संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|वाक्यपदीय|पदकांड| काललसमुद्देशः पदकांड जातिसमुद्देश द्रव्यसमुद्देशः संबन्धसमुद्देश भूयोद्रव्यसमुद्देशः गुणसमुदेशः दिक्समुद्देशः साधनसमुद्देशः कर्माधिकारः करणाधिकारः कर्त्रधिकारः संप्रदानाधिकारः अपादानाधिकारः अधिकरणाधिकारः शेषाधिकारः क्रियासमुद्देशः काललसमुद्देशः पुरुषसमुद्देशः संख्यासमुद्देशः उपग्रहसमुद्देशः लिङ्गसमुद्देशः वृत्तिसमुद्देशः १ वृत्तिसमुद्देशः २ वृत्तिसमुद्देशः ३ वृत्तिसमुद्देशः ४ वृत्तिसमुद्देशः ५ वृत्तिसमुद्देशः ६ वृत्तिसमुद्देशः ७ पदकांड - काललसमुद्देशः संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली. Tags : bhartruharigrammerभर्तृहरिवाक्यपदीयव्याकरण काललसमुद्देशः Translation - भाषांतर व्यापारव्यतिरेकेण कालम् एके प्रचक्षते ।नित्यम् एकं विभु द्रव्यं परिमाणं क्रियावताम् ॥१॥दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।क्रियाभेदाय कालस् तु संख्या सर्वस्य भेदिका ॥२॥उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।निमित्तं कालम् एवाहुर् विभक्तेनात्मना स्थितम् ॥३॥तम् अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥४॥यदि न प्रतिबध्नीयात् प्रतिबन्धं च नोत्सृजेत् ।अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥५॥तस्यात्मा बहुधा भिन्नो भेदैर् धर्मान्तराश्रयैः ।न हि भिन्नम् अभिन्नं वा वस्तु किं चन विद्यते ॥६॥नैको न चाप्य् अनेको ऽस्ति न शुक्लो नापि चासितः ।द्रव्यात्मा स तु संसर्गाद् एवंरूपः प्रकाशते ॥७॥संसर्गिनां तु ये भेदा विशेषास् तस्य ते मताः ।स भिन्नस् तैर् व्यवस्थानां कालो भेदाय कल्पते ॥८॥विशिष्टकालसंबन्धाद् वृत्तिलाभः प्रकल्पते ।शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥९॥जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।नित्याधीनस्थितित्वाच् च स्थितिर् नियमपूर्विका ॥१०॥स्थितस्यानुग्रहस् तैस् तैर् धर्मैः संसर्गिभिस् ततः ।प्रतिबन्धस् तिरोभावः प्रहाणम् इति चात्मनः ॥११॥प्रत्यवस्थं तु कालस्य व्यापारो ऽत्र व्यवस्थितः ।काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥१२॥मूर्तीनां तेन भिन्नानाम् आचयापचयाः पृथक् ।लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥१३॥जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः ।स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥१४॥प्रतिभद्धाश् च यास् तेन चित्रा विश्वस्य वृत्तयः ।ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥१५॥विशिष्टकालसंबन्धाल् लब्धपाकासु शक्तिषु ।क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥१६॥जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते ।कुतो ऽप्य् अद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥१७॥ततस् तु समवायाख्या शक्तिर् भेदस्य बाधिका ।एकत्वम् इव ता व्यक्तीर् आपादयति कारणैः ॥१८॥अथास्मान् नियमाद् ऊर्ध्वं जातयो याः प्रयोजिकाः ।ताः सर्वा व्यक्तिम् आयान्ति स्वच्छे छाया इवाम्भसि ॥१९॥कारणानुविधायित्वाद् अथ कारण पूर्वकाः ।गुणास् तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥२०॥आश्रयाणां च नित्यत्वम् आश्रितानां च नित्यता ।ता व्यक्तीर् अनुगृह्णाति स्थितिस् तेन प्रकल्पते ॥२१॥अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।विनाशायैव तत् शृष्टम् अस्वाधीनस्थितिं विदुः ॥२२॥स्थितः संसर्गिभिर् भावैः स्वक्रियास्व् अनुगृह्यते ।नैषां सत्ताम् अनुद्गृह्य वृत्तिर् जन्मवतां स्मृता ॥२३॥जराख्या कालशक्तिर् या शक्त्यन्तरविरोधिनी ।सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥२४॥प्रयोजकास् तु ये भावाः स्थितिभागस्य हेतवः ।तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥२५॥यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥२६॥क्रिययोर् अपवर्गिण्योर् नानार्थसमवेतयोः ।संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥२७॥यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।गुरुत्वं परिमीयेत कालाद् एवं क्रियागतिः ॥२८॥जहाति सहवृत्ताश् च क्रियाः स समवस्थिताः ।व्रीहिर् यथोदकं तेन हायनाख्यां प्रपद्यते ॥२९॥प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर् या तस्य शास्वती ।तया विभज्यमानो ऽसौ भजते क्रमरूपतां ॥३०॥कर्तृभेदात् तदर्थेषु प्रचयापचयौ गतः ।समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥३१॥क्रियाभेदाद् यथैकस्मिंस् तक्षाद्याख्या प्रवर्तते ।क्रियाभेदात् तथैकस्मिन्न् ऋत्वाद्याख्योपजायते ॥३२॥आरम्भश् च क्रिया चैव निष्ठा चेत्य् अभिधीयते ।धर्मान्तराणाम् अध्यास- भेदात् सदसदात्मनः ॥३३॥यावांश् च द्व्यणुकादीनां तावान् हिमवतो ऽप्य् असौ ।न ह्य् आत्मा कस्य चिद् भेत्तुं प्रचेतुं वापि शक्यते ॥३४॥अन्यैस् तु भावैर् अन्येषां प्रचयः परिकल्प्यते ।शनैर् इदम् इदं क्षिप्रम् इति तेन प्रतीयते ॥३५॥असतश् च क्रमो नास्ति स हि भेत्तुं न शक्यते ।सतो ऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ॥३६॥क्रियोपाधिश् च सन् भूत- भविष्यद्वर्तमानताः ।एकादशाभिर् आकारैर् विभक्ताः प्रतिपद्यते ॥३७॥भूतः पञ्चविधस् तत्र भविष्यंश् च चतुर्विधः ।वर्तमानो द्विधाख्यात इत्य् एकादश कल्पनाः ॥३८॥काले निधाय स्वं रूपं प्रज्ञया यन् निगृह्यते ।भावास् ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥३९॥भाविनां चैव यद् रूपं तस्य च प्रतिबिम्बकम् ।सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥४०॥तृणपर्णलतादीनि यथा स्रोतो ऽनुकर्षति ।प्रवर्तयति कालो ऽपि मात्रा मात्रावतां तथा ॥४१॥आविश्येवानुसंधत्ते यथा गतिमतां गतीः ।वायुस् तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥४२॥अयनप्रविभागश् च गतीश् च ज्योतिषां ध्रुवा ।निवृत्तिप्रभवाश् चैव भूतानां तन्निबन्धनाः ॥४३॥मात्राणां परिणामा ये कालवृत्त्यनुपातिनः ।नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ॥४४॥रुतैर् मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।छायादिपरिणामैश् च ऋतुधामा निरूप्यते ॥४५॥निर्भासोपगमो यो ऽयं क्रमवान् इव दृश्यते ।अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ॥४६॥दूरान्तिकव्यवस्थानम् अध्वाधिकरणं यथा ।चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥४७॥तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।भेदा इव त्रयः सिद्धा यांल् लोको नातिवर्तते ॥४८॥एकस्य शक्तयस् तिस्रः कालस्य समवस्थिताः ।यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥४९॥द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।शक्तिस् तु वर्तमानाख्या भावरूपप्रकाशिनी ॥५०॥अनागता जन्मशक्तेः शक्तिर् अप्रतिबन्धिका ।अतीताख्या तु या शक्तिस् तया जन्म विरुध्यते ॥५१॥तमःप्रकाशवत् त्व् एते त्रयो ऽध्वानो व्यवस्थिताः ।अक्रमास् तेषु भावानां क्रमः समुपलभ्यते ॥५२॥द्वौ तु तत्र तमोरूपाव् एकस्यालोकवत् स्थितिः ।अतीतम् अपि केषां चित् पुनर् विपरिवर्तते ॥५३॥युगपद् वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।केषां चिद् वर्तमानत्वाच् चैति तद्वद् अतीतताम् ॥५४॥हेतुपकाराद् आक्षिप्तो वर्तमानत्वम् आगतः ।शान्तहेतूपकारः सन् पुनर् नोपैति दर्शनम् ॥५५॥द्वे एव कालस्य विभोः केषां चिच् छक्तिवर्त्मनी ।करोति याभ्यां भावानाम् उन्मीलननिमीलने ॥५६॥कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः ।के चिद् बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥५७॥ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।कालात्मानम् अनाश्रित्य व्यवहर्तुं न शक्यते ॥५८॥तिस्रो भावस्य भावस्य केषां चिद् भावशक्तयः ।ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥५९॥सत्त्वाद् अव्यतिरेकेण तास् तिस्रो ऽपि व्यवस्थिताः ।क्रमस् तास् तदभेदाच् च सदसत्त्वं न भिद्यते ॥६०॥दर्शनादर्शनेनैकं दृष्टादृष्टं तद् एव तु ।अध्वनाम् एकता नास्ति न च किं चिन् निवर्तते ॥६१॥शक्त्यात्मदेवतापक्षैर् भिन्नं कालस्य दर्शनम् ।प्रथमं तद् अविद्यायां यद् विद्यायां न विद्यते ॥६२॥अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥६३॥ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु ।कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः ॥६४॥अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।अभिन्नम् अपि शब्दस्य तत्त्वम् अप्रचयात्मकम् ॥६५॥एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥६६॥अनुनिष्पादिकल्पेन ये ऽन्तराल इव स्थिताः ।शब्दास् ते प्रतिपत्तॄणाम् उपायाः प्रतिपत्तये ॥६७॥विशिष्टम् अवधिं तं तम् उपादाय प्रकल्पते ।कालः कालवताम् एकः क्षणमासर्तुभेदभाक् ॥६८॥बुद्ध्यवग्रहभेदाच् च व्यवहारात्मनि स्थितः ।तावान् एव क्षणः कालो युगमन्वन्तराणि वा ॥६९॥प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।यद् अम्भसि प्रक्षरणं तत् कालस्यैव चेष्टितम् ॥७०॥अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।कालस्य वृत्तिर् आत्मापि तम् एवास्यानुवर्तते ॥७१॥आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥७२॥त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥७३॥व्यतिक्रमे ऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।न गन्तृगतिभेदेन मार्गभेदो ऽस्ति कश् चन ॥७४॥उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।कालस्याव्यतिपाते ऽपि ताद्धर्म्यम् इव लक्ष्यते ॥७५॥आदित्यग्रहनक्षत्र- परिस्पन्दम् अथापरे ।भिन्नम् आवृत्तिभेदेन कालं कालविदो विदुः ॥७६॥क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति ।निर्ज्ञातपरिमाणा सा काल इत्य् अभिधीयते ॥७७॥ज्ञाने रूपस्य संक्रान्तिर् ज्ञानेनैवानुसंहृतिः ।अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥७८॥भूतो घट इतीयं च सत्ताया एव भूतता ।भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥७९॥परतो भिद्यते सर्वम् आत्मा तु न विकल्प्यते ।पर्वतादिस्थितिस् तस्मात् पररूपेण भिद्यते ॥८०॥प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥८१॥व्यवधानम् इवोपैति निवृत्त इव दृश्यते ।क्रियासमूहो भुज्यादिर् अन्तरालप्रवृत्तिभिः ॥८२॥न च विच्छिन्नरूपो ऽपि सो ऽविरामान् निवर्तते ।सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥८३॥तदन्तरालदृष्टा वा सर्वैवावयवक्रिया ।सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ॥८४॥सद् असद् वापि वस्तु स्यात् तृतीयं नास्ति किं चन ।तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥८५॥निर्वृत्तिरूपम् एकस्य भेदाभावान् न कल्पते ।सद् असद् वापि तेनैकं क्रमरूपं कथं भवेत् ॥८६॥बहूनां चानवस्थानाद् एकम् एवोपलभ्यते ।यथोपलब्धि स्मरणं तत्र चाप्य् उपपद्यते ॥८७॥सदसद्रूपम् एकं स्याद् सर्वस्यैकत्वकल्पने ।निर्वृत्तिरूपं निर्वृत्तेः सामान्यम् अथ वा भवेत् ॥८८॥कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत् तथा ।आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥८९॥क्रियाप्रबन्धरूपं यद् अध्यात्मं विनिगृह्यते ।संक्रान्तरूपम् एकत्र ताम् आहुर् वर्तमानताम् ॥९०॥क्रियातिपत्तिर् अत्यन्तं क्रियानुत्पत्तिलक्षणा ।न च भूतम् अनुत्पन्नं न भविष्यत् तथाविधम् ॥९१॥प्राग् विरुद्धक्रियोत्पादान् निर्वृत्ते वा विरोधिनि ।व्यापारे ऽवधिभेदेन विषयस् तत्र भिद्यते ॥९२॥व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।भाव्य् आसीद् इति सूत्रेण तत् काले ऽन्यत्र शिष्यते ॥९३॥स्वकाल एव साधुत्वे कालभेदे गतिः कथम् ।वाक्यार्थाद् अतदर्थेषु विशिष्टत्वं न सिध्यति ॥९४॥तदर्थश् चेद् अवयवो भाविनो भूततागतिः ।न स्याद् अत्यन्तभूतत्वम् एवैकं तत्र संभवेत् ॥९५॥विशिष्टकालता पूर्वं तथापि तु विशेषणे ।आश्रयात् सो ऽन्तरङ्गत्वात् तत्र साधुर् भविष्यति ॥९६॥आमिश्र एव प्रक्रान्तः स पदार्थस् तथाविधः ।केवलस्य विमिश्रत्वं नित्ये ऽर्थे नोपपद्यते ॥९७॥शुद्धे च काले व्याख्यातम् आमिश्रे न प्रसिध्यति ।साधुत्वम् अयथाकालं तत् सूत्रेणोपदिश्यते ॥९८॥आख्यातपदवाच्ये ऽर्थे निर्वर्त्यत्वात् प्रधानता ।विशेषणं तदाक्षेपात् तत्काले व्यवतिष्ठते ॥९९॥संप्रत्ययानुकारो वा शब्दव्यापार एव वा ।अध्यस्यते विरुद्धे ऽर्थे न च तेन विरुध्यते ॥१००॥भूतं भविष्यद् इत्य् एतौ प्रत्ययौ वर्तमानताम् ।अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥१०१॥अध्वनो वर्तमानस्य विषयेण भविष्यता ।भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥१०३॥इच्छा चिकीर्शतीत्य् अत्र स्वकालम् अनुरुध्यते ।भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥१०४॥आशास्यमानतन्त्रत्वाद् आशंसायां विपर्ययः ।प्रयोक्तृधर्मः शब्दार्थे शब्दैर् एवानुशज्यते ॥१०५॥अप्छालिबीजसंयोगे वर्तते निष्पदिर् यदा ।तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ॥१०६॥फलप्रसवरूपे तु निष्पदौ भूतकालता ।धर्मान्तरेषु तद् रूपम् अध्यस्य परिकल्प्यते ॥१०७॥उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।तत्र रूपं यद् अध्यस्तं तत्कालं तत् प्रतीयते ॥१०८॥निष्पत्ताव् अवधिः कश् चित् कश् चित् प्रतिविवक्षितः ।हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥१०९॥अबहिःसाधनाधीना सिद्धिर् यत्र विवक्षिता ।तत् साधनान्तराभावात् सिद्धम् इत्य् अपदिश्यते ॥११०॥तस्माद् अवधिभेदेन सिद्धा मुख्यैव भूतता ।अनागतत्वम् अस्तित्वं हेतुधर्मव्यपेक्षणे ॥१११॥सताम् इन्द्रियसंबन्धात् सैव सत्ता विशिष्यते ।भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥११२॥अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।यः समासादनाद् भेदः स तत्र न विवक्षितः ॥११३॥योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिद् अवतिष्ठते ।स्वस्मिन्न् आत्मनि तत्रान्यद् भूतं भावि च कथ्यते ॥११४॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP