संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अथायुरानयनम्

मानसागरी - अध्याय ४ - अथायुरानयनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


नन्देन्दवो १९ बाणयमाः २५ शरक्ष्मा १५ दिवाकराः १२ पञ्चभुवः १५ कुपक्षाः २१। नखा २० श्च भास्वत्प्रमुखग्रहाणां पिण्डायुषोऽब्दानिजतुङ्गनाम् ॥१॥

निजोच्चशुद्धः खचरो विशोघ्यो भूमण्डलात्षङ्भ वनो न कश्चित् । यथास्थितः षङ्भवनाधिकश्चेल्लिप्तीकृतः सङ्खणितो निजाब्दैः ॥२॥

तत्र खाभ्ररसचन्द्रलोचनै २१६०० रुद्धते सति तदाप्यते फलम् । वर्षमासदिननाडिकादिकं तद्धि पिण्डभवमायुरुच्यते ॥३॥

ये धर्मकर्मनिरता विजितेन्द्रिया ये ये पथ्यभोजनरता द्विजदेवभक्ताः । लोके नरा दधति ये कुलशीललीलास्तेषामिदं कथितमायुरुदारधीभिः ॥१॥

ये पापलुब्धाश्चोराश्च देवब्राह्मणनिन्दकाः । परदाररता ये च ह्यकाले मरणं ध्रुवम् ॥२॥

अंशोद्भवं लग्नबलात्प्रसाध्यमायुश्च कर्मोद्भवकर्मवीर्यात् ।

नैसर्गिकं चन्द्रबलाधिकत्वादायुर्निरुक्तं हि मया विचार्य ॥१॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP