पदकांड - वृत्तिसमुद्देशः ३
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
समुच्चयवतो ऽर्थस्य प्राधान्ये ऽप्य् अपरे विदुः ।
निमित्तानुविधायित्वाद् असिद्धिम् लिङ्गसंख्ययोः ॥२०१॥
समुच्चयो निमित्तं चेत् स्यान् निमित्तानुवर्तनम् ।
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥२०२॥
समुच्चितनिमित्तत्वे चार्थस्यापगमे ऽपि वा ।
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥२०३॥
पदान्तरस्थस्यार्थस्य द्योतकत्वान् न युज्यते ।
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस् त्व् अर्थस्य वाचकः ॥२०४॥
निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।
गुणप्रधानभावेन क्रियायोगो न कल्पते ॥२०५॥
यस्य नास्ति क्रियायोगः स्वतन्त्रो ऽसौ न विद्यते ।
अर्थो द्वन्द्वस्य तत्र स्याद् उपादानम् अनर्थकम् ॥२०६॥
समुच्चयवतो ऽर्थस्य वाचको नानुवर्तते ।
निमित्तम् अपि चास्यार्थः स्वधर्मैर् युज्यते ततः ॥२०७॥
बाह्यो नास्त्य् आश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।
समुच्चयस् तदाधारस् तद्धर्मैर् व्यपदिश्यते ॥२०८॥
यो वावयवभेदाभ्यां भेदवद्भ्याम् इवान्वितः ।
एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥२०९॥
एकश् च द्व्यात्मको ऽर्थो ऽसौ भेदाभेदसमन्वितः ।
यौ भेदाव् आश्रितस् तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥२१०॥
यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।
चैत्रशब्दो बहुव्रिहाव् अप्रयोगस् तथा भवेत् ॥२११॥
यथा गौर् इति शुक्लादेर् अभिधानं न विद्यते ।
एवं यस्याभिसंबन्धो गोभिस् तावत् प्रतीयते ॥२१२॥
संबन्धी नियतो रूढश् चित्राणां न च विद्यते ।
गवां यथा वज्रपाणिस् त्र्यक्षे वा ऽपि व्यवस्थितः ॥२१३॥
शब्दान्तरत्वाद् वाक्येषु विशेषा यद्य् अपि श्रुताः ।
वृत्तिशब्दो ऽन्य एवायं सामान्यस्याभिधायकः ॥२१४॥
अगोर् अचित्रगोश् चैव रूपभेदान् निवर्तकः ।
न चित्रगुर् विशेषाणां रूपाभेदात् तु वाचकः ॥२१५॥
यथा चित्रगुर् इत्य् एतत् प्रयुक्ते न प्रयुज्यते ।
एवं यदि स्यात् सामान्यं तस्य न स्यात् प्रतिश्रुतिः ॥२१६॥
सर्वादयो विशेषास् तु प्रदेशानां निवर्तकाः ।
यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥२१७॥
विभक्त्यर्थाभिधानाद् वा षष्ठी नानुप्रयुज्यते ।
द्रव्यस्यानभिधानात् तु तच्छब्दो ऽनुप्रयुज्यते ॥२१८॥
सामानाधिकरण्यं चेन् मतुब्लोपात् प्रकल्पते ।
मतुपो ऽपि तदर्थत्वाद् अनवस्था प्रसज्यते ॥२१९॥
संबन्धस्य च संबन्दी संबन्धो ऽन्यः प्रसज्यते ।
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥२२०॥
विभक्त्यर्थप्रधानत्वात् ततस् तत्रेति न क्रिया ।
दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥२२१॥
अन्तर्भवेच् च संबन्धः प्राधान्याभिहितः कथम् ।
स प्रातिपदिकार्थश् च तथाभूतः कथं भत्वेत् ॥२२२॥
असंभवात् तु संबन्धे संबन्धसहचारिणि ।
जातिसंख्यासमाहार- कार्याणाम् इव संभवः ॥२२३॥
सो ऽयम् इत्य् अभिसंबन्धाद् विशिष्टाश्रयवाचिनाम् ।
शुक्लादिवल् लिङ्गसंख्ये शास्त्रारम्भाद् भविष्यतः ॥२२४॥
भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर् भवेत् ॥२२५॥
साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते ।
कृत्स्नार्थवृत्तेः साधुत्वम् इत्य् अर्थग्रहणं कृतम् ॥२२६॥
सो ऽयम् इत्य् अभिसंबन्धाद् द्रव्यवृत्तिर् अयं यदा ।
सलिङ्गस्य ससंख्यस्य तदा साधुत्वम् उच्यते ॥२२७॥
अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥२२८॥
साधर्म्यम् अव्ययेन स्याद् बहुव्रीहेस् तथा सति ।
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥२२९॥
प्रयुक्तेन च संबन्धाच् चैत्रादिश्रवनं भवेत् ।
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥२३०॥
अभिधाने ऽपि संख्यायाः संख्यात्वं न निवर्तते ।
षष्ठ्यर्थस्याभिधाने तु स्यात् प्रातिपदिकार्थता ॥२३१॥
अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।
वस्त्वन्तरम् उपक्षिप्तम् इति के चित् प्रचक्षते ॥२३२॥
संबन्दिभिर् विशिष्टानाम् संबन्धानां निमित्तता ।
संबन्धैर् वा विशिष्टानां तद्वतां स्यान् निमित्तता ॥२३३॥
के चित् संयोगिनो दण्डाद् विषाणात् समवायिनः ।
तद्वति प्रत्ययान् आहुर् बहुव्रीहिं तथैव च ॥२३४॥
भिन्नं संबन्धिभेदेन संबन्धम् अपरे विदुः ।
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥२३५॥
प्रधानम् अन्यार्थतया भिन्नं स्वैर् उपसर्जनैः ।
निमित्तम् अब्बिधेयं वा सर्वपश्चाद् अपेक्ष्यते ॥२३६॥
स्वामिनि व्यतिरेकश् च वाक्ये यद्य् अपि दृश्यते ।
प्राधान्य एव तस्येष्टो बहुव्रीहिर् विवक्षिते ॥२३७॥
गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते ।
अस्यैता इति तत्रार्थे बहुव्रीहिर् न विद्यते ॥२३८॥
यदा प्रत्यवमर्शस् तु तासां स्वामी गवाम् इति ।
गोभिस् तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥२३९॥
अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये ।
निमित्तानुविधायित्वात् तद्धर्मार्थः प्रसज्यते ॥२४०॥
नाना चित्रा इति यथा निमित्तम् अनुरुध्यते ।
नानाभूते ऽपि वृत्तः सन् बहुव्रीहिस् तथा भवेत् ॥२४१॥
संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥२४२॥
संख्वावांल् लिङ्गवाम्श् चार्थो ऽभिन्नधर्मा, निमित्ततः ।
आसन्न एव द्रव्यत्वात् तद्धर्मैर् न विरुध्यते ॥२४३॥
विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।
द्रव्यं शुद्धस्य यो धर्मः स न स्याद् अन्यधर्मणः ॥२४४॥
द्रव्यमात्रस्य निर्देशे भेदो ऽयम् अविवक्षितः ।
ग्रन्थे पूर्वत्र भेदस् तु द्वितीये ऽनुप्रदर्शितः ॥२४५॥
द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।
द्रव्याश्रितत्वं हि तयोस् ततो ऽन्यस्य न सिध्यतः ॥२४६॥
संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते ।
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥२४७॥
द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्व् अवस्थितः ।
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥२४८॥
शास्त्रप्रवृत्तिभेदे ऽपि लौकिको ऽर्थो न भिद्यते ।
नञ्समसे यतस् तत्र त्रयः पक्षा विचारिताः ॥२४९॥
शब्दान्तरे ऽपि चैकत्वम् आश्रित्यैवं विचारणा ।
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥२५०॥
प्राक् समासात् पदार्थानां निवृत्तिर् द्योत्यते नञा ।
स्वभावतो निवृत्तानां रूपाभेदाद् अलक्षिता ॥२५१॥
ब्राह्मणादिस्थया वाक्येष्व् आख्यातपदवाच्यया ।
क्रियया यस्य संबन्धो वृत्तिस् तस्य न विद्यते ॥२५२॥
पाचकादिपदस्था चेन् नञा संबध्यते क्रिया ।
तत्र सत्तानुपादानात् त्रिपक्षी नोपपद्यते ॥२५३॥
सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते ।
असन्न् इति समासे ऽस्मिन् सत्तान्या परिकल्प्यताम् ॥२५४॥
क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।
विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥२५५॥
क्रियायाः साधनाधार- सामान्ये नञ् व्यवस्थितः ।
ततो विशिष्टैर् आधारैर् युज्यते ब्राह्मणादिभिः ॥२५६॥
वृत्तौ यथा गताद्यर्थम् उपादाय निरादयः ।
युज्यन्ते साधनाधारैर् नञ्समासे ऽपि स क्रमः ॥२५७॥
तत्रासति नञो वृत्तेर् ब्राह्मणक्षत्रियादिभिः ।
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥२५८॥
कामचारे च सत्य् एवम् असतः स्यात् प्रधानता, ।
गुणत्वम् इतरेषां च तेषां वा स्यात् प्रधानता ॥२५९॥
प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥२६०॥
यथा गौरादिभिस् तेषाम् अवच्छेदो विधीयते ।
असताप्य् अनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥२६१॥
यथा सत्ताभिधानाय सन्न् अर्थः परिकल्प्यते ।
तथासत्ताभिधानाय निरुपाख्यो ऽपि कल्पते ॥२६२॥
क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।
जात्या भिन्नां ततः सत्तां प्रसक्ताम् अपकर्षति ॥२६३॥
अभाव इति भावस्य प्रतिषेधे विवक्षिते ।
सोपाख्यत्वम् अनाश्रित्य प्रतिषेधो न कल्पते ॥२६४॥
अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥२६५॥
यथैकदेशकरणात् कृत इत्व् अभिधीयते ।
अकृतश् चेति संघातः स एवाब्राह्मणे क्रमः ॥२६६॥
ब्राह्मणो ऽब्राह्मणस् तस्माद् उपन्यासात् प्रसज्यते ।
अकृते वा कृतासङ्गाद् अविशिष्टं कृताकृतात् ॥२६७॥
अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये ।
शास्त्रान्वाख्यानसमये नञ् प्रयुक्तो विशेषकः ॥२६८॥
पदार्थानुपघातेन दृश्यते ऽन्यविशेषणम् ।
अथ जातिमतो ऽर्थस्य कश् चिद् धर्मो निवर्तितः ॥२६९॥
अवश्यं ब्राह्मणे कश् चित् क्व चिद् धर्मो न विद्यते ।
विशेषावचनात् तत्र नञः श्रुतिर् अनर्थिका ॥२७०॥
अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।
अन्वाख्यानाद् धि साधुत्वम् एवंभूते प्रतीयते ॥२७१॥
पदार्थानुपघातेन यद्य् अप्य् अत्र विशेषणम् ।
उपचारसतो ऽर्थस्य सावस्था द्योत्यते नञा ॥२७२॥
विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।
तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥२७३॥
निवृत्ते ऽवयवस् तस्मिन् पदार्थे वर्तते कथम् ।
नानिमित्ता हि शब्दस्य प्रवृत्तिर् उपपद्यते ॥२७४॥
आराच् छब्दवद् एकस्य विरुद्धे ऽर्थे स्वभावतः ।
शब्दस्य वृत्तिर् यद्य् अस्ति नञः श्रुतिर् अनर्थिका ॥२७५॥
अथ स्वभावो वचनाद् अन्वाख्येयत्वम् अर्हति ।
तद् वाच्यम् अप्रसिद्धत्वान् नञार्थो विनिवर्त्यते ॥२७६॥
यद्य् अप्य् उभयवृत्तित्वं प्रधानं तु प्रतीयते ।
प्रस्थानं गम्यते शुद्धे तदर्थे ऽपि न तिष्ठतौ ॥२७७॥
किमर्थम् अतथाभूते ऽसति मुख्यार्थसंभवे ।
भेदे ब्राह्मणशब्दस्य वृत्तिर् अभ्युपगम्यते ॥२७८॥
अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते ।
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥२७९॥
बुद्धेर् विषयतां प्राप्ते शब्दाद् अर्थे प्रतीयते ।
प्रवृत्तिर् वा निवृत्तिर् वा ग्रुत्या ह्य् अर्थो ऽनुसज्यते ॥२८०॥
असम्यगुपदेशाद् वा निमित्तात् संशयस्य वा ।
शब्दप्रवृत्तिर् न त्व् अस्ति लोष्टादिषु विपर्ययात् ॥२८१॥
अनेकस्माद् अस इति प्राधान्ये सति सिध्यति ।
सापेक्षत्वं प्रधानानाम् एवं युक्तं त्वतल्विधौ ॥२८२॥
एकस्य च प्रधानत्वात् तद्विशेषणसंनिधौ ।
प्रधानधर्माव्यावृत्तिर् अतो न वचनान्तरम् ॥२८३॥
प्रधानम् अत्र भेद्यत्वाद् एकार्थो विकृतो नञा ।
हित्वा स्वधर्मान् वर्तन्ते द्व्यादयो ऽप्य् एकतां गताः ॥२८४॥
ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।
द्वित्वादिषु तथैकत्वं नञ्योगाद् उपचर्यते ॥२८५॥
एकत्वयोगम् आसाद्य स धर्मः प्रतिषिध्यते ।
द्व्यादिभ्यस् तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥२८६॥
आविष्टसंख्यो वाक्ये ऽसौ यथा द्व्यादौ प्रयुज्यते ।
वृत्तौ तस्य प्रधानत्वात् सा संख्या न निवर्तते ॥२८७॥
प्रतिषेध्यो यथाभूतस् तथाभूतो ऽनुषज्यते ।
वचनान्तरयोगे हि न सो ऽर्थः प्रतिषिध्यते ॥२८८॥
अशुक्ल इति कृष्णादिर् यथार्थः संप्रतीयते ।
संख्यान्तरं तथानेक इत्य् अत्राप्य् अभिधीयते ॥२८९॥
क्रियाप्रसङ्गात् सर्वेषु कर्मस्व् अङ्गीकृतेषु च ।
एकस्मिन् प्रतिषिद्धे ऽपि प्राप्तम् अन्यत् प्रतीयते ॥२९०॥
क्रियाश्रुतिश् च प्रक्रान्ते प्रसज्यप्रतिषेधने ।
पर्युदासे तु नियतं संख्येयान्तरम् उच्यते ॥२९१॥
धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।
अर्थात् सर्वाणि कर्माणि प्राग् आक्षिप्यावतिष्ठते ॥२९२॥
निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।
अनेक इति पश्चाच् च तिष्ठतीत्य् अनुषज्यते ॥२९३॥
साध्यत्वात् तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।
प्राग् एवाङ्गीकृतं द्रव्यम् अतः पूर्वेण भिद्यते ॥२९४॥
संख्यैव प्रतिषेधेन संख्यान्तरम् अपेक्षते ।
वाक्ये ऽपि तेन नैकत्व- मात्रम् एव निवर्त्यते ॥२९५॥
स्नेहान्तराद् अवच्छेदस् तथासत्तेः प्रतीयते ।
तैलेन भोजने ऽप्राप्ते न त्व् अन्यद् उपसेचनम् ॥२९६॥
एकार्थे वर्तमानाभ्याम् असता ब्राह्मणेन च ।
यदा जात्यन्तरं बाह्यं क्षत्रियाद्य् अपदिश्यते ॥२९७॥
श्यामेव शस्त्री कन्येति यथान्यद् व्यपदिश्यते ।
असन् ब्राह्मण इत्य् आभ्यां तथान्ये क्षत्रियादयः ॥२९८॥
असास्नो गौर् इति यथा, गवयो व्यपदिश्यते ।
जात्यन्तरं न गोर् एव सस्नाभावः प्रतीयते ॥२९९॥
तुल्यरूपं यथाख्यातं कण्टकैर् भेदहेतुभिः ।
खदिरं जातिभेदेन खर्जूरात् प्रतिपद्यते ॥३००॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP