संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| कर्माधिकारः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - कर्माधिकारः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण कर्माधिकारः Translation - भाषांतर निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।तत्रेप्सिततमं कर्म चतुर्धान्यत् तु कल्पितम् ॥४५॥औदासीन्येन यत् प्राप्यं यच् च कर्तुर् अनीप्सितम् ।संज्ञान्तरैर् अनाख्यातं यद् यच् चाप्य् अन्यपूर्वकम् ॥४६॥सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥४७॥प्रकृतेस् तु विवक्षायां विकार्यं कैश् चिद् अन्यथा ।निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥४८॥यद् असज् जायते सद् वा जन्मना यत् प्रकाश्यते ।तन् निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥४९॥प्रकृत्युच्छेदसंभूतं किं चित् काष्ठादिभस्मवत् ।किं चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥५०॥क्रियाकृता विशेषाणां सिद्धिर् यत्र न गम्यते ।दर्शनाद् अनुमानाद् वा तत् प्राप्यम् इति कथ्यते ॥५१॥विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।केषां चित् तदभिव्यक्ति- सिद्धिर् दृष्टिविषादिषु ॥५२॥आभासोपगमो व्यक्तिः सोढत्वम् इति कर्मणः ।विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥५३॥निर्वर्त्यादिषु तत् पूर्वम् अनुभूय स्वतन्त्रताम् ।कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥५४॥तद्व्यापारविवेके ऽपि स्वव्यापारे व्यवस्थितम् ।कर्मापदिष्टांल्लभते क्व चिच् छास्त्राश्रयान् विधीन् ॥५५॥निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।निवर्तमाने कर्मत्वे स्वे कर्तृत्वे ऽवतिष्ठते ॥५६॥तानि धात्वन्तराण्य् एव पचिसिध्यतिवद् विदुः ।भेदे ऽपि तुल्यरूपत्वाद् एकत्वपरिकल्पना ॥५७॥एकदेशे समूहे च व्यापाराणां पचादयः ।स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥५८॥न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।न्यग्भावना न्यग्भवनं ण्यन्ते ऽपि प्रतिपद्यते ॥५९॥अवस्थां पञ्चमीम् आहुर् ण्यन्ते तां कर्मकर्तरि ।निवृत्तप्रेषणाद् धातोः प्राकृते ऽर्थे णिज् उच्यते ॥६०॥ब्रवीति पचतेर् अर्थं सिध्यतिर् न विना णिचा ।स ण्यन्तः पचतेर् अर्थे प्राकृते व्यवतिष्ठते ॥६१॥केषां चिद् देवदत्तादेर् व्यापारो यः सकर्मके ।स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥६२॥निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥६३॥सदृशादिषु यत् कर्म- कर्तृत्वं प्रतिपद्यते ।आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥६४॥कुतश् चिद् आहृत्य पदम् एवं च परिकल्पने ।कर्मस्थभावकत्वं स्याद् दर्शनाद्यभिधायिनाम् ॥६५॥विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।क्रियाव्यवस्था त्व् अन्येषां शब्दैर् एव प्रकाश्यते ॥६६॥कालभावाध्वदेशानाम् अन्तर्भूतक्रियान्तरैः ।सर्वैर् अकर्मकैर् योगे कर्मत्वम् उपजायते ॥६७॥आधारत्वम् इव प्राप्तास् ते पुनर् द्रव्यकर्मसु ।कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वम् उत्तरम् ॥६८॥अतस् तैः कर्मभिर् धातुर् युक्तो ऽद्रव्यैर् अकर्मकः ।लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥६९॥सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।धात्वर्थोद्देशभेदेन तन् नेप्सिततमं किल ॥७०॥प्रधानकर्म कथितं यत् क्रियायाः प्रयोजकम् ।तत्सिद्धये क्रियायुक्तम् अन्यत् त्व् अकथितं स्मृतम् ॥७१॥दुह्यादिवन् नयत्यादौ कर्मत्वम् अकथाश्रयम् ।आख्यातानुपयोगे तु नियमाच् छेष इष्यते ॥७२॥अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस् तथा ॥७३॥करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।कर्मणो ऽपि स्वकक्ष्यायां न स्याद् अतिशयस् तथा ॥७४॥कर्मणस् त्व् आप्तुम् इष्टत्व आश्रिते ऽतिशयो यतः ।आश्रीयते ततो ऽत्यन्तं भेदः पूर्वेण कर्मणा ॥७५॥णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।न दुह्यादौ तथा कर्ता निष्क्रियो ऽपि प्रयुज्यते ॥७६॥भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् ।शब्दान्तरत्वान् नैवास्ति संस्पर्शस् तस्य धातुना ॥७७॥यथैवैकम् अपादानं शास्त्रे भेदेन दर्शितम् ।तथैकम् एव कर्मापि भेदेन प्रतिपादितम् ॥७८॥निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।क्रियाणाम् एव साध्यत्वात् सिद्धरूपो ऽभिधीयते ॥७९॥अहितेषु यथा लौल्यात् कर्तुर् इच्छोपजायते ।विषादिषु भयादिभ्यस् तथैवासौ प्रवर्तते ॥८०॥प्रधानेतरयोर् यत्र द्रव्यस्य क्रिययोः पृथक् ।शक्तिर् गुणाश्रया तत्र प्रधानम् अनुरुध्यते ॥८१॥प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।यदा गुणे तदा तद्वद् अनुक्तापि प्रकाशते ॥८२॥पचाव् अनुक्तं यत् कर्म क्त्वान्ते भावाभिधायिनि ।भुजौ शक्त्यन्तरे ऽप्य् उक्ते तत् तद्धर्म प्रकाशते ॥८३॥इषेश् च गमिसंस्पर्शाद् ग्रामे यो लो विधीयते ।तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥८४॥पक्त्वा भुज्यत इत्य् अत्र केषां चिन् न व्यपेक्षते ।ओदनं पचतिः सो ऽसाव् अनुमानात् प्रतीयते ॥८५॥तथाभिनिविशौ कर्म यत् ति"नन्ते ऽभिधीयते ।क्त्वान्ते ऽधिकरणत्वे ऽपि न तत्रेच्छन्ति सप्तमीम् ॥८६॥यन् निर्वृत्ताश्रयं कर्म प्राप्तेर् अप्रचितं पुनः ।भक्ष्यादिविषयापत्त्या भिद्यमानं तद् ईप्सितम् ॥८७॥धातोर् अर्थान्तरे वृत्तेर् धात्वर्थेनोपसंग्रहात् ।प्रसिद्धेर् अविवक्षातः कर्मणो ऽकर्मिका क्रिया ॥८८॥भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥८९॥[इति कर्माधिकारः] N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP