भाग्यभवनविचारः ।
विहाय सर्व गणकैर्विचिन्त्यं भाग्यालयं केवलमत्र यत्नात् । आयुश्च माता च पिता च बन्धुर्भाग्यान्वितेनैव भवन्ति धन्याः ॥१॥
यस्यास्ति भाग्यं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः । स एव वक्ता स च दर्शनीयो भाग्यान्वितः सर्वगुणैरुपेतः ॥२॥
अथ भाग्योदयलक्षणम् ।
द्वाविंशे रविणा च वर्षकथितं चन्द्रे चतुर्विशतिर्ह्यष्टाविंशतिभूमिनन्दनमतं दातुर्बुधे च स्मृतम् ।
जीवे षोडश भृगोः पञ्चविंशति तथा षटत्रिंश सौरी वदेत्कर्मेशात्खलु कर्म चैव कथितं लग्नाधिपौ चेत्स्मृतम् ॥३॥
भाग्ययोग्यन्तरे सौरिः स्थितो जन्म यथा भवेत् । लग्नपे तु विशेषेण यावज्जीवं समृद्धिमान् ॥४॥
मूर्तेश्चापि निशापतेश्च नवमं भाग्यालये कीर्तितं तत्स्वस्वामियुतेक्षितं प्रकुरुते भाग्यं च देशोद्भवम् ।
चेदन्यैर्विषयान्तरेऽत्र शुभदाः स्वोच्चादिगाः सर्वदा कुर्युर्भाग्यमसाधवो न च बलाहुः खोपलब्धिं पराम् ॥५॥
भाग्येश्वरो भाग्यगतोऽस्ति किंवा स्वस्थानगः सारविराजमानः । भाग्याश्रितः कोऽस्ति विचार्य सर्वमत्यल्पमल्पं परिकल्पनीयम् ॥६॥
तनुत्रिसूनूपगतो ग्रहश्चेद्यो वाधिवीर्यो नवमं प्रपश्येत् । यस्य प्रसूत स तु भाग्यशाली विलासशीलो बहुलार्थयुक्तः ॥७॥
चेद्भाग्यगामी खचरः स्वगेहे सौम्येक्षितो यस्य नरस्य सूतौ । भाग्याधिशाली स्वकुलावतंसो हंसो यथा मानसराजमानः ॥८॥
पूर्णेन्दुयुक्तौ रविभूमिपुत्रौ भाग्यस्थितौ सत्त्वसमन्वितौ च । वंशानुमानात्सचिवं नृपं वा कुर्वन्ति ते सौम्यदृशं विशेषात् ॥९॥
स्वोच्चोपगो भाग्यगृहे नभोगो नरस्य योगं कुरुते च लक्ष्म्या । सौम्येक्षितोऽसौ यदि भूमिपालं दन्तावलोत्कृष्टविलासशीलम् ॥१०॥