संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः १ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः १ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः १ Translation - भाषांतर कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः ॥१॥देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥२॥प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः ।प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते ॥३॥कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः ।स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते ॥४॥न च सांप्रतिकी कुत्सा भेदाभावात् प्रतीयते ।पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥५॥विशेषणविशेष्यत्वं पदयोर् उपजायते ।न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते ॥६॥विशेष्यं स्याद् अनिर्ज्ञातं निर्ज्ञातो ऽर्थो विशेषणम् ।परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम् ॥७॥विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः ।सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः ॥८॥द्रव्ये ऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥९॥सामान्यानाम् असंबन्धात् तौ विशेषे व्यवस्थितौ ।रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः ॥१०॥ताव् एव संनिपतितौ भेदेन प्रतिपादने ।अवच्छेदम् इवाधाय संशयं व्यपकर्षतः ॥११॥द्रव्यात्मा गुणसंसर्ग- भेदाद् आश्रीयते पृथक् ।जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते ॥१२॥निमित्तैर् अभिसंबन्धाद् या निमित्तसरूपता ।तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते ॥१३॥द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते ॥१४॥बुद्ध्यैकं भिद्यते भिन्नम् एकत्वं चोपगच्छति ।बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका ॥१५॥व्यपदेशिवद् एकस्मिन् बुद्ध्या नानात्वकल्पना ।तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते ॥१६॥क्रियाभेदेन दृष्टानाम् अश्मादीनां पुनः पुनः ।किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते ॥१७॥प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् ।भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते ॥१८॥अन्वयव्यतिरेकाभ्याम् अर्थवान् परिकल्पितः ।एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते ॥१९॥द्रव्यात्मानस् त्रयस् तस्माद् बुद्धौ नाना व्यवस्थिताः ।आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः ॥२०॥सामानाधिकरण्यं च शब्दयोः कैश् चिद् इष्यते ।विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च ॥२१॥केषां चिज् जातिगुणयोर् एकार्थसमवेतयोः ।वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि ॥२२॥संस् तु रूपरसादिनाम् आश्रयो नाभिधीयते ।द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः ॥२३॥द्रव्याभिधायी कृष्णादिर् आकाङ्क्षावान् प्रवर्तते ।निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते ॥२४॥एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥२५॥गुणमात्राभिधायित्वं के चिद् इच्छन्ति वृत्तिषु ।अजाश्वादिषु संबन्धाद् रूढीनाम् इव रूढिभिः ॥२६॥तिले पूर्वम् उपात्ते वा तत्रैव मतुब् इष्यते ।स च धर्मः समासेषु गुणस् तस्माद् विशेषणम् ॥२७॥[पट्वीमृद्व्योः समासे तु यद्य् अप्य् एकार्थवृत्तिता ।भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते ॥२८॥अनुस्यूतेव भेदाभ्याम् एका प्रख्योपजायते ।यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः ॥२९॥इतरेतरयोगस् तु भिन्नसङ्घाभिधायिनाम् ।प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते ॥३०॥व्यापारसमुदायस्य यथाधिश्रयणादिषु ।प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि ॥३१॥शौण्डार्धर्चपुरोडाश- च्छत्त्रिणो ऽत्र निदर्शनम् ।ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥३२॥अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम् ॥३३॥समुदायान्तरत्वाच् च तादृशो ऽर्थो न लौकिकः ।अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते ॥३४॥दुःखा दुरुपपादा च तस्माद् भाष्ये ऽप्य् उदाहृता ।युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता ॥३५॥समुदायम् उपक्रम्य पदं तस्यां प्रयुज्यते ।विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते ॥३६॥वाक्ये ऽपि नियता धर्माः के चिद् वृत्तौ द्वयोस् तथा ।ते त्व् अभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥३७॥वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता ।उपमानसमासादौ श्यामादीनाम् उदाहृता ॥३८॥वृत्तिर् अन्यपदार्थे या तस्या वाक्येष्व् असंभवः ।चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते ॥३९॥भेदे सति निरादीनां क्रान्ताद्यर्थेष्व् असंभवः ।प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु ॥४०॥क्रीडाया, जीविकायाश् च वाक्येनावचनात् तथा ।न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥४१॥निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥४२॥विधिभिः प्रतिषेधैश् च भेदाभेदनिदर्शनम् ।कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥४३॥सामर्थ्यम् अविशेषोक्तम् अपि लोकव्यवस्थया ।वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः ॥४४॥अर्थस्य विनिवृत्तत्वाल् लुगादि न विरुध्यते ।एकार्थीभाव एवातः समासाख्या विधीयते ॥४५॥व्यवस्थितविभाषा च सामान्ये कैश् चिद् इष्यते ।तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते ॥४६॥तुल्यश्रुतित्वात् तत्त्वे ऽपि राजादीनाम् उपाश्रिते ।वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान् निवर्तते ॥४७॥संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते ॥४८॥समुदायेन संबन्धो येसां गुरुकुलादिना ।संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह ॥४९॥अबुधान् प्रत्य् उपायाश् च विचित्राः प्रतिपत्तये ।शब्दान्तरत्वाद् अत्यन्त- भेदो वाक्यसमासयोः ॥५०॥असमासे समासे च गोरथादिष्व् अदर्शनात् ।युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥५१॥शब्दान्तरत्वाद् युक्तादिः क्व चिद् वाक्ये प्रयुज्यते ।प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु ॥५२॥विशेषणविशेस्यत्वं कैश् चिद् एकस् तथाश्रयः ।उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः ॥५३॥पदं यथैव वृक्षादि विशिष्टे ऽर्थे व्यवस्थितम् ।नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना ॥५४॥श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् ।भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥५५॥सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्व चित् ।रूढ्यरूढिविभागो ऽपि क्रियते प्रतिपत्तये ॥५६॥या सामान्याश्रया संज्ञा विशेषविषया च या ।बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः ॥५७॥सुसूक्ष्मजटकेशादौ समासो ऽवयवे यदि ।स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥५८॥समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।भेद एव विभाषाया नियतो विषयो यतः ॥५९॥यतश् चाविषयः सो ऽस्यास् तस्मान् नास्त्य् अकृतार्थता ।अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात् ॥६०॥महाकष्टश्रितेत्य् एवं न स्याद् भेदः पदत्रये ।वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते ॥६१॥महारण्यम् अतीते तु त्रिपदाद् भिद्यते स्वरः ।यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः ॥६२॥सतिशिष्टबलियस्त्वात् थाथादिस्वर एव तु ।द्विपदे तेन यगपत् त्रितयं न समस्यते ॥६३॥येषाम् अपूज्यमानत्वं परार्थानुगमात्मके ।विशेषणविशेष्यत्वम् अपि तेषां न कल्पते ॥६४॥विशेषः श्रूयमाणो ऽपि प्रधानेषु गुणेषु वा ।शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते ॥६५॥विशेषकर्मसंबन्धे निर्भुक्ते ऽपि कृतादिभिः ।विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते ॥६६॥अकर्मकत्वे सत्य् एवं क्तान्तं भावाभिधायि तत् ।ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥६७॥अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता ॥६८॥मुण्डिसूत्र्वादयो ऽसद्भिर् भागैर् अनुगता इव ।विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥६९॥पुत्रीयतौ न पुत्रो ऽस्ति विशेषेच्छा तु तादृशी ।विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते ॥७०॥प्राणैर् विना यथा धारिर् जीवतौ प्राणकर्मकः ।न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम् ॥७१॥तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः ॥७२॥आक्षेपाच् च प्रयोगे.न विषयान्तरवर्तिना ।सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥७३॥प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना ।अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते ॥७४॥शब्दा यथा विभज्यन्ते भागैर् इव विकल्पितैः ।अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम् ॥७५॥अर्थस्यानुगमं कं चिद् दृष्ट्वैव परिकल्पितम् ।पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत् ॥७६॥अविप्रयोगः साधुत्वे व्युत्पत्तिर् अनवस्थिता ।उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥७७॥यथैव डित्थे दवतिः पाचके पचतिस् तथा ।डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ ॥७८॥प्रकृतिप्रत्ययाव् ऊह्यौ पदात् ताभ्यां पदं तथा ।अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥७९॥शास्त्रदृष्टिस् तु शास्त्रस्य प्राप्तिमात्रे ऽप्य् अनिश्चिते ।युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम् ॥८०॥अर्थान्तराभिधानाच् च पौर्वापर्यं न भिद्यते ।राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥८१॥विनैव प्रत्ययैर् वृत्तौ ये भिन्नार्थाभिधायिनः ।गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते ॥८२॥[सो ऽयम् इत्य् अभिसंबन्धात् प्रत्ययेन विना यदि ।भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत् ॥८३॥सो ऽयम् इत्य् अभिसंबन्धे लिङ्गोपव्यञ्जनाद् ऋते ।प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥८४॥मानमेयाभिसंबन्ध- विशेषे ऽङ्गीकृते तथा ।प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत् ॥८५॥तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् ।परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥८६॥व्यतिरिक्तस्य साधुत्वे तद् एव च निदर्शनम् ।युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः ॥८७॥शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत् ॥८८॥विशेषणाद् विशेष्ये ऽर्थे तद्भावाभ्युच्चये सति ।पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते ॥८९॥निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।निमित्तवति बुद्धेश् च न निमित्तसरूपता ॥९०॥संस्कारसहिताज् ज्ञानान् नोपश्लेसः स्मृतेर् अपि ।व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम् ॥९१॥अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥९२॥अनुस्यूतेव संसृष्टैर् अर्थे बुद्धिः प्रवर्तते ।व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते ॥९३॥तदात्मन्य् अविभक्ते च बुद्ध्यन्तरम् उपाश्रिताः ।विभागम् इव मन्यन्ते विशेषणविशेष्ययोः ॥९४॥अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥९५॥अन्वयाद् गम्यते सो ऽर्थो विरोधी वा निवर्तते ।द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम् ॥९६॥उपायमात्रं नानात्वं समूहस् त्व् एक एव सः ।विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥९७॥वृत्तिं वर्तयताम् एवम् अबुधप्रतिपत्तये ।भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः ॥९८॥वाचिका द्योतिका वापि संख्यानां वा विभक्तयः ।तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥९९॥अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते ।संसर्गरुपं सैंख्यानाम् अविभक्तं तद् उच्यते ॥१००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP