पदकांड - साधनसमुद्देशः
संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.
स्वाश्रये समवेतानां तद्वद् एवाश्रयान्तरे ।
क्रियाणाम् अभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥१॥
शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः ।
सर्वदा सर्वथा भावात् क्व चित् किं चिद् विवक्ष्यते ॥२॥
साधनव्यवहारश् च बुद्ध्यवस्थानिबन्धनः ।
सन्न् असन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥३॥
बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर् यदा ।
पुनर् विभजते वक्ता तदापायः प्रतीयते ॥४॥
शब्दोपहितरूपांश् च बुद्धेर् विषयतां गतान् ।
प्रत्यक्षम् इव कंसादीन् साधनत्वेन मन्यते ॥५॥
बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥६॥
व्यक्तौ पदार्थे शब्दादेर् जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥७॥
स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्व् अपि भावेषु कल्पनोपनिबन्धनम् ॥८॥
शक्तयः शक्तिमन्तश् च सर्वे संसर्गवादिनाम् ।
भावास् तेष्व् अस्वशब्देषु साधनत्वं निरूप्यते ॥९॥
घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥१०॥
स्वैः सामान्यविशेषैश् च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस् तास् तथाश्रयैः ॥११॥
इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् ।
यद् यदा यदनुग्राहि तत् तदा तत्र साधनम् ॥१२॥
स्वशब्दैर् अभिधाने तु स धर्मो नाभिधीयते ।
विभक्त्यादिभिर् एवासाव् उपकारः प्रतीयते ॥१३॥
निमित्तभावो भावानाम् उपकारार्थम् आश्रितः ।
नतिर् आवर्जनेत्य् एवं सिद्धः साधनम् इष्यते ॥१४॥
स तेभ्यो व्यतिरिक्तो वा तेषाम् आत्मैव वा तथा ।
व्यतिरेकम् उपाश्रित्य साधनत्वेन कल्प्यते ॥१५॥
संदर्शनं प्रार्थनायां व्यवसाये त्व् अनन्तरा ।
व्यवसायस् तथारम्भे साधनत्वाय कल्पते ॥१६॥
पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।
संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥१७॥
निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥१८॥
पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वम् उच्यते ।
अयम् अस्याम् इयं त्व् अस्माद् इति भेदो विवक्षया ॥१९॥
गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायाम् अपि संपूर्णैः स्वैर् व्यापारैः समन्विताः ॥२०॥
करणत्वादिभिर् ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यम् उत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥२१॥
यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥२२॥
तथा कर्त्रा नियुक्तेषु सर्वेष्व् एकार्थकारिषु ।
कर्तृत्वं करणत्वादेर् उत्तरं न विरुध्यते ॥२३॥
अनाश्रिते तु व्यापारे निमित्तं हेतुर् इष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥२४॥
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुर् इष्यते ॥२५॥
क्रियायै करणं तस्य दृष्टः प्रतिनिधिस् तथा ।
हेत्वर्था तु क्रिया तस्मान् न स प्रतिनिधीयते ॥२६॥
प्रातिलोम्यानुलोम्याभ्यां हेतुर् अर्थस्य साधकः ।
तादर्थ्यम् आनुलोम्येन हेतुत्वानुगतं तु तत् ॥२७॥
सर्वत्र सहजा शक्तिर् यावद्द्रव्यम् अवस्थिता ।
क्रियाकाले त्व् अभिव्यक्तेर् आश्रयाद् उपकारिणी ॥२८॥
कुड्यस्यावरणे शक्तिर् अस्यादीनां विदारणे ।
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥२९॥
स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस् तथा ॥३०॥
तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैर् असिर् यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥३१॥
प्रा"न् निमित्तान्तरोद्भूतं क्रियायाः कैश् चिद् इष्यते ।
साधनं सहजं कैश् चित् क्रियान्यैः पूर्वम् इष्यते ॥३२॥
प्रवृत्तिर् एव प्रथमं क्व चिद् अप्य् अनपाश्रिता ।
शक्तीर् एकाधिकरणे स्रोतोवद् अपकर्षति ॥३३॥
अपूर्वं कालशक्तिं वा क्रियां वा कालम् एव वा ।
तम् एवम्लक्सनम् भावम् के चिद् आहुह् कथम् च न ॥३४॥
नित्याः षट् शक्तयो ऽन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धये ऽर्थेषु जातिवत् समवस्थिताः ॥३५॥
द्रव्याकारादिभेदेन ताश् चापरिमिता इव ।
दृश्यन्ते तत्त्वम् आसां तु षट् शक्तीर् नातिवर्तते ॥३६॥
निमित्तभेदाद् एकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वम् एवाहुस् तत्प्रवृत्तेर् निबन्धनम् ॥३७॥
तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तद् उच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥३८॥
परमार्थे तु नैकत्वं पृथक्त्वाद् भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वम् एव प्रकाशते ॥३९॥
यत् पृथक्त्वम् असंदिग्धं तद् एकत्वान् न भिद्यते ।
यद् एकत्वम् असंदिग्धं तत् पृथक्त्वान् न भिद्यते ॥४०॥
द्यौः क्षमा वायुर् आदित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥४१॥
कालविच्छेदरूपेण तद् एवैकम् अवस्थितम् ।
स ह्य् अपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥४२॥
दृष्टो ह्य् अव्यतिरेके ऽपि व्यतिरेको ऽन्वये ऽसति ।
वृक्षाद्यर्थान्वयस् तस्माद् विभक्त्यर्थो ऽन्य इष्यते ॥४३॥
सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट् कर्माख्यादिभेदेन शेषभेदस् तु सप्तमी ॥४४॥
N/A
References : N/A
Last Updated : January 17, 2018
TOP