इति निर्देशात् संख्यामात्रे ऽपि संभवः ।एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वम् उच्यते ॥३२॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP