पदकांड - वृत्तिसमुद्देशः १

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थादयः सर्वे यस्मात् कुत्सादिहेतवः  ॥१॥

देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते  ॥२॥

प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः ।
प्रकृष्टस्य प्रकर्षे तु तरबादिर् विधीयते  ॥३॥

कुत्सितत्वेन कुत्स्यो वा न सम्यग् वापि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टो ऽर्थः प्रतीयते  ॥४॥

न च सांप्रतिकी कुत्सा भेदाभावात् प्रतीयते ।
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते  ॥५॥

विशेषणविशेष्यत्वं पदयोर् उपजायते ।
न प्रातिपदिकार्थश् च तत्रैव व्यतिरिच्यते  ॥६॥

विशेष्यं स्याद् अनिर्ज्ञातं निर्ज्ञातो ऽर्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषाम् उपकारिणाम्  ॥७॥

विभक्तिभेदो नियमाद् गुणगुण्यभिधायिनोः ।
सामानाधिकरण्यस्य प्रसिद्धिर् द्रव्यशब्दयोः  ॥८॥

द्रव्ये ऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते  ॥९॥

सामान्यानाम् असंबन्धात् तौ विशेषे व्यवस्थितौ ।
रूपाभेदाद् विशेषं तम् अभिव्यङ्क्तुं न शक्नुतः  ॥१०॥

ताव् एव संनिपतितौ भेदेन प्रतिपादने ।
अवच्छेदम् इवाधाय संशयं व्यपकर्षतः  ॥११॥

द्रव्यात्मा गुणसंसर्ग- भेदाद् आश्रीयते पृथक् ।
जातिसंबन्धभेदाच् च द्वितीय इव गृह्यते  ॥१२॥

निमित्तैर् अभिसंबन्धाद् या निमित्तसरूपता ।
तयैकस्यापि नानात्वं रूपभेदात् प्रकल्पते  ॥१३॥

द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोर् अवस्थयोर् भेदाद् आश्रयत्वे नियुज्यते  ॥१४॥

बुद्ध्यैकं भिद्यते भिन्नम् एकत्वं चोपगच्छति ।
बुद्ध्यावस्था विभज्यन्ते सा ह्य् अर्थस्य विधायिका  ॥१५॥

व्यपदेशिवद् एकस्मिन् बुद्ध्या नानात्वकल्पना ।
तया कल्पितभेदः सन्न् अर्थात्मा व्यपदिश्यते  ॥१६॥

क्रियाभेदेन दृष्टानाम् अश्मादीनां पुनः पुनः ।
किं चिद् दर्शनम् अन्येन दर्शनेनापदिश्यते  ॥१७॥

प्रयोगभेदाद् धातूनां प्रकल्प्य बहुरूपताम् ।
भेदाभेदाव् उपादाय क्व चिद् एकाच्त्वम् उच्यते  ॥१८॥

अन्वयव्यतिरेकाभ्याम् अर्थवान् परिकल्पितः ।
एको धात्वर्थविगमाद् वर्णत्वेनोपचर्यते  ॥१९॥

द्रव्यात्मानस् त्रयस् तस्माद् बुद्धौ नाना व्यवस्थिताः ।
आश्रयाश्रयिधर्मेणेत्य् अयं पूर्वेभ्य आगमः  ॥२०॥

सामानाधिकरण्यं च शब्दयोः कैश् चिद् इष्यते ।
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वम् एव च  ॥२१॥

केषां चिज् जातिगुणयोर् एकार्थसमवेतयोः ।
वृत्तिः कृष्णतिलेष्व् इष्टा शब्दे द्रव्याभिधायिनि  ॥२२॥

संस् तु रूपरसादिनाम् आश्रयो नाभिधीयते ।
द्रव्याभिधानेन विना ततस् ते द्वन्द्वभाविनः  ॥२३॥

द्रव्याभिधायी कृष्णादिर् आकाङ्क्षावान् प्रवर्तते ।
निमित्तानुविधायित्वात् तत् तिलादौ न विद्यते  ॥२४॥

एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते  ॥२५॥

गुणमात्राभिधायित्वं के चिद् इच्छन्ति वृत्तिषु ।
अजाश्वादिषु संबन्धाद् रूढीनाम् इव रूढिभिः  ॥२६॥

तिले पूर्वम् उपात्ते वा तत्रैव मतुब् इष्यते ।
स च धर्मः समासेषु गुणस् तस्माद् विशेषणम्  ॥२७॥

[पट्वीमृद्व्योः समासे तु यद्य् अप्य् एकार्थवृत्तिता ।
भिन्नम् अत्राधिकरणं प्राग् वृत्तेस् तच् च गृह्यते  ॥२८॥

अनुस्यूतेव भेदाभ्याम् एका प्रख्योपजायते ।
यदा सहविवक्षां ताम् आहुर् द्वन्द्वैकशेषयोः  ॥२९॥

इतरेतरयोगस् तु भिन्नसङ्घाभिधायिनाम् ।
प्रत्येकं च समूहो ऽसौ समूहिषु समाप्यते  ॥३०॥

व्यापारसमुदायस्य यथाधिश्रयणादिषु ।
प्रत्येकं जातिवद् वृत्तिस् तथा द्वन्द्वपदेष्व् अपि  ॥३१॥

शौण्डार्धर्चपुरोडाश- च्छत्त्रिणो ऽत्र निदर्शनम् ।
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु  ॥३२॥

अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।
याभ्यां चैकम् अनेकार्थं ताभ्याम् एवापरं पदम्  ॥३३॥

समुदायान्तरत्वाच् च तादृशो ऽर्थो न लौकिकः ।
अन्वयव्यतिरेकाभ्यां शास्त्रार्थो ऽपि न दृश्यते  ॥३४॥

दुःखा दुरुपपादा च तस्माद् भाष्ये ऽप्य् उदाहृता ।
युगपद्वाचिता सा तु व्यवहारार्थम् आश्रिता  ॥३५॥

समुदायम् उपक्रम्य पदं तस्यां प्रयुज्यते ।
विभागेन समाख्याने ततस् तद् द्व्यर्थम् उच्यते  ॥३६॥

वाक्ये ऽपि नियता धर्माः के चिद् वृत्तौ द्वयोस् तथा ।
ते त्व् अभेदेन सामर्थ्य- मात्र एवोपवर्णिताः  ॥३७॥

वृत्तौ विशेषवृत्तित्वाद् भेदे सामान्यवाचिता ।
उपमानसमासादौ श्यामादीनाम् उदाहृता  ॥३८॥

वृत्तिर् अन्यपदार्थे या तस्या वाक्येष्व् असंभवः ।
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर् न विद्यते  ॥३९॥

भेदे सति निरादीनां क्रान्ताद्यर्थेष्व् असंभवः ।
प्राग् वृत्तेर् जातिवाचित्वं न च गौरखरादिषु  ॥४०॥

क्रीडाया, जीविकायाश् च वाक्येनावचनात् तथा ।
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा  ॥४१॥

निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।
समासप्रतिषेधानां ततो नास्ति प्रयोजनम्  ॥४२॥

विधिभिः प्रतिषेधैश् च भेदाभेदनिदर्शनम् ।
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत्  ॥४३॥

सामर्थ्यम् अविशेषोक्तम् अपि लोकव्यवस्थया ।
वृत्त्यवृत्त्योः प्रयोगज्ञैर् विभक्तं प्रतिपत्तृभिः  ॥४४॥

अर्थस्य विनिवृत्तत्वाल् लुगादि न विरुध्यते ।
एकार्थीभाव एवातः समासाख्या विधीयते  ॥४५॥

व्यवस्थितविभाषा च सामान्ये कैश् चिद् इष्यते ।
तथा वाक्यं व्यपेक्षायां समासो ऽन्यत्र शिष्यते  ॥४६॥

तुल्यश्रुतित्वात् तत्त्वे ऽपि राजादीनाम् उपाश्रिते ।
वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान् निवर्तते  ॥४७॥

संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
स्वार्थवत् सा व्यपेक्षास्य वृत्ताव् अपि न हीयते  ॥४८॥

समुदायेन संबन्धो येसां गुरुकुलादिना ।
संस्पृश्यावयवांस् ते ऽपि युज्यन्ते तद्वता सह  ॥४९॥

अबुधान् प्रत्य् उपायाश् च विचित्राः प्रतिपत्तये ।
शब्दान्तरत्वाद् अत्यन्त- भेदो वाक्यसमासयोः  ॥५०॥

असमासे समासे च गोरथादिष्व् अदर्शनात् ।
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः  ॥५१॥

शब्दान्तरत्वाद् युक्तादिः क्व चिद् वाक्ये प्रयुज्यते ।
प्रपर्णप्रपलाशादौ गतशब्दश् च वृत्तिषु  ॥५२॥

विशेषणविशेस्यत्वं कैश् चिद् एकस् तथाश्रयः ।
उपाये तत्त्वदर्शित्वाद् इष्यते वृत्तिवाक्ययोः  ॥५३॥

पदं यथैव वृक्षादि विशिष्टे ऽर्थे व्यवस्थितम् ।
नीलोत्पलाद्य् अपि तथा भागाभ्यां वर्तते विना  ॥५४॥

श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् ।
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात्  ॥५५॥

सप्तपर्णादिवद् भेदो न वृत्तौ विद्यते क्व चित् ।
रूढ्यरूढिविभागो ऽपि क्रियते प्रतिपत्तये  ॥५६॥

या सामान्याश्रया संज्ञा विशेषविषया च या ।
बहुलग्रहणान् नास्ति प्रवृत्तिर् उभयोस् तयोः  ॥५७॥

सुसूक्ष्मजटकेशादौ समासो ऽवयवे यदि ।
स्यात् स्यात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः  ॥५८॥

समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।
भेद एव विभाषाया नियतो विषयो यतः  ॥५९॥

यतश् चाविषयः सो ऽस्यास् तस्मान् नास्त्य् अकृतार्थता ।
अभेदप्रक्रमे ऽत्यन्तं भेदानाम् अपसारणात्  ॥६०॥

महाकष्टश्रितेत्य् एवं न स्याद् भेदः पदत्रये ।
वृत्ताव् अवयवस्यात्त्वं यस्मान् न प्रतिषिध्यते  ॥६१॥

महारण्यम् अतीते तु त्रिपदाद् भिद्यते स्वरः ।
यस्मात् तत्रान्तरङ्गत्वाद् बाधको ऽवयवस्वरः  ॥६२॥

सतिशिष्टबलियस्त्वात् थाथादिस्वर एव तु ।
द्विपदे तेन यगपत् त्रितयं न समस्यते  ॥६३॥

येषाम् अपूज्यमानत्वं परार्थानुगमात्मके ।
विशेषणविशेष्यत्वम् अपि तेषां न कल्पते  ॥६४॥

विशेषः श्रूयमाणो ऽपि प्रधानेषु गुणेषु वा ।
शब्दान्तरत्वाद् वाक्ये तु वृत्तौ नित्यं न विद्यते  ॥६५॥

विशेषकर्मसंबन्धे निर्भुक्ते ऽपि कृतादिभिः ।
विशेषनिरपेक्षो ऽन्यः कृतशब्दः प्रवर्तते  ॥६६॥

अकर्मकत्वे सत्य् एवं क्तान्तं भावाभिधायि तत् ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम्  ॥६७॥

अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
संबध्यते क्रिया तद्वत् कृतपूर्व्यादिषु स्थिता  ॥६८॥

मुण्डिसूत्र्वादयो ऽसद्भिर् भागैर् अनुगता इव ।
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत्  ॥६९॥

पुत्रीयतौ न पुत्रो ऽस्ति विशेषेच्छा तु तादृशी ।
विनैव पुत्रानुगमाद् या पुत्रे व्यवतिष्ठते  ॥७०॥

प्राणैर् विना यथा धारिर् जीवतौ प्राणकर्मकः ।
न चात्र धारिर् न प्राणा जीवतिस् तु क्रियान्तरम्  ॥७१॥

तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।
अन्वाख्यानाय भेदास् तु सदृशाः प्रतिपादकाः  ॥७२॥

आक्षेपाच् च प्रयोगे.न विषयान्तरवर्तिना ।
सद् अपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते  ॥७३॥

प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना ।
अभ्यासे तुल्यरूपत्वान् न यङन्तः प्रयुज्यते  ॥७४॥

शब्दा यथा विभज्यन्ते भागैर् इव विकल्पितैः ।
अन्वाख्येयास् तथा शास्त्रम् अतिदूरे व्यवस्थितम्  ॥७५॥

अर्थस्यानुगमं कं चिद् दृष्ट्वैव परिकल्पितम् ।
पदं वाक्ये पदे धातुर् धातौ भागश् च मुण्डिवत्  ॥७६॥

अविप्रयोगः साधुत्वे व्युत्पत्तिर् अनवस्थिता ।
उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः  ॥७७॥

यथैव डित्थे दवतिः पाचके पचतिस् तथा ।
डयतिश् च पचिश् चैव द्वाव् अप्य् एताव् अलौकिकौ  ॥७८॥

प्रकृतिप्रत्ययाव् ऊह्यौ पदात् ताभ्यां पदं तथा ।
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति  ॥७९॥

शास्त्रदृष्टिस् तु शास्त्रस्य प्राप्तिमात्रे ऽप्य् अनिश्चिते ।
युज्यते प्रत्यवायेन शास्त्रं चक्षुर् अपश्यताम्  ॥८०॥

अर्थान्तराभिधानाच् च पौर्वापर्यं न भिद्यते ।
राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा  ॥८१॥

विनैव प्रत्ययैर् वृत्तौ ये भिन्नार्थाभिधायिनः ।
गर्गादयो लुका तेषां साधुत्वम् अनुगम्यते  ॥८२॥

[सो ऽयम् इत्य् अभिसंबन्धात् प्रत्ययेन विना यदि ।
भृग्वादयः प्रयुज्येरन् नापत्ये नियमो भवेत्  ॥८३॥

सो ऽयम् इत्य् अभिसंबन्धे लिङ्गोपव्यञ्जनाद् ऋते ।
प्रष्ठादिषु न जायैव नियमेन प्रतीयते  ॥८४॥

मानमेयाभिसंबन्ध- विशेषे ऽङ्गीकृते तथा ।
प्रस्थादीनाम् असाधुत्वं तद्धितेन विना भवेत्  ॥८५॥

तद्धितो योगभेदेन वाक्यं वा स्याद् विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः  ॥८६॥

व्यतिरिक्तस्य साधुत्वे तद् एव च निदर्शनम् ।
युज्यते ऽङ्गीकृताधिक्यं तत् सर्वाभिर् विभक्तिभिः  ॥८७॥

शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।
असाधुत्वनिवृत्त्यर्थं साधवस् ते बिदादिवत्  ॥८८॥

विशेषणाद् विशेष्ये ऽर्थे तद्भावाभ्युच्चये सति ।
पुनश् च प्रतिसंहारे वृत्तिम् एके प्रचक्षते  ॥८९॥

निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।
निमित्तवति बुद्धेश् च न निमित्तसरूपता  ॥९०॥

संस्कारसहिताज् ज्ञानान् नोपश्लेसः स्मृतेर् अपि ।
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात् तथा स्थितम्  ॥९१॥

अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।
तस्माद् अनुपकारे वा ग्राह्यं वा न तथा स्थितम्  ॥९२॥

अनुस्यूतेव संसृष्टैर् अर्थे बुद्धिः प्रवर्तते ।
व्याख्यातारो विभज्यार्थांस् तान् भेदेन प्रचक्षते  ॥९३॥

तदात्मन्य् अविभक्ते च बुद्ध्यन्तरम् उपाश्रिताः ।
विभागम् इव मन्यन्ते विशेषणविशेष्ययोः  ॥९४॥

अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम्  ॥९५॥

अन्वयाद् गम्यते सो ऽर्थो विरोधी वा निवर्तते ।
द्व्यर्थम् अर्थान्तरे वापि तत्राहुर् उपसर्जनम्  ॥९६॥

उपायमात्रं नानात्वं समूहस् त्व् एक एव सः ।
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना  ॥९७॥

वृत्तिं वर्तयताम् एवम् अबुधप्रतिपत्तये ।
भिन्नाः संबोधनोपायाः पुरुषेष्व् अनवस्थिताः  ॥९८॥

वाचिका द्योतिका वापि संख्यानां वा विभक्तयः ।
तद्रूपे ऽवयवे वृत्तौ संख्याभेदो निवर्तते  ॥९९॥

अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते ।
संसर्गरुपं सैंख्यानाम् अविभक्तं तद् उच्यते  ॥१००॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP