कालवलं नतोन्नतबलं च ।
नक्तंबला भौमशशाङ्कमन्दा गुर्वर्कशुक्रा दिननक्तपाः स्युः ।
सौम्याः सदा वासरनक्तभाजो ग्राह्यो बुधैरुच्चनसंज्ञकालः ॥१॥
नतस्त्वमी वीर्यवतां पलीकृताः खखांष्टचन्द्रैर्वित्दृतौ बलं भवेत् ।
बुधस्य रात्रौ च दिवा च रुपं विधेयमेतत्समयोद्भवं बलम् ॥२॥
कलाफलम् ।
दिनरात्रिबलम् ।
अह्नित्रिभागेषु बलं स्वरुपं १ सौम्यार्कितिग्मांशुशुभं क्रमेण ।
कार्ये तुषारांशुसितासृजांबुरात्रौ सदैवामरपूजितस्य ॥१॥
वर्षपतिबलम् ।
तत्रादौ वर्षाधिपत्यानयनम् ।
शश्यश्विभव ११२१ विहीनाद्युगुणात्परितु अग्निविभाजिता ३६० द्याप्तम् ।
त्रिघ्नं सैकं सप्तविभक्तं सावनवर्षाधिपोर्कादिः ॥१॥