पदकांड - वृत्तिसमुद्देशः ५
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
जातेर् अभेदे भेदे वा सादृश्यं तत् प्रचक्षते ।
कश् चित् कदा चित् अर्थात्मा तथाभूतो ऽपदिश्यते ॥४०१॥
यत्रार्थे प्रत्ययाभेदो न कदा चिद् विकल्पते ।
अविद्यमानभेदत्वात् स एक इति गम्यते ॥४०२॥
यो ऽर्थ आश्रितनानात्वः स एवेत्य् अपदिश्यते ।
व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥४०३॥
जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।
व्यक्तिभागाश्रया बुद्धिस् तत्र भेदेन जायते ॥४०४॥
अन्यत्र वर्तमानं सद् भेदाभेदसमन्वितम् ।
निमित्तं पुनर् अन्यत्र नानात्वेनेव गृह्यते ॥४०५॥
आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।
स सादृश्यस्य विषय इत्य् अन्यैर् अपदिश्यते ॥४०६॥
परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।
तथान्याधिगमापेक्षम् उपमानं प्रचक्षते ॥४०७॥
गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा ।
व्यवहारास् तथौपम्यम् अप्य् अपेक्षानिबन्धनम् ॥४०८॥
श्यामत्वम् उपमाने चेद् वृत्तं वृत्तौ प्रयुज्यते ।
उपमेयं समासेन बाह्यं तत्राभिधीयते ॥४०९॥
टाबन्त एव चैत्रादौ श्यामाशब्दस् तथा भवेत् ।
सूत्रे च प्रथमाभावान् न श्यामाद्युपसर्जनम् ॥४१०॥
अथ त्व् एकविभक्तित्वाद् गुणत्वाद् वोपसर्जनम् ।
नैवं तित्तिरिकल्माष्याम् इष्टः स्त्रीप्रत्ययो भवेत् ॥४११॥
सतिशिष्टबलीयस्त्वाद् बाह्ये ङिषि च सत्य् अपि ।
उपमानस्वरो न स्यात् तस्मात् स्त्र्यन्तः समस्यते ॥४१२॥
गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।
प्रधानस्य तथा न स्याद् व्याघ्रादौ लिङ्गदर्शनम् ॥४१३॥
तस्मात् सति गुणत्वे ऽपि प्राधान्यं विग्रहान्तरे ।
नैवंजातीयकं शास्त्रे संभवत्य् उपसर्जनम् ॥४१४॥
उपमेयात्मनि श्यामो वर्तमानो ऽभिधीयते ।
उपमानेष्व् अनिर्दिष्टः सामर्थ्यात् स प्रतीयते ॥४१५॥
द्रव्यमात्रे ऽपि निर्दिष्टे चन्द्रवक्त्रे ऽनुगम्यते ।
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥४१६॥
भेदभावनयैतच् च समासे ऽप्य् उपवर्ण्यते ।
विशिष्टगुणभिन्ने ऽर्थे पदम् अन्यत् प्रयुज्यते ॥४१७॥
यदि भिन्नाधिकरणो वचनाद् अनुगम्यते ।
मृगीव चपलेत्य् अत्र पुंवद्भावो न सिध्यति ॥४१८॥
अस्त्रीपूर्वपदत्वात् तु पुंवद्भावो भविष्यति ।
यथैव मृगदुग्धादौ न चेत् स्त्र्यर्थो विवक्ष्यते ॥४१९॥
शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते ।
तस्याम् एवोभयं तस्माद् उच्यते शास्त्रविग्रहे ॥४२०॥
पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।
बह्व् अपेक्ष्यम् अतस् तस्याम् उभयप्रतिपादनम् ॥४२१॥
श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।
तत्रोपमानेतरयोः श्यामेत्य् एतद् अपेक्ष्यते ॥४२२॥
अथ श्यामेव शस्त्रीयं श्यामेत्य् एवं प्रयुज्यते ।
शस्त्री यथेयम् श्यामेति तावद् एव प्रतीयते ॥४२३॥
उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।
पृथग् द्वयोः श्रुतो ऽप्य् एष नेष्टस्वार्थस्य वाचकः ॥४२४॥
उपमेयं तु यद् वाच्यं तस्य चेत् प्रतिपादने ।
सव्यापारा गुणास् तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥४२५॥
प्रकाराधारभेदेन विशेषे समवस्थितः ।
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥४२६॥
सादृश्यमात्रं सामान्यं द्विष्ठं कैश् चित् प्रतीयते ।
गुणो भेदे ऽप्य् अभेदेन द्विवृत्तिर् वा विवक्षितः ॥४२७॥
व्यापारो जातिभागस्य द्रव्ययोर् वाभिधित्सितः ।
रूपात् सामान्यवाचित्वं प्राग् वा वृत्तेर् उदाहृतम् ॥४२८॥
व्याघ्रशब्दो यदा शौर्यात् पुरुषार्थे ऽवतिष्ठते ।
तदाधिकरणाभेदात् समासस्यास्ति संभवः ॥४२९॥
शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।
भिन्ने ऽधिकरणे वृत्तेस् तत्र नैवास्ति संभवः ॥४३०॥
सामानाधिकरण्ये ऽपि गुणभेदस्य संभवात् ।
प्रयोगः शूरशब्दस्य समासे ऽप्य् अनुषज्यते ॥४३१॥
पूजोपाधिश् च यो दृष्टः कुत्सनोपाधयश् च ये ।
तेषां भिन्ननिमित्तत्वान् नियमार्था पुनः श्रुतिः ॥४३२॥
असंभवे ऽपि वा वृत्तेः स्याद् एतल् लिङ्गदर्शनम् ।
अच्वेर् इति यथा लिङ्गम् अभावे ऽपि भृशादिषु ॥४३३॥
वत्यन्तावयवे वाक्ये यद् औपम्यं प्रतीयते ।
तत्प्रत्ययविधौ सूत्रे निर्देशो ऽयं विचार्यते ॥४३४॥
क्रियेत्य् उपाधिः प्राथम्यात् प्रकृत्यर्थस्य यद्य् अपि ।
न प्रातिपदिकं तत्र क्रियावाच्य् उपपद्यते ॥४३५॥
सत्त्ववृत्तस्य शेषे वा तृतीया साधने ऽपि वा ।
तिङाम् असत्त्ववाचित्वाद् उभयं तन् न विद्यते ॥४३६॥
पाकादयस् तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।
न क्रियेत्य् अपदिश्यन्ते कृत्वो ऽर्थप्रत्यये यथा ॥४३७॥
ये चाव्ययकृतः के चित् क्रियाधर्मसमन्विताः ।
तेषाम् असत्त्ववाचित्वं तिङन्तैर् न विशिष्यते ॥४३८॥
कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।
उपमानोपमेयत्वं तत्रात्यन्तम् असंभवि ॥४३९॥
न केवलौ द्रव्यगुणौ तद्वान् वाप्य् उपमीयते ।
शयितव्यादिभिस् तेषु नोपमार्थो ऽस्ति कश् चन ॥४४०॥
उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥४४१॥
होतव्यसदृशो होतेत्य् अत्राप्य् अर्थो न विद्यते ।
विरोधात् क्रियया तस्मात् क्रियावान् नोपमीयते ॥४४२॥
क्रिया समानजातिया तद्भावान् नोपमीयते ।
जातिभेदे ऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥४४३॥
आधारभेदाद् भिन्नायाम् उपमानस्य संभवः ।
अध्येतव्येन विप्राणां तुल्यम् अध्ययनं विशाम् ॥४४४॥
अर्थात् प्रकरणाद् वापि यत्रापेक्ष्यं प्रतीयते ।
सामर्थ्याद् अनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥४४५॥
तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।
क्रियावद् अपि कार्याणां दर्शनात् प्रत्ययो भवेत् ॥४४६॥
अतिङ्ग्रहणम् एवं तु समासस्य निवर्तकम् ।
गमनं कारकस्येति ण्वुल्य् अन्यस्मिन् न संभवेत् ॥४४७॥
सर्वस्य परिहारार्थं समुदायत्वम् आश्रितम् ।
शुद्धायाः संभवान् न स्यात् क्रियाया ब्राह्मणादिषु ॥४४८॥
उपमानविवक्षायां स्वधर्मश् च निवर्तते ।
क्रियाया न श्रुताद् यस्माद् उपमानं समाप्यते ॥४४९॥
तृतीयो ऽप्य् आश्रितो भेदो धर्मः साधारणो द्वयोः ।
व्यापारवान् न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥४५०॥
द्रव्ये वापि क्रियायां वा निमित्तात् तत् प्रकल्पते ।
क्रियाणां विद्यमानत्वाद् वृत्तिर् न स्याद् गवादिषु ॥४५१॥
अभावात् केवलायास् तु तद्वान् अर्थः प्रतीयते ।
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥४५२॥
क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥४५३॥
यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।
द्रव्यवद् गुणशब्दे ऽपि स निमित्तम् अपेक्षते ॥४५४॥
यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।
यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥४५५॥
क्रियावृत्तेस् तृतीयान्तस्य्- ऐवं चासंभवे सति ।
प्रसिद्धन्यायकरणो भाष्ये युजिर् उदाहृतः ॥४५६॥
अन्तर्भूते तु करणे प्रयोगो न पुनर् भवेत् ।
न्यायेनायुक्तम् इत्य् अत्र जीवतौ प्राणकर्मवत् ॥४५७॥
शास्त्राभ्यासाच् च भेदो ऽयम् अयुक्तम् इति वर्ण्यते ।
अशोभनम् असंबद्धम् इति रूढिर् व्यवस्थिता ॥४५८॥
विविभक्तिः प्रकृत्यर्थं प्रत्य् उपाधिः कथं भवेत् ।
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥४५९॥
विभक्त्यन्तरयोगो हि यस्य तद् विषयान्तरे ।
विभक्त्यन्तरसंबन्धः सामर्थ्याद् अनुमीयते ॥४६०॥
सारूप्यात् तु तद् एवेदम् इति तत्रोपचर्यते ।
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तद् अश्रुतम् ॥४६१॥
प्रकृतिश् चेत् तृतीयान्ता तेनेत्य् अस्मात् प्रतीयते ।
क्रियेति प्रथमान्ता सा कथं भवितुम् अर्हति ॥४६२॥
क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।
तेनेत्य् अस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥४६३॥
सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते ।
तेन यत् तत् तृतीयान्तं क्रिया चेत् सेति गम्यते ॥४६४॥
उपाधेः कस्य चिद् वाक्ये प्रयोग उपलभ्यते ।
प्रतीयमानधर्मान्यो न कदा चित् प्रयुज्यते ॥४६५॥
नीलम् उत्पलम् इत्य् अत्र न विशेष्ये न भेदके ।
कश् चित् तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥४६६॥
अत्यन्तानुगमात् तत्र न सूत्रे न च विग्रहे ।
विभक्तिपरिणामेन किं चिद् अस्ति प्रयोजनम् ॥४६७॥
तृतीयान्तं क्रियेत्य् एतद् विग्रहे न प्रयुज्यते ।
यथा दण्डः प्रहरणं क्रीडायाम् इति दृश्यते ॥४६८॥
घविधौ यच् च संज्ञायाम् इति सूत्र उदाहृतम् ।
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥४६९॥
यैर् अप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।
ते भेदे ऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥४७०॥
समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।
शब्दास् तत् त्व् अविवक्षायां समुच्चयविकल्पयोः ॥४७१॥
समुच्चयस् तु क्रियते येषु प्रत्यर्थवृत्तिषु ।
भेदाधिष्ठानया योगस् तेसां भवति संख्यया ॥४७२॥
सर्वैर् विशिष्टास् तैर् अर्थैर् जन्यन्ते सहचारिभिः ।
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस् तान् अतो विदुः ॥४७३॥
संसृष्टाः प्रत्ययेष्व् अर्थाः सर्व एवोपकारिनः ।
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥४७४॥
केवलानां तु भावानां न रूपम् अवधार्यते ।
अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥४७५॥
पूर्वशब्दप्रयोगाच् च समूहान् न निवर्तते ।
वर्तते ऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥४७६॥
समुदायाभिधायि च यदि भेदं विशेषयेत् ।
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद् भवेत् ॥४७७॥
समूहे च प्रदेशे च पञ्चाला इति दृश्यते ।
तथा विशेषणं सर्व इत्य् एतद् उपपद्यते ॥४७८॥
तथार्धपिप्पलीत्य् अत्र जात्यन्तरनिवृत्तये ।
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥४७९॥
पञ्चालानां प्रदेशो ऽपि भिन्नो जनपदान्तरात् ।
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥४८०॥
प्रसिद्धास् तु विशेषेण समुदाये व्यवस्थिताः ।
प्रदेशे दर्शनं तेषाम् अर्थप्रकरणादिभिः ॥४८१॥
यद् उपव्यञ्जनं जातेः सहचारि च कर्मसु ।
तत्र वा रूढसंबन्धं यत् प्रायेणोपलक्षितम् ॥४८२॥
समुदायः प्रदेशो वेत्य् एवं तस्मिन्न् अनाश्रिते ।
अर्थात्मन्य् अविशेषेण वर्तन्ते ब्राह्मणादयः ॥४८३॥
यश् च तुल्यश्रुतिर् दृष्टः समुदाये व्यवस्थितः ।
तेनोपचरितैकत्वं प्रदेशे ऽप्य् उपलभ्यते ॥४८४॥
संस्काराद् उपघाताद् वा वृत्तो ऽक्तपरिमाणके ।
तैलादौ जातिशब्दो ऽत्र सामर्थ्याद् अवसीयते ॥४८५॥
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥४८६॥
कृष्णादिव्यपदेशश् च सर्वावयववृत्तिभिः ।
गुणैस् ते ऽप्य् एकदेशस्थाः पटादीनां विशेषकाः ॥४८७॥
पटावयववृत्तास् तु यदा तत्र पटादयः ।
तदा तैलादिवत् तेषां जातिशब्दत्वम् उच्यते ॥४८८॥
निवृत्त्यर्था श्रुतिर् येषां भेदस् तेष्व् अनपेक्षितः ।
प्रदेशे समुदाये वा गुणो ऽन्येषां निवर्तकः ॥४८९॥
ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥४९०॥
ब्राह्मणाध्ययने वृत्तिर् यदि स्याद् ब्राह्मणश्रुतेः ।
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोर् इति ॥४९१॥
अध्येतरि यदा वृत्तिर् उच्यते ब्राह्मणश्रुतेः ।
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥४९२॥
सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना ।
चैत्रात् षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर् यथा ॥४९३॥
ब्राह्मणायेव दातव्यं वैश्यायेत्य् एवमादिषु ।
संप्रदानादियोगश् च क्रियामात्रे न कल्पते ॥४९४॥
क्रियामात्राभिधायित्वाद् अव्ययेषु वतेर् न च ।
पाठः कदा चित् कर्तव्यस् तुल्यौ पक्षाव् उभौ यतः ॥४९५॥
जहाति जातिं द्रव्यं वा तस्मान् नावयवे स्थितः ।
क्रियायास् तु श्रुतिर् यस्मात् तद्वत्य् अर्थे ऽवतिष्ठते ॥४९६॥
अक्रियाणां निवृत्त्यर्था, यतश् चात्र क्रियाश्रुतिः ।
क्रियोपलक्षिते तस्मात् क्रियाशब्दः प्रतीयते ॥४९७॥
होतव्यादिषु यस्माच् च क्रियान्या ब्राह्मणादिवत् ।
अपेक्षणीया शुद्धे ऽर्थे तस्माद् वृत्तिर् न कस्य चित् ॥४९८॥
सर्वं वाप्य् एकदेशो वा यस्मिन्न् आश्रियते क्व चित् ।
विशेषवृत्तिं तं सर्वम् आहुर् भेदे व्यवस्थितम् ॥४९९॥
समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥५००॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP