तत्रादौ क्रांतिमाह -
तत्त्वाश्विनो २२५ काङ्घिकृता ४४९ रुपभूमिधरर्त्तवः ६७१ ।
खाङ्काष्टौ ८९० पञ्चशून्येशाः ११०५ बाणरुपगुणेन्दवः १३१५ ॥
शून्यलोचनपञ्चैका १५२० श्छिद्ररुपमुनीन्दवः १७१९ ।
वियच्चन्द्रातिधृतयो १९१० गुणरन्ध्राचराश्विनः २८९३ ॥
मुनिषड्यमनेत्राणि २२६७ चन्द्रत्रियुगलोचनाः २४३१ ।
पञ्चाष्टविषयाक्षीणि २५८५ कुञ्जराश्विनगाश्विनः २७२८ ॥
रन्ध्रपंचाष्टकयमा २८५० वस्वद्यङ्कयमास्ततः २९७८ ।
कृताष्टशून्यज्वलना ३०८४ नागाद्रिशशिवह्नयः ३१७८ ॥
षट्पञ्चलोचनगुणा ३२५६ श्चन्द्रनेत्राग्निवह्नयः ३३२१ ।
यमाद्रिवह्निज्वलना ३३७२ रन्ध्रशून्यार्णवाग्नयः ३४०८ ॥
रुपाग्निसागरगुणा ३४३१ वसुत्रिकृतवह्नयः ३४३८ ।
प्रोक्ताः क्रमेण वावार्द्धादुत्क्रमाज्ज्यार्द्धपिण्डकाः ॥४॥
परमापक्रमज्यान्सप्तरन्ध्रगुणेन्दवः १३५९३ ।
तद्गुणाज्यातृजीवा सप्ततत्वाय संक्रान्तिरुच्यते ॥५॥