सूर्यकालानलं चक्रं स्वरशास्त्रोदितं महत् । तदहं विशदं वक्ष्ये चमत्कृतिकरं परम् ॥१॥
त्रिशूलकाग्राः सरलाश्च तिस्त्रः कीलोर्ध्वरेखाः परिकल्पनीयाः । रेखात्रयं मध्यगतं च तत्र द्वेद्वे च कोणोपरिगे विधेये ॥२॥
त्रिशूलकोणान्तरगान्यरेखा तदग्रयोः श्रृङ्गयुगं विधेयम् । मध्यं त्रिशूलस्य च दण्डमूलात्सव्येन भान्यर्कभतोऽभिजिच्च ॥३॥
स्वनामभं यत्र गतं च तत्र प्रकल्पनीयं सदसत्फलं हि । तत्तस्य ऋक्षत्रितये क्रमेण चिन्तावधश्च प्रतिबन्धनानि ॥४॥
श्रृङ्गद्वये रुक् च भवेच्च भङ्गशूलेषु मृत्युं परिकल्पयन्ति । शेषेशु धिष्ण्येषु जयश्च लाभोऽभीष्टार्थसिद्धिर्विविधा नराणाम् ॥५॥
श्रीसूर्यकालानलचक्रमेतद्नदे च वादे च रणे प्रयाणे । प्रयत्नपूर्व परिचिन्तनीयं पुरातनानां वचनं प्रमाणम् ॥६॥
रवेर्वेधे मनस्तापो द्रव्यहानिश्च भूसुते । रोगपीडाकरो मन्दो राहुः केतुश्च मृत्युदः ॥७॥
गुरोर्वेधे भवेल्लाभो रत्नलाभश्च भार्गवे । स्त्रीलाभश्चन्द्रवेधे च सुखं स्यादबुधवेधतः ॥८॥
जन्मराशेश्च वेधेन फलमेतत्प्रकीर्तितम् ॥९॥