पदकांड - शेषाधिकारः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


संबन्धः कारकेभ्यो ऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायाम् अश्रुतायां वा क्रियायां सो ऽभिधीयते ॥१५६॥

द्विष्ठो ऽप्य् असौ परार्थत्वाद् गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन् प्रधाने ऽप्य् उपयुज्यते ॥१५७॥

निमित्तनियमः शब्दात् संबन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस् तु स विशेषो ऽवरुध्यते ॥१५८॥

साधनैर् व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥१५९॥

निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥१६०॥

अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥१६१॥

प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगे ऽतः प्रधानत्वं न हीयते ॥१६२॥

सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः ।
प्राप्ताभिमुख्यो ह्य् अर्थात्मा क्रियासु विनियुज्यते ॥१६३॥

संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः ।
उद्देशेन विभक्त्यर्था वाक्यार्थात् समपोद्धृताः ॥१६४॥

विभक्त्यर्थे ऽव्ययीभाव- वचनाद् अवसीयताम् ।
अन्यो द्रव्याद् विभक्त्यर्थः सो ऽव्ययेनाभिधीयते ॥१६५॥

द्रव्यं तु यद् यथाभूतं तद् अत्यन्तं तथा भवेत् ।
क्रियायोगे ऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥१६६॥

तस्माद् यत् करणं द्रव्यं तत् कर्म न पुनर् भवेत् ।
सर्वस्य वान्यथाभावस् तस्य द्रव्यात्मनो भवेत् ॥१६७॥


[इति शेषाधिकारः]

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP