लग्नं लग्नपतिर्बलान्वितवपुः केन्द्रत्रिकोणे शिवे पृच्छाजन्मविवाहयानतिलके कुर्यान्नृपतिर्ध्रुवम् ।
सच्छीलं विभवान्वितं गजहयं मुक्तातपत्रान्वितं जातो निम्नकुले विभूतिपुरुषं शंसन्ति गर्गादयः ॥१॥
एकः शुक्रो जननसमये लाभसंस्थे च केन्द्रे जातो वै जन्मराशौ यदि सहजगते प्राप्यते वै त्रिकोणे ।
विद्याविज्ञानयुक्तो भवति नरपतिर्विश्चविख्यातकीर्तिर्दानी मानी च शूरो हयगुणसहितः सद्नजैः सेव्य मानः ॥२॥
दशसुखभवननाथः केन्द्रकोणे धनस्थे बलिपतिबलयाने प्रस्तसिंहासनेषु ।
स भवति नरनाथो विश्वविख्यातकीर्तिर्मदगलितकपोलैः सद्नजैः सेव्यमानः ॥३॥
एकोऽपि केन्द्रभवने नवपञ्चमे वा भास्वान्मयूखविमलीकृतदिग्विभागः ।
निःशेषदोषमपत्दृत्य शुभप्रसूतं दीर्घायुषं विगतरोगभयं करोति ॥४॥
चन्द्रः पश्येद्यदादित्यं बुधः पश्येन्निशापतिम् ।
अस्मिन्योगे तु यो जातः स भवेद्वसुधाधिपः ॥५॥
यदि भवति च केन्द्री यामिनीनाथ एव प्रददति प्रियभार्या पुत्रिणी वा सुरुपाम् ।
धनकनकसमृद्धिं माणिकं हीररत्ने रचयति मृगयाभिश्चन्दनैश्चचिंताङ्गम् ॥६॥
शुक्रो यस्य बुधो यस्य यस्य केन्द्रे बृहस्पतिः ।
दशमोऽङ्गारको यस्य स जातः कुलदीपकः ॥७॥
हयरथनरनागैत्नसम्यक्फलानां जलधितटनिवासी रत्नतुल्यं च धान्यम् ।
किल बहुजन इष्टः सत्यवादी प्रसूतो भवति यदि च केन्द्री दैत्यकोणे बुधस्य ॥८॥
किं कुर्वन्ति ग्रहाः सर्वे यस्य केन्द्री बृहस्पतिः ।
मत्तमातङ्गयूथानां भिनत्येकोऽपि केसरी ॥९॥
एक एव सुरराजपुरोधाः केन्द्रगोऽथ नवपंचमगो वा । लाभगो भवति यत्र विलग्ने तत्र शेषखचरैरबलैः किम् ॥१०॥
भवति वदनमूर्तिर्वल्लभः कामिनीनां सकलजनसमर्थो दीर्घजन्मा विहाय ।
ध्वजविषयगुणज्ञो द्रव्यमुख्यः प्रधानः सधनकनकपूर्णो दैत्यपो यस्य केन्द्रे ॥११॥
धनवान् प्राज्ञः शूरो मंत्री वा दण्डनायकः पुरुषः दशमस्थे रवितनये वृन्दपुरग्रामनेता वा ॥१२॥
तुलाकोदण्डमीनस्थो लग्नस्थोऽपि शनैश्चरः ।
करोति भूषतेर्जन्मवंशे च नृपतिर्भवेत् ॥१३॥
दिव्यस्त्रीवरकाञ्चनाम्बरगतामाधारलक्ष्मीमयः शास्त्रं कौतुकमीतनृत्यरसताव्यापारदीक्षागुरुः ।
पुत्रभ्रातृजनान्वितः स्थिरमतिः कर्तातिप्रीत्यान्वितो जीवः केन्द्रयदा भवेन्निजसुखीसत्कर्मकारी नरः ॥१४॥
आकाशमन्दिरगतस्तनुपः स्वगेहे कुर्यान्नृपं नृपतिचक्रवरैः सुसेव्यः ।
सैन्यं प्रतापपृतनाहतशत्रुपक्षं शक्रो यथा सुरगणैश्च विराजमानः ॥१५॥
उपचयगृहसंस्थो ( ३।६।१०।११ )
जन्मदो यस्य चन्द्रः स्वगृहमथ नवांशे केन्द्रजातश्च सौम्याः ।
सकलबलवियुक्तश्चैव पापाभिधानं स भवति नरनाथः शक्रतुल्यो बलेन ॥१६॥
विद्याकलागुणविराजितकामधेनुर्भोगैः परं वरयुवा जितकामराजः ।
देशाधिपत्यपुरत्तनगजश्रियान्तो मीने सितः सकलमण्डल दीप्तदीक्षैः ॥१७॥
कामेजकन्ये रिपुन्ध्रसंस्थे केन्द्रत्रिकोणे व्ययगे च राहुः ।
कामी च शूरो बलवान्स भोगी गजाश्वछत्रं बहुपुत्रता च ॥१८॥
मृगपतिवृषकन्याकर्कटस्थे च राहुर्भवति विपुललक्ष्मीराजराज्याधिपो वा ।
हयगजनरनौकामेदिनीपण्डितश्च स भवति कुलदीपो राहुतुङ्गो नराणाम् ॥१९॥
केन्द्रत्रिकोणे बुधजीवशुक्राः स्थिता नराणां यदि जन्मकाले ।
धर्मार्थविद्यायशकीर्तिलाभः शान्तः सुशीलः स नराधिपः स्यात् ॥२०॥
भृगुसुतसुरपूज्यश्चन्द्रमाः केन्द्रवर्ती बहुसुखधनवृद्धिः कर्मसाध्यं नराणाम् ।
रविसुतशशिपुत्रे भानुजीवे त्रिकोणे क्षितिसुतदशमेषु राजयोगा वदन्ति ॥२१॥
केन्द्रत्रिकोणेषु भवन्ति सौम्या दुश्चिक्यलाभारिगताश्च पापाः ।
यस्य प्रयाणेप्यथ जन्मकाले ध्रुवं भवेत्तस्य महीपतित्वम् ॥२२॥
लाभे त्रिकोणे यदि शीतरश्मिः करोत्यवश्यं क्षितिपालतुल्यम् ।
कुलद्वयानन्दकरं नरेन्द्रं ज्योत्स्त्रा हि दीपस्तमनाशकारी ॥२३॥
शत्रुस्थाने यदा जीवो लाभस्थाने शशी भवेत् ।
गृहमध्ये स जातश्च विख्यातः कुलदीपकः ॥२४॥
लग्नाधिपो वा जीवो वा शुक्रो वा यत्र केन्द्रगः ।
तस्य पुंसश्च दीर्घायुः स भवेद्राजवल्लभः ॥२५॥
दशमे बुधसूर्यो च भौमराहु च षष्ठगौ ।
राजयोगोऽत्र यो जातः स पुमान्नायको भवेत् ॥२६॥
आदौ जीवः शनिश्चान्ते गृहमध्ये निरन्तरम् ।
राजयोगं विजानीयात्कुटुम्बबलमुत्तमम् ॥२७॥
सहजस्थो यदा जीवो मृत्युस्थाने यदा सितः ।
निरन्तरं ग्रहा मध्ये राजा भवति निश्चितम् ॥२८॥
जीवो वृषे सुधारश्मिर्मिथुने मकरे कुजः ।
सिंहे भवति सौरिश्च कन्यायां बुधभास्करौ ॥२९॥
तुलायामसुराचार्यो राजयोगो भवेदयम् ।
अत्र योगे समुत्पन्नो महाराजो भवेन्नरः ॥३०॥
अष्टमे द्वादशे वर्षे यदि जीवति मानवः ।
सार्वभौमस्तदा राजा जायते विश्वपालकः ॥३१॥
एको जीवो यदा लग्ने सर्वे योगास्तदा शुभाः ।
दीर्घजीवी महाप्राज्ञो जातको नायको भवेत् ॥३२॥
धने शुक्रोऽथ भौमश्च मीने जीवस्तुलाबुधः ।
नीचस्थौ शनिचन्द्रौ च राजयोगस्तदा ध्रुवम् ॥३३॥
अस्मिन्योगे च यो जातः स राजा धनवर्जितः ।
दाता भोक्ता च विख्यातो मान्यो मण्डलनायकः ॥३४॥
मीने शुक्रो बुधश्चान्ते धने राहुस्तनौ रविः ।
सहजे च भवेद्भौमो राजयोगोऽभिधीयते ॥३५॥
सहजे च यदा जीवो लाभस्थाने च चन्द्रमाः ।
स राजा गृहमध्यस्थो विख्यातः कुलदीपकः ॥३६॥
शुभग्रहाः शुभक्षेत्रे भवन्ति यदि केन्द्रगाः ।
तदा शुभानि कर्माणि स करोति हि जातकः ॥३७॥
उच्चस्थानगताः सौम्याः केन्द्रस्थाने भवन्ति चेत् ।
ध्रुवं राज्यं भवेत्तस्य यदि नीचसुतो भवेत् ॥३८॥
स्वक्षेत्रस्थो यदा जीवो बुधः सौरिश्च चेद्भवेत् ।
तस्य जातस्य दीर्घायुः सम्पत्तिश्च पदेपदे ॥३९॥
मीने बृहस्पतिः शुक्रश्चन्द्रमाश्च यदा भवेत् ।
तस्य जातस्यं राज्यं स्यात् पत्नी च बहुपुत्रिणी ॥४०॥
पञ्चमस्थो यदा जीवो दशमस्थश्च चन्द्रमाः ।
स राज्यवान् महाबुद्धिस्तपस्वी च जितेन्द्रियः ॥४१॥
सिंहे जीवस्तुलाकीटचाशपेषु मकरेऽपि च ।
ग्रहा यदा तदा जातो देशभोगी भवेन्नरः ॥४२॥
तुलाकोदण्डमीनस्थो लग्नसंस्थोऽपि चेच्छानिः ।
करोति भूपतेर्जन्म महापुण्यानुभावतः ॥४३॥
विद्यास्थाने यदा सौम्यः कर्कस्थाने च चन्द्रमाः ।
धर्मस्थाने यदा सौम्यो राजयोगस्तदा भवेत् ॥४४॥
मकरे च घटे मीने वृषे मिथुनमेषयोः ।
ग्रहास्तदा च विख्यातो राजा भवति मानवः ॥४५॥
बुधभार्गवजीवार्कियुक्तो राहुश्चतुष्टये ।
कुरुते कमलारोग्यपुत्रमानादिकं फलम् ॥४६॥
चतुर्थभवने शुक्रो गुरुचन्द्रधरासुताः ।
रविसौरियुतास्सन्ति राजा भवति निश्चितम् ॥४७॥
अष्टमे च व्यये क्रूरो मध्ये च क्रूरसौम्यकौ ।
राजयोगास्त्रयो जाता महाभूपो भविष्यति ॥४८॥
लग्ने सौरिस्तथा चन्द्रस्त्रिकोणे जीवभास्करौ ।
कर्मस्थाने भवेद्भौमो राजयोगोऽभिधीते ॥४९॥
नवमे च यदा सूर्यः स्वगृहस्थो भवेत्तदा ।
तस्य जीवति नो भ्राता स्यादेकोऽपि नृपैः समः ॥५०॥
द्वित्रितुर्ये सिते षष्ठे कर्मण्यपि यदा ग्रहाः ।
राजयोगं विजानीयाज्जातस्तत्र नृपो भवेत् ॥५१॥
लग्ने क्रूरे व्यये सौम्या धने क्रूरश्च जायते ।
राजयोगो न राजा च भूपतिर्भवति स्फुटम् ॥५२॥
लग्ने क्रूरो व्यये क्रूरो धने सौम्यो यदा भवेत् ।
सप्तमे भवति क्रूरः परिवारक्षयंकरः ॥५३॥
धने चन्द्रश्च सौम्यश्च मेषे जीवो यदा भवेत् ।
दशमे राहुशुक्रौ च राजयोगोऽभिधीयते ॥५४॥
सिंहे जीवोऽथ कन्यायां भार्गवो मिथुने शनिः ।
स्वक्षेत्रे हिबुके भौमः स पुमान्नायको भवेत् ॥५५॥
शनिचन्द्रौ च कन्यायां सिंहे जीवो घटे तमः ।
मकरे च कुजस्तत्र जातः स्याद्विश्वपालकः ॥५६॥
शुक्रो जीवो रविर्भोमश्चापे मकरकुम्भयोः ।
मीने च वत्सरे त्रिंशे समर्थः सर्वकर्मसु ॥५७॥
कर्कलग्ने जीवयुक्ते लाभे चन्द्रजभार्गवाः ।
मेषे भानुश्च जातो यो योगेऽस्मिन् नृपतिर्भवेत् ॥५८॥
कर्मस्थाने यदा जीवो बुधः शुक्रस्तथा शशी ।
सर्वकर्माणि सिद्धयन्ति राजमान्यो भवेन्नरः ॥५९॥
षष्ठेऽष्टमे पञ्चमे वा नवमे द्वादशे तथा ।
सौम्यक्रूरग्रहैर्योगे राजमान्यो न संशयः ॥६०॥
पञ्चमे च यदा षष्ठे चाष्टमे नवमे क्रमात् ।
भौमराहुसितार्काः स्युर्जातकः कुलपालकः ॥६१॥
लग्ने सौरिस्तथा चन्द्रश्चाष्टमे भार्गवो यदा ।
जायतेऽत्र नृपो योगे मानी भूरिप्रियः सदा ॥६२॥
मिथुनस्थो यदा राहुः सिंहस्थो भूमिनन्दनः ।
अत्र योगे नरो जातो नृपोऽश्वगजनायकः ॥६३॥
चापार्द्धे शशिना युक्तो यदि सूर्यः प्रजायते ।
लग्ने च सबलो मन्दो मकरे च कुजो भवेत् ॥६४॥
अत्र योगे समुत्पन्नो महाराजो भवेन्नरः ।
दूरादेव नमन्त्यस्य प्रतापैश्चरणौ नृपाः ॥६५॥
उच्चाभिलाषकः सूर्यास्त्रिकोणस्थो यदा भवेत् ।
अपि नीचकुले जातो राज स्याद्धनपूरितः ॥६६॥
धनस्थाने यदा शुक्रो दशमे च बृहस्पतिः ।
षष्ठे च सिंहिकापुत्रो राजा भवति विक्रमी ॥६७॥
चतुर्ग्रहा यदैकत्र यदि सौम्या भवन्ति हि ।
भ्रातृधीधर्मलग्नाद्यै राजयोगो भवेदयम् ॥६८॥
सर्वैर्ग्रहैर्यदा चन्द्रो विना हेलिं निरीक्षते ।
षष्ठाष्टमे च जामित्रे सदीर्घायुर्नराधिपः ॥६९॥
नवमे पञ्चमस्थाने चतुर्थे च यदा ग्रहाः ।
आदौ जाताश्च नश्यन्ति पश्चाज्जातश्च जीवति ॥७०॥
विवाहितायामन्यस्यामेकपुत्रो भवेत्तदा ।
विख्यातो भुवने त्यागी स दीर्घायुर्महीपतिः ॥७१॥
कन्यायां च यदा राहुः शुक्रो भौमः शनिस्तथा ।
तत्र जातस्य जायेत कुबेरादिकं धनम् ॥७२॥
लग्ने मीने जीवशुक्रौ मेषेऽर्को मकरे कुजः ।
दासवंशेऽपि जातोऽसौ राजा छत्रधरो भवेत् ॥७३॥
भ्रातृस्थाने यदा जीवो लाभस्थाने यदा शशी ।
स लोके गृहमध्यस्यो जायते कुलदीपकः ॥७४॥
दशमस्थौ बुधादित्यौ षष्ठे राहुधरासुतौ ।
राजयोगास्त्रयो जातः स पुमान्नायको भवेत् ॥७५॥
चतुर्ग्रहैरेकगृहे च संस्थैर्धीधर्मदुश्चिक्यतनुस्थितैर्वा ।
दासश्च जातः क्षितिपालतुल्यो भवेन्नरेन्द्रोऽथ समुद्रपारगः ॥७६॥
सुरगुरुशशियुक्ते कर्कटे लग्नसंस्थे भृगुतनयबलिष्ठः केन्द्रजातोऽथ शेषैः ।
शिवसहजरिपुस्थैर्यस्य जन्मत्रियोगे नियतमिति यदायुश्चकवर्ती नरेशः ॥७७॥
तुले मीनमेषे वृषे दैत्यपुत्रो भवेद्राजमानी कलाकातुकी च ।
त्रयं पुत्रजातं चिरंजीवितं च भवेद्वत्सरे वाह्नियुग्मे ( २३ ) च भुक्ते ॥७८॥
लग्नाधिपतिः केन्द्रे बलपरिपूर्णः करोति नृपतुल्यम् ।
गोपालकुलेऽपि जातं किंपुनारिह नृपतिसंभूतम् ॥७९॥
रविस्तृतीये भृगनन्दनः सुखे बुधो द्वितीये यदि पञ्चमे स्थितः ।
न नीचराशौ न च खान्तवेश्मगो भवेन्नरेन्द्रस्त्रिसमुद्रपालकः ॥८०॥
यदि भवति च केन्द्रे धर्मगे स्वोच्चसंस्थे सुतभवनगतश्चेद्वाक्पतिर्जन्मकाले ।
स भवति नरनाथः सार्वभौमो जितारिः शशिबुधभृगुपुत्रैरन्वितो वीक्षितो वा ॥८१॥
विलग्ननाथः खलजास्तसंस्थाः सुत्दृदगृहे मित्रयुतो यदि स्थितः ।
करोति सर्व पृथिवीतलस्य दुर्वारवैरिघ्नमहोदयं शुभम् ॥८२॥
लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः ।
विदधाति महीपालं विक्रमबलवहनोपेतम् ॥८३॥
स्वोच्चैः स्वकीयभवने क्षितिपालतुल्यो लग्नेऽर्कजे भवति देशपुराधिनाथः ।
दारिद्र्यदुःखपरपीडित एव लोकः शेषेषु सर्वजननिन्द्यशरीरचेष्टः ॥८४॥
लग्ने उच्चपदोगते दिनपतिश्चन्द्रे धनस्थे भृगौ दुश्चिक्ये तमसंयुते सुखगते जीवे व्ययस्थे बुधे ।
लाभे सूर्यसुते हि शत्रुभवने जाते कुले भूपतेर्जातोऽयं मनुजः सदा नृपगणे सम्राट्पदं गच्छति ॥८५॥
उच्चाभिलाषी सविता त्रिकोणे शशी तथा जन्मनि यस्य जन्तोः ।
सस्यातिपृथ्वी बहुरक्तपूर्णा बृहस्पतिः कर्कटके यदि स्यात् ॥८६॥
सर्वेप्याकाशवासाः स्फटिकविशलताकाशकार्पासभेशो लग्नं संवीक्ष्यमाणो नरपतितिलकं तं समुत्पादयन्ति ।
नीयन्तेऽस्य प्रशस्त्यै जलदनिभमथ श्वेतमानं यशोभिर्बिभ्राणं शेसुशंकां मधुमथनमतो भद्रमालार्पितश्रीः ॥८७॥
सर्वेर्गगनभ्रमणैर्दृष्टे लग्ने भवेन्महीपालः ।
बलिभिः सौख्यार्थयुतो विगतभयो दीर्घजीवी च ॥८८॥
चतुर्थे भवने शुक्रो दशमे च धरासुतः ।
रविः सौरिर्भवेद्युक्तो राजा भवति निश्चितम् ॥८९॥
मिथुनेऽजे वृषे मीने कुम्भे च मकरे ग्रहाः ।
यो योगेऽस्मिन्नरो जातो जायते गजमानवान् ॥९०॥
जीवनिशाकरसूर्याः पञ्चमनवमतृतीयगाः ।
लग्ना यदि भवति तदा राजा कुबेरतुल्यो धनप्रसवैः ॥९१॥
सिंहे जीवस्तुलाकीटधनुर्मकरकेषु च ।
ग्रहाश्चान्ये यदा जातो देशभोगी भवेन्नरः ॥९२॥
स्वगृहे च भवेत्सूर्यस्तुलायां च भवेत् सितः ।
मिथुने तिष्ठति सौरी राजयोगः प्रजायते ॥९३॥
षष्ठे च पञ्चमे चैव नवमे द्वादशे तथा ।
सौम्यक्रूरग्रहा योगा राजमान्यः सकण्टकः ॥९४॥
त्रिकोणकोणे बुधजीवशुक्रास्त्रिषट्दशे सोमसुतेऽर्कपुत्रे ।
जायास्थिते चेत्परिपूर्णचन्द्रे नूनं स जातो नृपतेः समानः ॥९५॥
लग्ने सौरिस्तथा चन्द्रश्चाष्टमे भवने सितः ।
राजमान्यो महाकामी भोगपत्नीजनस्तथा ॥९६॥
धने शुक्रश्च भौमश्च मीने जीवो घटे बुधः ।
नीचश्चन्द्रः सूर्ययुक्तो राजयोगोऽभिधीयते ॥९७॥
अस्मिन् योगे नरो जातो राजा विभववर्जितः ।
दानभोगादिविख्यातः सम्मान्यः स भवेन्नरः ॥९८॥
मीने शुक्रो बुधश्चान्ते लग्ने सूर्यः शशी धने ।
सहजे च भवेद्राहू राजयोगः प्रचक्षते ॥९९॥
मीने जीवस्तथा शुक्रश्चन्द्रमाश्च यदा भवेत् ।
तस्य जातस्य राज्यं स्यात् पत्नी च बहुपुत्रिका ॥१००॥
आयस्थाने यदा सौम्यः क्रूरस्थानीयचन्द्रमाः ।
कर्मस्थाने पुनः सौम्यस्तदा राज्यं विधीयते ॥१॥
आदौ जीवः पञ्चमे च दशमे चन्द्रमा भवेत् ।
राजमान्यो महाबुद्धिस्तेजस्वी चातितेजसः ॥२॥