चौरः स्वामी दृप्तः स्ववशी मानी रणोत्कटः सेर्ष्यः । क्रोधात्संपत्साध्यः सुतनुः कुजोऽनफायां प्रगल्भश्च ॥१॥
गन्धर्वो लेख्यपटुः कविः प्रवक्ता नृपाप्तसत्कारः । रुचिरः सुभगोऽनफायां प्रसिद्धकर्मा विबुधश्च भवेत् ॥२॥
गंभीरः सन्मेधा चानुयुतो बुद्धिमान् नृपाप्तयशाः । अनफायां त्रिदशगुरौ संजातः सत्कविर्भवति ॥३॥
युवतीनामतिसुभगः प्रणयः क्षितिपस्य गोपतिः कान्तः । कनकसमृद्धश्च पुमाननफायां भार्गवे भवति ॥४॥
विस्तीर्णभुजः सुभगो गृहीतवाक्यश्चतुष्पदसमृद्धः । दुर्वनितागणभोक्ता गुणसहितः पुत्रवान्रविजे ॥५॥