संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| वृत्तिसमुद्देशः ६ पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - वृत्तिसमुद्देशः ६ संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण वृत्तिसमुद्देशः ६ Translation - भाषांतर न हि ब्राह्मण इत्य् अत्र भेदः कश् चिद् अपाश्रितः ।अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥५०१॥क्रिया त्व् आश्रीयते यस्मिन् स भेदो ऽध्यवसीयते ।तथान्यथा सर्वथा चेत्य् अप्रयोगे न विद्यते ॥५०२॥उपमाने क्रियावृत्तिम् उपमेये क्रियाश्रुतिः ।प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥५०३॥व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।क्रियावद्वचनाच् छब्दात् प्रत्ययः प्रतिपाद्यते ॥५०४॥क्रियावतो ऽपि सादृश्ये वक्तुम् इष्टे क्रियावता ।अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥५०५॥अधीते तुल्य इत्य् एवं पुंल्लिङ्गेन विशेषणम् ।क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥५०६॥प्रकृत्यर्थे विशिष्टे ऽपि प्रत्ययार्थाविशेषणात् ।पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥५०७॥याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः ।ताभिः क्रियावतः पुत्राद् गुणतुल्ये वतिर् भवेत् ॥५०८॥अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्य् अपि ।क्रियास् तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥५०९॥क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।प्रधानानुग्रहात् साम्याद् विभक्तेश् चावतिष्ठते ॥५१०॥प्रकृतेर् अविशिष्टत्वात् क्रियातुल्ये प्रसज्यते ।पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥५११॥स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।अनिमित्तं वतेस् तुल्यं यातीत्य् अत्रेष्यते वतिः ॥५१२॥द्वयं विशेष्यते तेन यद् एकत्र विशेषणं ।तुल्यशब्दो हि तं धर्मम् उभयस्थम् अपेक्षते ॥५१३॥एकः समानो धर्मश् चेद् उपमानोपमेययोः ।तुलया संमितं तुल्यम् इति तत्रोपपद्यते ॥५१४॥सूत्रे श्रुतश् च द्विष्ठो ऽसाव् अभेदेन प्रतीयते ।न च सामान्यशब्दत्वाद् अश्रुता गम्यते क्रिया ॥५१५॥अश्रुताश् च प्रतीयन्ते निदेशस्थायितादयः ।ये धर्मा नियतास् तेषां पुत्रादिषु न विद्यते ॥५१६॥अनाश्रितक्रियस् तस्मान् न तुल्यो ऽस्ति क्रियावता ।क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥५१७॥द्वयोः प्रतिविधानाच् च ज्यायस्त्वम् अभिधीयते ।नित्यासत्त्वाभिधायित्वात् प्रत्ययार्थविशेषणे ॥५१८॥असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥५१९॥क्रियावतस् तु ग्रहणात् प्रकृत्यर्थविशेषणे ।क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥५२०॥यदा क्रियानिमित्तं तु सादृश्यं स्यात् क्रियावतोः ।क्रियावतो ऽभिधेयत्वात् तदा द्रव्याभिधायिता ॥५२१॥अव्ययेषु वतेः पाठः कार्यस् तत्र स्वरादिवत् ।ब्राह्मणेन समो ऽध्येतेत्य् अत्र च प्रत्ययो भवेत् ॥५२२॥सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।तुल्यम् इत्य् अन्यथा कल्प्यो वाक्यशेषो ऽश्रुतो भवेत् ॥५२३॥क्रियावतोश् च सादृश्ये प्रत्ययार्थविशेषणे ।अध्येत्रा सदृशो ऽध्येतेत्य् अत्र नास्ति वतेर् विधिः ॥५२४॥तुल्यार्थैर् इति या तस्यास् तृतीयाया न भिद्यते ।अर्थो भेदे ऽपि सर्वाभिर् इतराभिर् विभक्तिभिः ॥५२५॥भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना ।पश्यति ब्राह्मणम् इव तुल्यं विप्रेण पश्यति ॥५२६॥ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥५२७॥ब्राह्मणाद् इव वैश्यात् त्वम् अधीष्वाध्ययनं बहु ।इत्य् एवमादिभिर् भेदस् तृतीयाया न कश् चन ॥५२८॥तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।मधुरायाश् च मातुश् च कथं सादृश्यकल्पना ॥५२९॥मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।मधुरामातृशब्दाभ्याम् अभेदेनाभिधीयते ॥५३०॥उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर् यथा ।वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥५३१॥यथाध्ययनयोः साम्यम् अध्येत्रोर् अपदिश्यते ।तथा क्रियागतैर् धर्मैर् उच्यन्ते साधनाश्रयाः ॥५३२॥इवार्थे यच् च वचनं पूर्वसूत्रे च यो विधिः ।क्रियाशब्दश्रुतौ भेदो न कश् चिद् विद्यते तयोः ॥५३३॥यद्य् अप्य् उपाधिर् अन्यत्र नियतो न प्रयुज्यते ।रूपाभेदात् त्व् अनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥५३४॥यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।सत्य् अपि प्रत्ययार्थत्वे भेदाभावाद् उदाहृताः ॥५३५॥एवं च सति पूर्वेण सिद्धो ऽत्रापि वतेर् विधिः ।नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥५३६॥इवे द्रव्यादिविषयः प्रत्ययः पुनर् उच्यते ।क्रियाणाम् एव सदृश्वे पूर्वसूत्रे विधीयते ॥५३७॥मधुरायाम् इव गृहा ब्राह्मणस्येव पाण्डुराः ।इत्य् अत्र द्रव्यगुणयोः पूर्वेण न वतिर् भवेत् ॥५३८॥आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।ऋते क्रियाया ग्रहणात् पूर्वयोगेन सिध्यति ॥५३९॥मधुरावयवे वृत्तिर् व्वाख्याता मधुराश्रुतेः ।ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥५४०॥न का चिद् इवयोगे तु बाह्यात् संबन्धिनो ।षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥५४१॥आधिक्यं तुल्यशब्देन संबन्ध उपजायते ।षष्ठीतृतीये तत्र स्तस् तुल्यशब्दो हि वाचकः ॥५४२॥इवशब्दप्रयोगे तु बाह्यात् संबन्धिनो विना ।नाधिक्यम् उपमाने ऽस्ति द्योतकः स प्रयुज्यते ॥५४३॥इवे यो व्यतिरेको ऽत्र स प्रासादादिहेतुकः ।तुल्ये तद्विषयापेक्षम् आधिक्यम् उपजायते ॥५४४॥गवयेन समो ऽनद्वान् इति वृत्तिस् तथा भवेत् ।न त्व् अस्ति गौर् इवेत्य् अत्र व्यतिरेक इवाश्रयः ॥५४५॥उपमेयेन संबन्धात् प्राक् प्रासादादिहेतुके ।व्यतिरेके वतेर् भावो न तुल्यार्थत्वहेतुके ॥५४६॥इवशब्देन संबन्धे न तृतीया विधीयते ।प्रकृतां ताम् अतस् त्यक्त्वा विभक्त्यन्तरं आश्रितम् ॥५४७॥सप्तम्य् अपि न तत्रास्ति ज्ञापकार्था तु सा कृता ।इष्टा सा शेषविषये नियतासु विभक्तिषु ॥५४८॥यदि तु व्यतिरेकेण विषये ऽस्मिन् विभक्तयः ।प्रवर्तेरंस् तृतीयैव व्यभिचारं प्रदर्शयेत् ॥५४९॥व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद् विना ।सप्तम्य् एवोच्यते सर्वा न सन्त्य् अन्या विभक्तयः ॥५५०॥अत्यन्तम् अत्र विषये सप्तम्या ज्ञापकार्थया ।बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥५५१॥पूर्वाभ्याम् एव योगाभ्यां विग्रहान्तरकल्पनात् ।अर्हार्थे ऽपि वतिः सिद्धः स त्व् एकेन निदर्श्यते ॥५५२॥तेन तुल्यम् इति प्राप्ते क्रियोपाधिः प्रसिध्यति ।राजवद् वर्तते राजेत्य् अत्र भेदे विवक्षिते ॥५५३॥राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।युधिष्ठिरान्तास् ते ऽन्येषाम् उपमानं महीक्षिताम् ॥५५४॥सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।सर्वत्रैव यतो ऽसिद्धं प्रसिद्धेनोपमीयते ॥५५५॥राजवद् रूपम् अस्येति राजन्य् एव विवक्षिते ।अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥५५६॥उपमानाविवक्षायां नियमार्थो ऽयम् उच्यते ।धर्मो ऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥५५७॥कृतहस्तवद् इत्य् एतत् प्रसिद्धेष्व् एव दृश्यते ।राजत्वेन प्रसिद्धे च राज्ञि राजवद् इत्य् अपि ॥५५८॥अराज्ञि येषां धर्माणां दृष्टो ऽत्यन्तम् असंभवः ।ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥५५९॥अर्हतेश् च क्रिया कर्त्री या तस्यां वतिर् इष्यते ।राजानम् अर्हति च्छत्त्रम् इति न त्व् एवमादिषु ॥५६०॥प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥५६१॥तदर्हम् इति नारब्धं सूत्रं व्याकरणान्तरे ।संभवत्य् उपमात्रापि भेदस्य परिकल्पनात् ॥५६२॥एकस्य कार्यनिर्ज्ञानात् सिद्धस्य विषयान्तरे ।तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥५६३॥सूत्रारम्भान् न चैतस्माद् इवशब्दस्य विद्यते ।प्रयोगः सो ऽपि चैतस्य विषये विद्यते वतेः ॥५६४॥दस्युहेन्द्र इवेत्य् एतद् ऐन्द्रमन्त्रे प्रयुज्यते ।अन्यत्र दृष्टकर्मेन्द्रो यथेत्य् अस्मिन् विवक्षिते ॥५६५॥पूर्वाम् अवस्थाम् आश्रित्य यावस्था व्यपदिश्यते ।सदृशस् त्वं तवैवेति तत्रैवम् अभिधीयते ॥५६६॥प्रसिद्धभेदं यत्रान्यद् उपमानं न विद्यते ।उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥५६७॥यो ऽपि स्वाभाविको भेदः सो ऽपि बुद्धिनिबन्धनः ।तेनास्मिन् विषये भिन्नम् अभिन्नं वा न विद्यते ॥५६८॥अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः ।चैत्रम् ईदृशम् इत्य् आह बुद्ध्यवस्थापरिग्रहात् ॥५६९॥एतैः शब्दैर् यथाभूतः प्रत्ययात्मोपजायते ।तत्प्रत्ययानुकारेण विषयो ऽप्य् उपपद्यते ॥५७०॥बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।जन्यन्त इव शब्दानाम् अर्थाः सर्वे विवक्षया ॥५७१॥तथाविधे ऽपि बाह्ये ऽर्थे भिद्यन्ते यत्र बुद्धयः ।न तत्र कश् चित् सादृश्यं सद् अपि प्रतिपद्यते ॥५७२॥अत्यन्तं विषये भिन्ने यावत् प्रख्या न भिद्यते ।न तावत् प्रत्यभिज्ञानं कस्य चिद् विनिवर्तते ॥५७३॥अयम् एव तु सूत्रेण भेदो भेदेन दर्शितः ।प्रसिद्धम् अपि दुर्ज्ञानम् अबुधः प्रतिपद्यते ॥५७४॥वैयाकरणवद् ब्रूते न वैयाकरणः सदा ।वैयाकरणवद् ब्रूष्वेत्य् अतः सो ऽप्य् अभिधीयते ॥५७५॥के चित् पुमांसो भाषन्ते स्त्रीवत् पुंवच् च योषितः ।व्यभिचारे स्वधर्मो ऽपि पुनस् तेनोपदिश्यते ॥५७६॥सदृशस् त्वं तवैवेति लोके यद् अभिधीयते ।उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥५७७॥युक्तम् औपयिकं राज्ञ इत्य् अर्थस्य निदर्शने ।उपमानाविवक्षायां तदर्हम् इति पठ्यते ॥५७८॥प्रसक्तानुप्रसक्तस् तु वतिशेषो ऽभिधीयते ।उपमानाभिसंबन्धाद् अस्मिन् वतिर् उदाहृतः ॥५७९॥प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् ।उपसर्गाद् वतौ सिद्धा धातौ धात्वर्थकल्पना ॥५८०॥स्वं रूपम् इति चैतस्मिन्न् अर्थस्यापि परिग्रहः ।रूपवज् ज्ञापितस् तस्माद् आसन्नो ऽर्थो ग्रहीष्यते ॥५८१॥धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।धातुना कृतम् इत्य् एवम् अस्मिन् सूत्रे प्रतीयते ॥५८२॥यः शब्दश् चरितार्थत्वाद् अत्यन्तं न प्रयुज्यते ।विषये ऽदर्शनात् तत्र लोपस् तस्याभिधीयते ॥५८३॥क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥५८४॥प्रत्ययेन विना प्रादिस् तत्रार्थे न प्रयुज्यते ।भेदेन तु समाख्याने विभागः परिकल्पितः ॥५८५॥अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।विभक्तिभिर् नियोगः स्याद् यथैव तसिलादिषु ॥५८६॥पाठाद् यैर् अविभक्तित्वं वत्यन्तेष्व् अनुगम्यते ।तेषाम् उद्वत इत्य् अत्र वक्तव्या सविभक्तिता ॥५८७॥वत्यर्थं नावगाहेते पुंवद् इत्य् अस्य दर्शनात् ।नञ्स्नञाव् अपवादस्य बाधकं तन् निपातनम् ॥५८८॥एतम् उत्क्रामतो नूनं वत्यर्थं नञ्स्नञाव् इति ।तयोः प्रवृत्ताव् उत्सर्गो बाधनान् नोपपद्यते ॥५८९॥नञ्स्नञौ विहितौ येन स योगो नावगाहते ।वतिप्रकरणं तद् धि लिङ्गम् एवं समर्थ्यते ॥५९०॥अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।ऊहस् तथोपमानानाम् अङ्गवन् नोपलभ्यते ॥५९१॥गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।पशू रुद्र इव ह्य् एताव् इत्य् एकवचनश्रुतिः ॥५९२॥उपमानस्य भेदाच् च बहुषु स्याद् अञो विधिः ।काश्यपा इति लोपः स्यात् तथा प्रतिकृतिष्व् अपि ॥५९३॥एवं तु युक्तवद्भावाद् अत्रैकवचनं भवेत् ।लुम् मनुष्ये तथोक्तं स्याल् लिङ्गस्यैकस्य सिद्धये ॥५९४॥उपमेयेषु भिन्नेषु किं चिद् एकं प्रवर्तते ।प्रत्ययस्य विधौ तत्र नित्यं युक्तवद् इष्यते ॥५९५॥यदा प्रत्युपमेयं तु तद् एकैकम् अवस्थितम् ।तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥५९६॥यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥५९७॥प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।अर्थभेदो लुबन्तेषु नैवं कश् चन दृश्यते ॥५९८॥येषूपमेयवचनः शब्दो ऽन्यो न प्रयुज्यते ।उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥५९९॥यथा गुडतिलादीनां प्रयोगाद् एकसंख्यता ।पाकादेर् अप्रयोगे तु भिन्ना संख्याभिधीयते ॥६००॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP