संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| द्रव्यसमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - द्रव्यसमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण द्रव्यसमुद्देशः Translation - भाषांतर आत्मा वस्तु स्वभावश् च शरीरं तत्त्वम् इत्य् अपि ।द्रव्यम् इत्य् अस्य पर्यायास् तच् च नित्यम् इति स्मृतम् ॥१॥सत्यं वस्तु तदाकारैर् असत्यैर् अवधार्यते ।असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥२॥अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥३॥सुवर्णादि यथा युक्तम् स्वैर् आकारैर् अपायिभिः ।रुचकाद्यभिधानानां शुद्धम् एवैति वाच्यताम् ॥४॥आकारैश् च व्यवच्छेदात् सार्वार्थ्यम् अवरुध्यते ।यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥५॥तेष्व् आकारेषु यः शब्दस् तथाभूतेषु वर्तते ।तत्त्वात्मकत्वात् तेनापि नित्यम् एवाभिधीयते ॥६॥न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः ।अतत्त्वम् इति मन्यन्ते तत्त्वम् एवाविचारितम् ॥७॥विकल्परूपं भजते तत्त्वम् एवाविकल्पितम् ।न चात्र कालभेदो ऽस्ति कालभेदश् चगृह्यते ॥८॥यथा विषयधर्माणां ज्ञाने ऽत्यन्तम् असंभवः ।तदात्मेव च तत् सिद्धम् अत्यन्तम् अतदात्मकम् ॥९॥तथा विकाररूपाणां तत्त्वे ऽत्यन्तम् असंभवः ।तदात्मेव च तत् तत्त्वम् अत्यम्न्तम् अतदात्मकम् ॥१०॥सत्यम् आकृतिसंहारे यद् अन्ते व्यवतिष्ठते ।तन् नित्यं शब्दवाच्यं तच् छब्दात् तच् च न भिद्यते ॥११॥न तद् अस्ति न तन् नास्ति न तद् एकं न तत् पृथक् ।न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥१२॥तन् नास्ति विद्यते तच् च तद् एकं तत् पृथक् पृथक् ।संसृष्टं च विभक्तं च विकृतं तत् तद् अन्यथा ॥१३॥तस्य शब्दार्थसंबन्ध- रूपम् एकस्य दृश्यते ।तद् दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥१४॥विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥१५॥वाच्या सा सर्वशब्दानां शब्दाश् च न पृथक् ततः ।अपृथक्त्वे च संबन्धस् तयोर् नानात्मनोर् इव ॥१६॥आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥१७॥अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।तत्त्वे जन्मादिरूपत्वं विरुद्धम् उपलभ्यते ॥१८॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP