संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| संबन्धसमुद्देश पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - संबन्धसमुद्देश संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण संबन्धसमुद्देश Translation - भाषांतर ज्ञानं प्रयोक्तुर् बाह्यो ऽर्थः स्वरूपं च प्रतीयते ।शब्दैर् उच्चरितैस् तेषां संबन्धः समवस्थितः ॥१॥प्रतिपत्तुर् भवत्य् अर्थे ज्ञाने वा संशयः क्वचित् ।स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥२॥अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।योगः शब्दार्थयोस् तत्त्वम् अप्य् अतो व्यपदिश्यते ॥३॥नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् ।अत्यन्तपरतन्त्रत्वाद् रूपं नास्यापदिश्यते ॥४॥उपकारात् स यत्रास्ति धर्मस् तत्रानुगम्यते ।शक्तीनाम् अपि सा शक्तिर् गुणानाम् अप्य् असौ गुणः ॥५॥तद्धर्मणोस् तु ताच्छब्द्यं संयोगसमवाययोः ।तयोर् अप्य् उपकारार्था नियतास् तदुपाधयः ॥६॥का चिद् एव हि सावस्था कार्यप्रसवसूचिता ।कस्य चित् केन चिद् यस्यां संयोग उपजायते ॥७॥निरात्मकानाम् उत्पत्तौ नियमः क्वचिद् एव यः ।तेनैवाव्यपवर्गश् च प्राप्तभेदे स यत्कृतः ॥८॥आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।यतश् चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥९॥तां शक्तिं समवायाख्यां शक्तीनाम् उपकारिणीम् ।हेदाभेदाव् अतिक्रान्ताम् अन्यथैव व्यवस्थिताम् ॥१०॥धर्मं सर्वपदार्थानाम् अतीतः सर्वलक्षणः ।अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥११॥पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।संबन्धस् तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥१२॥समवायात् स्व आधारः स्वा च जातिः प्रतीयते ।एकार्थसमवायात् तु गुणाः स्वाधार एव ये ॥१३॥द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः ।तत्प्रदेशविभागाश् च गुणा द्वित्वादयश् च ये ॥१४॥के चित् स्वाश्रयसंयुक्ताः के चित् तत्समवायिनः ।संयुक्तसमवेतेषु समवेतास् तथापरे ॥१५॥स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।समवायस्य संबन्धो नापरस् तत्र दृश्यते ॥१६॥संबन्धस्याविशिष्टत्वान् न चात्र नियमो भवेत् ।तस्माच्छब्दार्थयोर् नैवं संबन्धः परिकल्प्यते ॥१७॥अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।क्व चित् स्वस्वामियोगाख्यो ऽभेदे ऽन्यत्रापि स क्रमः ॥१८॥प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।प्रयोक्ता प्रतिपत्ता वा न शब्दैर् अनुगच्छति ॥१९॥अवाच्यम् इति यद् वाच्यं तद् अवाच्यतया यदा ।वाच्यम् इत्यवसीयेत वाच्यम् एव तदा भवेत् ॥२०॥अथाप्य् अवाच्यम् इत्य् एवं, न तद् वाच्यं प्रतीयते ।विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥२१॥तथान्यथा सर्वथा च यस्यावाच्यत्वम् उच्यते ।तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥२२॥न हि संशयरूपे ऽर्थे शेषत्वेन व्यवस्थिते ।अव्युदासे स्वरूपस्य संशयो ऽन्यः प्रवर्तते ॥२३॥यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥२४॥सर्वं मिथ्या ब्रवीमीति नैतद् वाक्यं विवक्ष्यते ।तस्य मिथ्याभिधाने हि प्रक्रान्तो ऽर्थो न गम्यते ॥२५॥न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।प्रतिपाद्यं न तत् तत्र येनान्यत् प्रतिपाद्यते ॥२६॥असाधिका प्रतिज्ञेति नेयम् एवाभिधीयते ।यथा, तथास्य धर्मो ऽपि नात्र कश्चित् प्रतीयते ॥२७॥व्यापारस्यापरो यस्मान् न व्यापारो ऽस्ति कश्चन ।विरोधम् अनवस्थां वा तस्मात् सर्वत्र नाश्रयेत् ॥२८॥इन्द्रियाणां स्वविषयेष्व् अनादिर् योग्यता यथा ।अनादिर् अर्थैः शब्दानां संबन्धो योग्यता तथा ॥२९॥असाधुर् अनुमानेन वाचकः कैश्चिद् इष्यते ।वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३०॥संबन्धशब्दे संबन्धो योग्यताञ्ं प्रति योग्यता ।समयाद् योग्यतासंविन् मातापुत्रादियोगवत् ॥३१॥शब्दः कारणम् अर्थस्य स हि तेनोपजन्यते ।तथा च बुद्धिविषयाद् अर्थाच् छब्दः प्रतीयते ॥३२॥भोजनाद्य् अपि मन्यन्ते बुद्ध्यर्थे यद् असंभवि ।बुद्ध्यर्थाद् एव बुद्ध्यर्थे जाते तद् अपि दृश्यते ॥३३॥अनित्येष्व् अपि नित्यत्वम् अभिधेयात्मना स्थितम् ।अनित्यत्वं स्वशक्तिर् वा सा च नित्यान् न भिद्यते ॥३४॥शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः ।क्रियते सो ऽभिसंबन्धम् अन्तरेण कथं भवेत् ॥३५॥नावश्यम् अभिधेयेषु संस्कारः स तथाविधः ।दृस्यते न च संबन्धस् तथाभूतो विवक्षितः ॥३६॥सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते ।शब्दस्यार्थे यतस् तत्र संबन्धो ऽस्तीति गम्यते ॥३७॥नित्ये ऽनित्ये ऽपि वाप्य् अर्थे पुरुषेण कथंचन ।संबन्धो ऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥३८॥व्यपदेशे पदार्थानाम् अन्या सत्तौपचारिकी ।सर्वावस्थासु सर्वेषाम् आत्मरूपस्य दर्शिका ॥३९॥स्फटिकादि यथा द्रव्यं भिन्नरूपैर् उपाश्रयैः ।स्वशक्तियोगात् संबन्धं ताद्रूप्येणेव गच्छति ॥४०॥तद्वच् छब्दो ऽपि सत्तायाम् अस्यां पूर्वं व्यवस्थितः ।धर्मैर् उपैति संबन्धम् अविरोधिविरोधिभिः ॥४१॥एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये ।आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥४२॥आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते ।यदि सज् जायते कस्माद् अथासज् जायते कथम् ॥४३॥सतो हि गन्तुर् गमनं, सति गम्ये प्रवर्तते ।गन्तृवच् चेन् न जन्मार्थो, न चेत् तद्वन् न जायते ॥४४॥उपचर्य तु कर्तारम् अभिधानप्रवृत्तये ।पुनश् च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥४५॥अथोपचारसत्तैवं विधेयस् तत्र लादयः ।जन्मना तु विरोधित्वान् मुख्या सत्ता न विद्यते ॥४६॥आत्मानम् आत्मना बिभ्रद् अस्तीति व्यपदिश्यते ।अन्तर्भावाच् च तेनासौ कर्मणा न सकर्मकः ॥४७॥प्राक् च सत्ताभिसंबन्धान् मुख्या सत्ता कथं भवेत् ।असंश् च नास्तेः कर्ता स्याद् उपचारस् तु पूर्ववत् ॥४८॥तस्माद् भिन्नेषु धर्मेषु विरोधिष्व् अविरोधिनीम् ।विरोधिख्यापनायैव शब्दैस् तैस् तैर् उपाश्रिताम् ॥४९॥अभिन्नकालाम् अर्थेषु भिन्नकालेष्व् अवस्थिताम् ।प्रवृत्तिहेतुं सर्वेषां शब्दानाम् औपचारिकीम् ॥५०॥एतां सत्तां पदार्थो हि न कश् चिद् अतिवर्तते ।सा च संप्रतिसत्तायाः पृथग् भाश्ये निदर्शिता ॥५१॥प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।विपर्ययम् अभावं वा व्यवहारो ऽनुवर्तते ॥५२॥यथेन्द्रियस्य वैगुण्यान् मात्राध्यारोपवान् इव ।जायते प्रत्ययो ऽर्थेभ्यस् तथैवोद्देशजा मतिः ॥५३॥अकृत्स्नविषयाभासं शब्दः प्रत्ययम् आश्रितः ।अर्थम् आहान्यरूपेण स्वरूपेणानिरूपितम् ॥५४॥रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।ज्ञानं प्रत्य् अभिलापं च सदृशौ बालपण्डितौ ॥५५॥सर्वार्थरूपता शुद्धिर् ज्ञानस्य निरुपाश्रया ।ततो ऽप्य् अस्य परां शुद्धिम् एके प्राहुर् अरूपिकाम् ॥५६॥उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।कालुष्यम् इव तत् तस्य संसर्गे व्यतिभेदजम् ॥५७॥यथा च ज्ञानम् आलेखाद् अशुद्धौ व्यवतिष्ठते ।तथोपाश्रयवान् अर्थः स्वरूपाद् विप्रकृष्यते ॥५८॥एवम् अर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।भावाभावाव् अभेदेन व्यवहारानुपातिनौ ॥५९॥यथा भावम् उपाश्रित्य तदभावो ऽनुगम्यते ।तथाभावम् उपाश्रित्य तद्भावो ऽप्य् अनुगम्यते ॥६०॥नाभावो जायते भावो नैति भावो ऽनुपाख्यताम् ।एकस्माद् आत्मनो ऽनन्यौ भावाभावौ विकल्पितौ ॥६१॥अभावस्यानुपाख्यत्वात् कारणं न प्रसाधकम् ।सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥६२॥तस्मात् सर्वम् अभावो वा भावो वा सर्वम् इष्यते ।न त्व् अवस्थान्तरं किं चिद् एकस्मात् सत्यतः स्थितम् ॥६३॥तस्मान् नाभावम् इच्छन्ति ये लोके भाववादिनः ।अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥६४॥अद्वये चैव सर्वस्मिन् स्वभावाद् एकलक्षणे ।परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥६५॥चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।एवं द्वैविध्यम् अप्य् एतद् भावाभावव्यपाश्रयम् ॥६६॥अविरोधी विरोधी वा सन्न् असन् वापि युक्तितः ।क्रमवान् अक्रमो वापि नाभाव उपपद्यते ॥६७॥अविरोधी विरोधी वा सन्न् असन् वापि तत्त्वतः ।क्रमवान् अक्रमो वापि तेन भावो न विद्यते ॥६८॥अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः ।तस्मिन्न् असति भावे ऽपि त्रैकाल्यं नावतिष्ठते ॥६९॥आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥७०॥तत्त्वे विरोधो नानात्व उपकारो न कश् चन ।तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥७१॥यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् ।तस्यैवार्थस्य सत्यत्वं श्रितास् त्रय्यन्तवेदिनः ॥७२॥सामान्यं वा विशेषं वा यस्माद् आहुर् विशेषवत् ।शब्दास् तस्माद् असत्येषु भेदेष्व् एव व्यवस्थिताः ॥७३॥न ह्य् अभावस्य सद्भावे भावस्यात्मा प्रहीयते ।न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥७४॥न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥७५॥अभावो यदि वस्तु स्यात् तत्रेयं स्यात् विचारणा ।ततश् च तदभावे ऽपि स्याद् विचार्यम् इदं पुनः ॥७६॥अवस्तु स्याद् अतीतं यद् व्यवहारस्य गोचरम् ।तत्र वस्तुगतो भेदो न निर्वचनम् अर्हति ॥७७॥अपदे ऽर्थे पदन्यासः कारणस्य न विद्यते ।अथ च प्रागसद्भावः कारणे सति दृष्यते ॥७८॥का तस्य प्रागवस्थेति वस्त्वाश्रितम् इदं पुनः ।प्राग् अवस्थेति न ह्य् एतद् द्वयम् अप्य् अस्त्य् अवस्तुनि ॥७९॥न चोर्ध्वम् अस्ति नास्तीति वचनायानिबन्धनम् ।अलं स्याद् अपदस्थानम् एतद् वाचः प्रचक्षते ॥८०॥अत्यद्भुता त्व् इयं वृत्तिर् यद् अभागं यद् अक्रमम् ।भावानां प्राग् अभूतानाम् आत्मतत्त्वं प्रकाशते ॥८१॥विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥८२॥भावशक्तिम् अतश् चैनां मन्यन्ते नित्यवादिनः ।भावम् एव क्रमम् प्राहुर् न भावाद् अपरः क्रमः ॥८३॥क्रमान् न यौगपद्यस्य कश् चिद् भेदो ऽस्ति तत्त्वतः ।यथैव भावान् नाभावः कश् चिद् अन्यो ऽवसीयते ॥८४॥कालस्याप्य् अपरं कालं निर्दिशन्त्य् एव लौकिकाः ।न च निर्देशमात्रेण व्यतिरेको ऽनुगम्यते ॥८५॥आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते ।अवस्तुष्व् अपि नोत्प्रेक्षा कस्य चित् प्रतिबध्यते ॥८६॥तस्माच् छक्तिविभागेन नित्यः सदसदात्मकः ।एको ऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥८७॥व्यवहारश् च लोकस्य पदार्थैः परिकल्पितैः ।शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥८८॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP