पदकांड - काललसमुद्देशः

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


व्यापारव्यतिरेकेण कालम् एके प्रचक्षते ।
नित्यम् एकं विभु द्रव्यं परिमाणं क्रियावताम् ॥१॥

दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस् तु संख्या सर्वस्य भेदिका ॥२॥

उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।
निमित्तं कालम् एवाहुर् विभक्तेनात्मना स्थितम् ॥३॥

तम् अस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥४॥

यदि न प्रतिबध्नीयात् प्रतिबन्धं च नोत्सृजेत् ।
अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥५॥

तस्यात्मा बहुधा भिन्नो भेदैर् धर्मान्तराश्रयैः ।
न हि भिन्नम् अभिन्नं वा वस्तु किं चन विद्यते ॥६॥

नैको न चाप्य् अनेको ऽस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गाद् एवंरूपः प्रकाशते ॥७॥

संसर्गिनां तु ये भेदा विशेषास् तस्य ते मताः ।
स भिन्नस् तैर् व्यवस्थानां कालो भेदाय कल्पते ॥८॥

विशिष्टकालसंबन्धाद् वृत्तिलाभः प्रकल्पते ।
शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥९॥

जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।
नित्याधीनस्थितित्वाच् च स्थितिर् नियमपूर्विका ॥१०॥

स्थितस्यानुग्रहस् तैस् तैर् धर्मैः संसर्गिभिस् ततः ।
प्रतिबन्धस् तिरोभावः प्रहाणम् इति चात्मनः ॥११॥

प्रत्यवस्थं तु कालस्य व्यापारो ऽत्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥१२॥

मूर्तीनां तेन भिन्नानाम् आचयापचयाः पृथक् ।
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥१३॥

जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥१४॥

प्रतिभद्धाश् च यास् तेन चित्रा विश्वस्य वृत्तयः ।
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥१५॥

विशिष्टकालसंबन्धाल् लब्धपाकासु शक्तिषु ।
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥१६॥

जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते ।
कुतो ऽप्य् अद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥१७॥

ततस् तु समवायाख्या शक्तिर् भेदस्य बाधिका ।
एकत्वम् इव ता व्यक्तीर् आपादयति कारणैः ॥१८॥

अथास्मान् नियमाद् ऊर्ध्वं जातयो याः प्रयोजिकाः ।
ताः सर्वा व्यक्तिम् आयान्ति स्वच्छे छाया इवाम्भसि ॥१९॥

कारणानुविधायित्वाद् अथ कारण पूर्वकाः ।
गुणास् तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥२०॥

आश्रयाणां च नित्यत्वम् आश्रितानां च नित्यता ।
ता व्यक्तीर् अनुगृह्णाति स्थितिस् तेन प्रकल्पते ॥२१॥

अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।
विनाशायैव तत् शृष्टम् अस्वाधीनस्थितिं विदुः ॥२२॥

स्थितः संसर्गिभिर् भावैः स्वक्रियास्व् अनुगृह्यते ।
नैषां सत्ताम् अनुद्गृह्य वृत्तिर् जन्मवतां स्मृता ॥२३॥

जराख्या कालशक्तिर् या शक्त्यन्तरविरोधिनी ।
सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥२४॥

प्रयोजकास् तु ये भावाः स्थितिभागस्य हेतवः ।
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥२५॥

यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।
अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥२६॥

क्रिययोर् अपवर्गिण्योर् नानार्थसमवेतयोः ।
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥२७॥

यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।
गुरुत्वं परिमीयेत कालाद् एवं क्रियागतिः ॥२८॥

जहाति सहवृत्ताश् च क्रियाः स समवस्थिताः ।
व्रीहिर् यथोदकं तेन हायनाख्यां प्रपद्यते ॥२९॥

प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर् या तस्य शास्वती ।
तया विभज्यमानो ऽसौ भजते क्रमरूपतां ॥३०॥

कर्तृभेदात् तदर्थेषु प्रचयापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥३१॥

क्रियाभेदाद् यथैकस्मिंस् तक्षाद्याख्या प्रवर्तते ।
क्रियाभेदात् तथैकस्मिन्न् ऋत्वाद्याख्योपजायते ॥३२॥

आरम्भश् च क्रिया चैव निष्ठा चेत्य् अभिधीयते ।
धर्मान्तराणाम् अध्यास- भेदात् सदसदात्मनः ॥३३॥

यावांश् च द्व्यणुकादीनां तावान् हिमवतो ऽप्य् असौ ।
न ह्य् आत्मा कस्य चिद् भेत्तुं प्रचेतुं वापि शक्यते ॥३४॥

अन्यैस् तु भावैर् अन्येषां प्रचयः परिकल्प्यते ।
शनैर् इदम् इदं क्षिप्रम् इति तेन प्रतीयते ॥३५॥

असतश् च क्रमो नास्ति स हि भेत्तुं न शक्यते ।
सतो ऽपि चात्मतत्त्वं यत् तत् तथैवावतिष्ठते ॥३६॥

क्रियोपाधिश् च सन् भूत- भविष्यद्वर्तमानताः ।
एकादशाभिर् आकारैर् विभक्ताः प्रतिपद्यते ॥३७॥

भूतः पञ्चविधस् तत्र भविष्यंश् च चतुर्विधः ।
वर्तमानो द्विधाख्यात इत्य् एकादश कल्पनाः ॥३८॥

काले निधाय स्वं रूपं प्रज्ञया यन् निगृह्यते ।
भावास् ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥३९॥

भाविनां चैव यद् रूपं तस्य च प्रतिबिम्बकम् ।
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥४०॥

तृणपर्णलतादीनि यथा स्रोतो ऽनुकर्षति ।
प्रवर्तयति कालो ऽपि मात्रा मात्रावतां तथा ॥४१॥

आविश्येवानुसंधत्ते यथा गतिमतां गतीः ।
वायुस् तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥४२॥

अयनप्रविभागश् च गतीश् च ज्योतिषां ध्रुवा ।
निवृत्तिप्रभवाश् चैव भूतानां तन्निबन्धनाः ॥४३॥

मात्राणां परिणामा ये कालवृत्त्यनुपातिनः ।
नक्षत्राख्या पृथक् तेषु चिह्नमात्रं तु तारकाः ॥४४॥

रुतैर् मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।
छायादिपरिणामैश् च ऋतुधामा निरूप्यते ॥४५॥

निर्भासोपगमो यो ऽयं क्रमवान् इव दृश्यते ।
अक्रमस्यापि विश्वस्य तत् कालस्य विचेष्टितम् ॥४६॥

दूरान्तिकव्यवस्थानम् अध्वाधिकरणं यथा ।
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥४७॥

तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धा यांल् लोको नातिवर्तते ॥४८॥

एकस्य शक्तयस् तिस्रः कालस्य समवस्थिताः ।
यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥४९॥

द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।
शक्तिस् तु वर्तमानाख्या भावरूपप्रकाशिनी ॥५०॥

अनागता जन्मशक्तेः शक्तिर् अप्रतिबन्धिका ।
अतीताख्या तु या शक्तिस् तया जन्म विरुध्यते ॥५१॥

तमःप्रकाशवत् त्व् एते त्रयो ऽध्वानो व्यवस्थिताः ।
अक्रमास् तेषु भावानां क्रमः समुपलभ्यते ॥५२॥

द्वौ तु तत्र तमोरूपाव् एकस्यालोकवत् स्थितिः ।
अतीतम् अपि केषां चित् पुनर् विपरिवर्तते ॥५३॥

युगपद् वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।
केषां चिद् वर्तमानत्वाच् चैति तद्वद् अतीतताम् ॥५४॥

हेतुपकाराद् आक्षिप्तो वर्तमानत्वम् आगतः ।
शान्तहेतूपकारः सन् पुनर् नोपैति दर्शनम् ॥५५॥

द्वे एव कालस्य विभोः केषां चिच् छक्तिवर्त्मनी ।
करोति याभ्यां भावानाम् उन्मीलननिमीलने ॥५६॥

कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः ।
के चिद् बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥५७॥

ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।
कालात्मानम् अनाश्रित्य व्यवहर्तुं न शक्यते ॥५८॥

तिस्रो भावस्य भावस्य केषां चिद् भावशक्तयः ।
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥५९॥

सत्त्वाद् अव्यतिरेकेण तास् तिस्रो ऽपि व्यवस्थिताः ।
क्रमस् तास् तदभेदाच् च सदसत्त्वं न भिद्यते ॥६०॥

दर्शनादर्शनेनैकं दृष्टादृष्टं तद् एव तु ।
अध्वनाम् एकता नास्ति न च किं चिन् निवर्तते ॥६१॥

शक्त्यात्मदेवतापक्षैर् भिन्नं कालस्य दर्शनम् ।
प्रथमं तद् अविद्यायां यद् विद्यायां न विद्यते ॥६२॥

अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥६३॥

ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु ।
कथं प्रचययोगः स्यात् कल्पनामात्रहेतुकः ॥६४॥

अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।
अभिन्नम् अपि शब्दस्य तत्त्वम् अप्रचयात्मकम् ॥६५॥

एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।
परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥६६॥

अनुनिष्पादिकल्पेन ये ऽन्तराल इव स्थिताः ।
शब्दास् ते प्रतिपत्तॄणाम् उपायाः प्रतिपत्तये ॥६७॥

विशिष्टम् अवधिं तं तम् उपादाय प्रकल्पते ।
कालः कालवताम् एकः क्षणमासर्तुभेदभाक् ॥६८॥

बुद्ध्यवग्रहभेदाच् च व्यवहारात्मनि स्थितः ।
तावान् एव क्षणः कालो युगमन्वन्तराणि वा ॥६९॥

प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।
यद् अम्भसि प्रक्षरणं तत् कालस्यैव चेष्टितम् ॥७०॥

अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।
कालस्य वृत्तिर् आत्मापि तम् एवास्यानुवर्तते ॥७१॥

आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।
बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥७२॥

त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।
तावत् तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥७३॥

व्यतिक्रमे ऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।
न गन्तृगतिभेदेन मार्गभेदो ऽस्ति कश् चन ॥७४॥

उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपाते ऽपि ताद्धर्म्यम् इव लक्ष्यते ॥७५॥

आदित्यग्रहनक्षत्र- परिस्पन्दम् अथापरे ।
भिन्नम् आवृत्तिभेदेन कालं कालविदो विदुः ॥७६॥

क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्य् अभिधीयते ॥७७॥

ज्ञाने रूपस्य संक्रान्तिर् ज्ञानेनैवानुसंहृतिः ।
अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥७८॥

भूतो घट इतीयं च सत्ताया एव भूतता ।
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥७९॥

परतो भिद्यते सर्वम् आत्मा तु न विकल्प्यते ।
पर्वतादिस्थितिस् तस्मात् पररूपेण भिद्यते ॥८०॥

प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥८१॥
व्यवधानम् इवोपैति निवृत्त इव दृश्यते ।
क्रियासमूहो भुज्यादिर् अन्तरालप्रवृत्तिभिः ॥८२॥
न च विच्छिन्नरूपो ऽपि सो ऽविरामान् निवर्तते ।
सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥८३॥
तदन्तरालदृष्टा वा सर्वैवावयवक्रिया ।
सादृश्यात् सति भेदे तु तदङ्गत्वेन गृह्यते ॥८४॥

सद् असद् वापि वस्तु स्यात् तृतीयं नास्ति किं चन ।
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥८५॥

निर्वृत्तिरूपम् एकस्य भेदाभावान् न कल्पते ।
सद् असद् वापि तेनैकं क्रमरूपं कथं भवेत् ॥८६॥

बहूनां चानवस्थानाद् एकम् एवोपलभ्यते ।
यथोपलब्धि स्मरणं तत्र चाप्य् उपपद्यते ॥८७॥

सदसद्रूपम् एकं स्याद् सर्वस्यैकत्वकल्पने ।
निर्वृत्तिरूपं निर्वृत्तेः सामान्यम् अथ वा भवेत् ॥८८॥

कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत् तथा ।
आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥८९॥

क्रियाप्रबन्धरूपं यद् अध्यात्मं विनिगृह्यते ।
संक्रान्तरूपम् एकत्र ताम् आहुर् वर्तमानताम् ॥९०॥

क्रियातिपत्तिर् अत्यन्तं क्रियानुत्पत्तिलक्षणा ।
न च भूतम् अनुत्पन्नं न भविष्यत् तथाविधम् ॥९१॥

प्राग् विरुद्धक्रियोत्पादान् निर्वृत्ते वा विरोधिनि ।
व्यापारे ऽवधिभेदेन विषयस् तत्र भिद्यते ॥९२॥

व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।
भाव्य् आसीद् इति सूत्रेण तत् काले ऽन्यत्र शिष्यते ॥९३॥

स्वकाल एव साधुत्वे कालभेदे गतिः कथम् ।
वाक्यार्थाद् अतदर्थेषु विशिष्टत्वं न सिध्यति ॥९४॥

तदर्थश् चेद् अवयवो भाविनो भूततागतिः ।
न स्याद् अत्यन्तभूतत्वम् एवैकं तत्र संभवेत् ॥९५॥

विशिष्टकालता पूर्वं तथापि तु विशेषणे ।
आश्रयात् सो ऽन्तरङ्गत्वात् तत्र साधुर् भविष्यति ॥९६॥

आमिश्र एव प्रक्रान्तः स पदार्थस् तथाविधः ।
केवलस्य विमिश्रत्वं नित्ये ऽर्थे नोपपद्यते ॥९७॥

शुद्धे च काले व्याख्यातम् आमिश्रे न प्रसिध्यति ।
साधुत्वम् अयथाकालं तत् सूत्रेणोपदिश्यते ॥९८॥

आख्यातपदवाच्ये ऽर्थे निर्वर्त्यत्वात् प्रधानता ।
विशेषणं तदाक्षेपात् तत्काले व्यवतिष्ठते ॥९९॥

संप्रत्ययानुकारो वा शब्दव्यापार एव वा ।
अध्यस्यते विरुद्धे ऽर्थे न च तेन विरुध्यते ॥१००॥

भूतं भविष्यद् इत्य् एतौ प्रत्ययौ वर्तमानताम् ।
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥१०१॥

अध्वनो वर्तमानस्य विषयेण भविष्यता ।
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥१०३॥

इच्छा चिकीर्शतीत्य् अत्र स्वकालम् अनुरुध्यते ।
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥१०४॥

आशास्यमानतन्त्रत्वाद् आशंसायां विपर्ययः ।
प्रयोक्तृधर्मः शब्दार्थे शब्दैर् एवानुशज्यते ॥१०५॥

अप्छालिबीजसंयोगे वर्तते निष्पदिर् यदा ।
तत्रावयववृत्तित्वाद् भविष्यत्प्रतिषेधनम् ॥१०६॥

फलप्रसवरूपे तु निष्पदौ भूतकालता ।
धर्मान्तरेषु तद् रूपम् अध्यस्य परिकल्प्यते ॥१०७॥

उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।
तत्र रूपं यद् अध्यस्तं तत्कालं तत् प्रतीयते ॥१०८॥

निष्पत्ताव् अवधिः कश् चित् कश् चित् प्रतिविवक्षितः ।
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥१०९॥

अबहिःसाधनाधीना सिद्धिर् यत्र विवक्षिता ।
तत् साधनान्तराभावात् सिद्धम् इत्य् अपदिश्यते ॥११०॥

तस्माद् अवधिभेदेन सिद्धा मुख्यैव भूतता ।
अनागतत्वम् अस्तित्वं हेतुधर्मव्यपेक्षणे ॥१११॥

सताम् इन्द्रियसंबन्धात् सैव सत्ता विशिष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥११२॥

अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद् भेदः स तत्र न विवक्षितः ॥११३॥

योगाद् वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिद् अवतिष्ठते ।
स्वस्मिन्न् आत्मनि तत्रान्यद् भूतं भावि च कथ्यते ॥११४॥   

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP