पदकांड - पुरुषसमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


प्रत्यक्ता परभावश् चाप्य् उपाधी कर्तृकर्मनोः ।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥१॥

सद् असद् वापि चैतन्यम् एताभ्याम् अवगम्यते ।
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥२॥

बुधिजानातिचितिभिः प्रथमे पुरुषे सति ।
सम्ज्ञानार्थैर् न चैतन्य- स्योपयोगः प्रकाश्यते ॥३॥

संबोधनार्थः सर्वत्र मध्यमे कैश् चिद् इष्यते ।
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥४॥

संबोधनं न लोके ऽस्ति विधातव्येन वस्तुना ।
स्वाहेन्द्रशत्रुर् वर्धस्व यथा राजा भवेति च ॥५॥

युष्मदर्थस्य सिद्धत्वान् नियता चाद्युदात्तता ।
युष्मदः प्रथमान्तस्य परश् चेन् न पदाद् असौ ॥६॥

गुणप्रधानताभेदः पुरुशादिविपर्ययः ।
निर्देशश् चान्यथा शास्त्रे नित्यत्वान् न विरुध्यते ॥७॥

यथानिर्देशम् अर्थाः स्युर् येसां शास्त्रं विधायकम् ।
किम् चित् सामान्यम् आश्रित्य स्थिते तु प्रतिपादनम् ॥८॥

यो ऽश्वे यः पीठ इत्य् अत्र भूतयोर् अश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्व् अनुशासनम् ॥९॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP