संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः ४ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः ४ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः ४ Translation - भाषांतर अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।अङ्गीकृतोपमानेन तथान्यो ऽर्थो ऽभिधीयते ॥३०१॥अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः ।तद्रूपत्वात् स हेमन्त इत्य् अभिन्नः प्रतीयते ॥३०२॥अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥३०३॥न चैवंविषयः कश् चिद् बहुव्रीहिः प्रकल्पते ।अगुर् अश्व इति व्याप्तिर् नञ्समासेन यस्य न ॥३०४॥द्वन्द्वैकदेशिनोर् उक्ता परवल्लिङ्गता यतः ।अवर्षासु ततो ऽसिद्धिर् इष्टयोर् लिङ्गसंख्ययोः ॥३०५॥विशेषणं ब्राह्मणादि क्रियासंबन्धिनो ऽसतः ।यदा विषयभिन्नं तत् तदासत्त्वम् प्रतीयते ॥३०६॥ब्राह्मणत्वेन चासत्त्वाद् उच्यते सत् तद् अन्यथा ।असद् इत्य् अपि सत्त्वेन सतः सत्ता निवर्त्यते ॥३०७॥समन्यद्रव्यवृत्तित्वान् निमित्तानुविधायिनः ।अयोगो लिङ्गसंख्याभ्यां स्याद् वा सामान्यधर्मता ॥३०८॥प्राग् असत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥३०९॥निमित्तानुविधाने च क्रियायोगो न कल्पते ।तथा चाव्यपदेश्यत्वाद् उपादानम् अनर्थकम् ॥३१०॥असत्सामान्यवृत्तिर् वा विशेषैः क्षत्रियादिभिः ।प्रयुक्तैर् आश्रयैर् भिन्नो याति तल्लिङ्गसंख्यताम् ॥३११॥प्राग् आश्रयो हि भेदाय प्रधाने ऽभ्यन्तरीकृतः ।पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥३१२॥समासे श्रूयते स्वार्थो येन तद्वांस् तदाश्रयः ।द्रव्यं तु लिङ्गसंख्यावद् असताभ्यन्तरीकृतम् ॥३१३॥एकार्थविषयौ शब्दौ तस्मिन्न् अन्यार्थवर्तिनौ ।असतैव तु भेदानां सर्वेषाम् उपसंग्रहः ॥३१४॥ते क्षत्रियादिभिर् वाच्या वाच्या वा सर्वनामभिः ।यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥३१५॥विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः ।अवर्षादिषु दोसश् च हेमन्तो ऽन्याश्रयो यतः ॥३१६॥आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।एकत्वाद् एकशब्दत्वं न्याय्यं तस्याश् च वर्ण्यते ॥३१७॥आविष्टलिङ्गता तस्यां स्याद् ग्राम्यपगुसङ्घवत् ।द्रव्यभेदे ऽपि चैकत्वात् तत्रैकवचनं भवेत् ॥३१८॥आश्रयाणां हि लिङ्गैः सा नियतैर् एव युज्यते ।तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥३१९॥सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।विरोधित्वात् प्रसज्येत नाश्रितं तच् च लौकिकम् ॥३२०॥सामान्यम् आकृतिर् भावो जातिर् इत्य् अत्र लौकिकम् ।लिङ्गं न संभवत्य् एव तेनान्यत् परिगृह्यते ॥३२१॥प्रवृत्तिर् इति सामान्यं लक्षणं तस्य कथ्यते ।आविर्भावस् तिरोभावः स्थितिश् चेत्य् अथ भिद्यते ॥३२२॥प्रवृत्तिमन्तः सर्वे ऽर्थास् तिसृभिश् च प्रवृत्तिभिः ।सततं न वियुज्यन्ते वाचश् चैवात्र संभवः ॥३२३॥यश् चाप्रवृत्तिधर्मार्थश् चितिरूपेण गृह्यते ।अनुयातीव सो ऽन्येषां प्रवृत्तीर् विश्वगाश्रयाः ॥३२४॥तेनास्य चितिरूपं च चितिकालश् च भिद्यते ।तस्य स्वरूपभेदस् तु न कश् चिद् अपि विद्यते ॥३२५॥अचेतनेषु चैतन्यं संक्रान्तम् इव दृश्यते ।प्रतिबिम्बकधर्मेण यत् तच् छब्दनिबन्धनम् ॥३२६॥अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।क्व चित् तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥३२७॥कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिर् इष्यते ॥३२८॥लिङ्गं प्रति न भेदो ऽस्ति द्रव्यपक्षे ऽपि कश् चन ।तस्मात् सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥३२९॥वचने नियमः शास्त्राद् द्रव्यस्याभ्युपगम्यते ।यतस् तद् आकृतौ शास्त्रम् अन्यथैव समर्थ्यते ॥३३०॥वर्तते यो बहुष्व् अर्थो ऽभेदे तस्य विवक्षिते ।स्वाश्रयैर् व्यपदिष्टस्य शास्त्रे वचनम् उच्यते ॥३३१॥यदा त्व् आश्रयभेदेन भेद एव प्रतीयते ।आकृतेर् द्रव्यपक्षेन तदा भेदो न विद्यते ॥३३२॥अभेदे त्व् एकशब्दत्वाच् छास्त्राच् च वचने सति ।एकशेषो न वक्तव्यो वचनानां च संभवः ॥३३३॥ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।आकृतेर् उपकारो ऽयं द्रव्याभावान् न कल्पते ॥३३४॥व्यपदेशो ऽभिधेयेन न शास्त्रे कश् चिद् आश्रितः ।द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥३३५॥गुणभावो ऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।उपकारि गुणः शेषः परार्थ इति कल्पना ॥३३६॥द्रव्ये न गुणभावो ऽस्ति विनाद्रव्याभिधायिताम् ।आकृतौ वा प्रधानत्वम् अत एवं समर्थ्यते ॥३३७॥कैश् चिद् गुणप्रधानत्वं नामाख्यातवद् इष्यते ।न वृत्तिवत् परार्थस्य गुणभावस् तु वर्ण्यते ॥३३८॥गुणभूतस्य नानात्वाद् आकृतेर् एकशब्दता ।सिद्धो वचनभेदश् च द्रव्यभेदसमन्वयात् ॥३३९॥साधनं गुणभावेन क्रियाया भेदकं यथा ।आख्यातेष्व् एकशब्दाया जातेर् द्रव्यं तथोच्यते ॥३४०॥एकत्वे तुल्यरूपत्वाच् छब्दानां प्रतिपादने ।निमित्तात् तद्वतो ऽर्थस्य विशिष्टग्रहणे सति ॥३४१॥सो ऽयम् इत्य् अभिसंबन्धाद् आश्रयैर् आकृतेः सह ।प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥३४२॥प्राक् च जात्यभिसंबन्धात् सर्वनामाभिधेयता ।वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥३४३॥पाकौ पाका इति यथा भेदकः कैश् चिद् आश्रयः ।इष्यते चानुपादानो धर्मो ऽसौ गुणवाचिनाम् ॥३४४॥आश्रयस्यानुपादाने केवलं लभते यदि ।आधारधर्मान् सामान्यं पुरस्तात् तद् विचारितम् ॥३४५॥जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।अशब्दवाच्यात् संबन्धाद् व्यक्तिर् अप्य् उपजायते ॥३४६॥सो ऽयम् इत्य् अभिसंबन्धाज् जातिधर्मोपचर्यते ।द्रव्यं तदाश्रयो भेदो जातेश् चाभ्युपगम्यते ॥३४७॥मञ्चशब्दो यथाधेयं मञ्चेष्व् एव व्यवस्थितः ।तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥३४८॥तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।जातिर् उत्सृष्टसंख्या तु द्रव्यात्मन्य् अनुषज्यते ॥३४९॥अस्येदम् इति वा यत्र सो ऽयम् इत्य् अपि वा श्रुतिः ।वर्तते परधर्मेण तद् अन्यद् अभिधीयते ॥३५०॥यत् प्रधानं न तस्यास्ति स्वरूपम् अनिरूपनात् ।गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥३५१॥गुणस्य भेदकाले तु प्राधान्यम् उपजायते ।संसर्गश्रुतिर् अर्थेषु साक्षाद् एव न वर्तते ॥३५२॥जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।जातेर् एव पदार्थत्वं न तदाभ्युपगम्यते ॥३५३॥प्रवृत्तानां पुनर् वृत्तिर् एकत्वेनोपवर्ण्यते ।प्रतिपत्तेर् उपायेषु न तत्त्वम् अनुगम्यते ॥३५४॥अपृथक्शब्दवाच्यस्य जातिर् आश्रीयते यदा ।द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥३५५॥द्रव्यस्य सति संस्पर्शे द्रव्यम् आश्रीयते यदा ।वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥३५६॥अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते ।यदा संबन्धवज् जातिः सापि द्रव्यपदार्थता ॥३५७॥अत्यन्तभिन्नयोर् एव जातिद्रव्याभिधायिनोः ।अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥३५८॥आश्रिते त्व् आश्रयकृतं भेदम् अभ्युपगच्छता ।पुनश् चाप्य् एकशब्दत्वं जातिशब्दे ऽनुवर्णितम् ॥३५९॥अनिर्जातस्य निर्ज्ञानं येन तन् मानम् उच्यते ।प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥३६०॥अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।साकल्येनापरिज्ञानाद् उपमानं तद् उच्यते ॥३६१॥द्वयोः समानयोर् धर्म उपमानोपमेययोः ।समास उपमानानां शब्दैस् तदभिधायिभिः ॥३६२॥आधारभेदाद् भेदो यः श्यामत्वे सो ऽविवक्षितः ।गुणो ऽसाव् आश्रितैकत्वो भिन्नाधारः प्रतीयते ॥३६३॥गुणयोर् नियतो भेदो गुणजातेस् तथैकता ।एकत्वे ऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥३६४॥जातिमात्रव्यपेक्षायाम् उपमार्थो न कश् चन ।श्यामत्वम् एकं गुणयोर् उभयोर् अपि वर्तते ॥३६५॥येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते ।स हेतुर् देवदत्तायाः प्रत्यये न विशिष्यते ॥३६६॥आश्रयाद् यो गुणे भेदो जातेर् या चाविशिष्टता ।ताभ्याम् उभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥३६७॥सो ऽयम् एकत्वनानात्वे व्यवहारः समाश्रितः ।भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥३६८॥श्यामेत्य् एवाभिधियेत जातिमात्रे विवक्षिते ।शस्त्र्यादिनाम् उपादाने तत्र नास्ति प्रयोजनम् ॥३६९॥अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।श्यामेषु केषु चिद् वृत्तिर् यस्य सो ऽत्र व्यपेक्ष्यते ॥३७०॥श्यामेषु केषु चित् किं चित् किं चित् सर्वत्र वर्तते ।सामान्यं कश् चिद् एकस्मिञ् छ्यामे भेदो व्यवस्थितः ॥३७१॥तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु ।गन्धानां सति भेदे तु सादृश्यम् उपलभ्यते ॥३७२॥गुणानाम् आश्रयाद् भेदः स्वतो वाप्य् अनुगम्यते ।अनिर्देश्याद् विशेषाद् वा संकराद् वा गुणान्तरैः ॥३७३॥उपमानं प्रसिद्धत्वात् सर्वत्र व्यतिरिच्यते ।उपमेयत्वम् आधिक्ये साम्ये वा न निवर्तते ॥३७४॥अन्यैस् तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।अनिर्ज्ञातस्वरूपो हि ज्ञेयो ऽर्थस् तेन मीयते ॥३७५॥मितस् तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥३७६॥रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।भिन्नेन यस्य भेद्यानाम् उपमानं तद् उच्यते ॥३७७॥धर्मः समानः श्यामादिर् उपमानोपमेययोः ।आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥३७८॥शस्त्रीकुमार्योः सदृशः श्याम इत्य् एवम् आश्रिते ।व्यपदेश्यम् अनेनेति निमित्तं गुणयोः स्थितम् ॥३७९॥यदा निमित्तैस् तद्वन्तो गच्छन्तीव तदात्मताम् ।भेदाश्रयं तदाख्यानम् उपमानोपमेययोः ॥३८०॥तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।लुप्तोपमानि तान्य् आहुस् तद्धर्मेण समाश्रयात् ॥३८१॥शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥३८२॥शस्त्रिं स्वेन गुणेनातो मिमानाम् आश्रयान्तरम् ।असमाप्तगुणं सिद्धेर् उपमानं प्रचक्षते ॥३८३॥उपमेये स्थितो धर्मः श्रुतो ऽन्यत्रानुमीयते ।श्रुतो ऽथ वोपमानस्थ उपमेये ऽनुमियते ॥३८४॥अधीयते ब्राह्मणवत् क्षत्रिया इति दृश्यते ।उपमेयस्य भिन्नत्वाद् वचनं क्षत्रियाश्रयम् ॥३८५॥साधारणं ब्रुवन् धर्म क्व चिद् एव व्यवस्थितम् ।सामान्यवचनः शब्द इति सूत्रे ऽपदिश्यते ॥३८६॥नाभेदेन न भेदेन गुणो द्विष्ठो ऽभिधीयते ।भिन्नयोर् धर्मयोर् एकः श्रूयते ऽन्यः प्रतीयते ॥३८७॥नात्यन्ताय मिमीते यत् सामान्ये समवस्थितम् ।सादृश्याद् उपमेयार्थ- समीपे परिकल्प्यते ॥३८८॥मानं प्रति समीपं वा सादृश्येन प्रतीयते ।परिच्छेदाद् धि सादृश्यम् इह मानोपमानयोः ॥३८९॥एकजातिव्यपेक्षायां तद् एवेत्य् अवसीयते ।भेदस्यैव व्यपेक्षायाम् अन्यद् एवेति गम्यते ॥३९०॥कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।अत्यन्तैकत्वविषयो न स्यात् तेनात्र सम्शयः ॥३९१॥भेदे ऽपि तुल्यरूपत्वाच् छालीम्ं तान् इति दृश्यते ।जात्यभेदात् स एवायम् इति भिन्नो ऽभिधीयते ॥३९२॥कथं ह्य् अवयवो ऽन्यस्य स्याद् अन्य इति चोच्यते ।अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥३९३॥अभेदस्य विवक्षायाम् एकत्वं सङ्घसङ्घिनोः ।सङ्घिनोर् न त्व् अभेदो ऽस्ति तथान्यत्वम् उदाहृतम् ॥३९४॥तत्राभिन्नव्यपेक्षायाम् उपमार्थो न विद्यते ।यो हि गौर् इति विज्ञाने हेतुः सो ऽस्ति गवान्तरे ॥३९५॥व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।न कश् चिद् उपकारो ऽस्ति बुद्धेर् बुद्ध्यन्तरं प्रति ॥३९६॥किं चिद् यत्रास्ति सामान्यं यदि भेदाश् च के चन ।गोत्वं गोष्व् अस्ति सामान्यं भेदाश् च शबलादयः ॥३९७॥सामान्यं श्यामतान्यैव तद् धि साधारणं द्वयोः ।तद् एव सिद्ध्यसिद्धिभ्यां भेद इत्य् अपदिश्यते ॥३९८॥श्यामत्वम् एव सामान्यम् अन्येषाम् उभयोः स्थितम् ।संपूर्नत्वात् तद् अन्यस्माद् विशेष इति गम्यते ॥३९९॥आकृतौ वापि सामान्ये क्व चिद् एव व्यवस्थिताः ।श्यामादौ ये ऽवसीयन्ते विशेषास् त इहाश्रिताः ॥४००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP