संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| उपग्रहसमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - उपग्रहसमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण उपग्रहसमुद्देशः Translation - भाषांतर य आत्मनेपदाद् भेदः क्व चिद् अर्थस्य गम्यते ।अन्यतश् चापि लादेशान् मन्यन्ते तम् उपग्रहम् ॥१॥क्व चित् साधनम् एवासौ क्व चित् तस्य विशेषणम् ।साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥२॥क्रिया विषयभेदेन जीविकादिषु भिद्यते ।लादेशैः स क्रियाभेदो वाक्येष्व् अपि नियम्यते ॥३॥धात्वर्थस् तद्विशेषश् चाप्य् उक्तः क्व चिद् उपग्रहः ।धात्वर्थो गन्धनादिः स्याद् व्यतिहारो विशेषणम् ॥४॥क्रियाप्रवृत्ताव् आख्याता कैश् चित् स्वार्थपरार्थता ।असति वा सति वापि विवक्षितनिबन्धना ॥५॥केसां चित् कर्त्रभिप्राये णिचा सह विकल्पते ।आत्मनेपदम् अन्येसां तदर्था प्रकृतिर् यथा ॥६॥क्रीणीष्व वपते धत्ते चिनोति चिनुते ऽपि च ।आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थो ऽभिधीयते ॥७॥संविधानं पचादिनां क्व चिद् अर्थः प्रतीयते ।तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥८॥कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।तथाभूता क्रिया या हि तत्कर्ता फलभाग् यतः ॥९॥यथोपलक्ष्यते कालस् तारकादर्शनादिभिः ।तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥१०॥क्रियाविशेषवचने सामर्थ्यम् उपरुध्यते ।केसां चिद् अन्ये तु कृताः स्वरितेतो ञितस् तथा ॥११॥अनुबन्धश् च सिद्धे ऽर्थे स्मृत्यर्थम् अनुषज्यते ।तुल्यार्थेष्व् अपि चावश्यं न सर्वेष्व् एकधर्मता ॥१२॥दृशीक्ष्योः सदृशे ऽप्य् अर्थे नाभेदः प्रतिपूर्वयोः ।ण्यर्थोपादायिनस् तस्मान् न तुल्यार्थाः पचादिभिः ॥१३॥उम्भ्यर्थे वर्तमानस्य करोतेर् भिन्नधर्मणः ।ण्यर्थोपादायिता तस्मान् नियताः शब्दशक्तयः ॥१४॥तथा ह्य् अनुप्रयोगस्य करोतेर् आत्मनेपदे ।पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥१५॥एकत्वे ऽपि क्रियाख्याते साधनाश्रयसंख्यया ।भिद्यते न तु लिङ्गाख्यो भेदस् तत्र तदाश्रितः ॥१६॥तस्माद् अवस्थिते ऽप्य् अर्थे कस्य चित् प्रतिबध्यते ।शब्दस्य शक्तिः स त्व् एष शास्त्रे ऽन्वाख्यायते विधिः ॥१७॥यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः ।तत् प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥१८॥यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् ।युगपद् धर्मभेदेन धातुस् तत्र न वर्तते ॥१९॥यत्र प्रतिविधानार्थः पचिस् तत्रात्मनेपदम् ।परस्मैपदम् अन्यत्र संस्काराद्यभिधायिनि ॥२०॥संविधातुश् च सांनिध्याद् दासे धर्मो ऽनुसज्यते ।प्लक्षशब्दस्य सांनिध्यान् न्यग्रोधे प्लक्षता यथा ॥२१॥पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।छत्त्रिणा चाभिसंबन्धाच् छत्त्रिशब्दाभिधेयता ॥२२॥अर्थात् प्रतीतम् अन्योन्यं पारार्थ्यम् अविवक्षितम् ।इत्य् अयं शेषविषयः कैश् चिद् अत्रानुवर्ण्यते ॥२३॥अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।भाष्ये नोदाहृतं कस्मात् प्राप्तं तत्रात्मनेपदम् ॥२४॥प्रतीतत्वात् तदर्थस्य शेषत्वं यदि कल्प्यते ।न स्यात् प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥२५॥शुद्धे तु संविधानार्थे कैश् चिद् अत्रेष्यते कृषिः ।तद्धर्मा यजिर् इत्य् एवं न स्यात् तत्रात्मनेपदम् ॥२६॥अत्र तूपपदेनायम् अर्थभेदः प्रतीयते ।प्राप्ते विभाषा क्रियते तस्मान् नात्रात्मनेपदम् ॥२७॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP