पदकांड - संप्रदानाधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


अनिराकरणात् कर्तुस् त्यागा"न्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥१२९॥

हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यम् उच्यते ॥१३०॥

भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।
परस्या"न्गस्य कर्मत्वान् न क्रियाग्रहणं कृतम् ॥१३१॥

क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात् स्वाख्ययैवोपचर्यते ॥१३२॥

भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद् गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥१३३॥

विकल्पेनैव सर्वत्र संज्ञे स्याताम् उभे यदि ।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥१३४॥

त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजते क्रिया ॥१३५॥

[इति संप्रदानाधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP