अथ क्रियापादः - प्रायश्चित्तविधिपटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्राशब्दाख्यो विनाशस्तु प्रायश्चित्तमिति स्मृतम् ॥१॥
अर्चनादिहुतान्तञ्च प्रायश्चित्तं वदाम्यहम् ।
अर्चनाकालहीने तु शिवमन्त्रञ्जपेच्छतम् ॥२॥
अर्चनाकालहीने तु सन्ध्याया द्विगुणं तथा ।
एकाहेचाङ्गविच्छेदे हृन्मन्त्रेण शताहुतिः ॥३॥
एकाहेचार्चहीनेन स्नपनं नवकुंभकैः ।
द्विदिनेत्रि दिने हीने पञ्चविंशतिकुंभकैः ॥४॥
चतुर्त्था हेतु पञ्चाहे पूजाहीने तु संभवे ।
पञ्चादौ दशके हीने स्नपनं शतकुंभकैः ॥५॥
पूजाहीने तु मासान्तं त्रिशतैः कलशैः पुनः ।
त्रिमासमर्चनाहीने सहस्रकलशैः क्रमात् ॥६॥
षाण्मासोर्ध्वेऽर्चनाहीने संप्रोक्षणमथाचरेत् ।
सन्ध्यायां बलिहीने तु रुद्रमन्त्रंशतं जपेत् ॥७॥
द्विसन्ध्यं बलिहीने तु शताद्यर्धं जपेत् गुरुः ।
त्रिसन्ध्यं बलिहीने च स्नपनं कारयेत् ततः ॥८॥
द्वियहादि च मासान्तं बलिविच्छेदकर्मणि ।
शिवाग्निं पूर्ववद् ध्यात्वा स्नपनन्तु शताष्टकम् ॥९॥
बलिर्मासोर्ध्वहीने तु शिवागिं तत्र बुद्धिमान् ।
सहस्राज्याहुतिञ्चाङ्गैः शिवे नैव तु देशिकः ॥१०॥
अष्टोतरशतैः कुंभैः स्नपनं कारयेत् बुधः ।
नित्योत्सवं पुनः कुर्यात् पूर्ववच्च विशेषतः ॥११॥
बलि भ्रमणकाले तु लिङ्गं पतितमेव वा ।
स्फटितञ्चलितं भग्नं च्छिन्नं भिन्नन्तु संभवेत् ॥१२॥
तत्रैव कारयेद्धोममथवालय मध्यमे ।
पूर्ववत् बलिलिङ्गस्य कृत्वा तत्र प्रदक्षिणम् ॥१३॥
अथवा पूर्ववत् कृत्वा भ्रमणान्ते हुतं क्रमात् ।
मूलमन्त्रं जपेत् तत्र शतमष्टाक्षरं बुधः ॥१४॥
अगम्यमितिगम्यं वा मूलमन्त्रंशतञ्जपेत् ।
तत्काले दीपहीने तु स्थित्वा तत्र बलिं ततः ॥१५॥
पुनर्दीपं समावाह्य कृत्वा शेषं प्रदक्षिणम् ।
नैवेद्ये च वीहीने तु द्विगुणन्तु निवेदयेत् ॥१६॥
हविर्द्रव्यविहीने तु द्विगुणेन तु बुद्धिमान् ।
नित्यं द्रव्यविहीने तु तदान्ये द्विगुणञ्चरेत् ॥१७॥
नित्याग्निकार्ये हीने तु हृन्मन्त्रेणशता हुतिः ।
उत्सवे तु विशेषेण प्रायश्चित्तं ततः शृणु ॥१८॥
ध्वजस्य ध्वजदण्डस्य घण्डायास्तु विशेषतः ।
छिन्ने भिन्ने च पतिते चोरग्रस्तादि संभवे ॥१९॥
कृत्वा तत् पूर्ववत् सर्वं पुनरुत्थापनं कुरु ।
हृदयेनशतं हुत्वा स्नापयेत् पञ्चगव्यकैः ॥२०॥
यागकाले विहीने तु मूलमन्त्रेण होमयेत् ।
होमद्रव्यविहीने तु हृदयेन शताहुतिः ॥२१॥
बलिप्रदानवेलायां शुनानीतेति रिक्तके ।
हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्तकः ॥२२॥
शूलास्त्रं पतितं वापि आयुधञ्चाष्टमङ्गलम् ।
शूलस्य स्नपनं तत्र अन्येषाञ्च शताहुतिः ॥२३॥
प्रतिमां प्रतिमां वापि स्पृष्टां वै चान्त्यपायिभिः ।
कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते ॥२४॥
प्रमादात् भिन्नच्छिन्नादि संभवे पूर्ववत् कुरु ।
सर्वेष्वङ्गेषु हीनञ्चेत् पुनरङ्गं नियोजयेत् ॥२५॥
कण्ठोर्ध्व हीनं बिंबन्तु जीर्णोद्धारन्तु कारयेत् ।
तिथिवारमुहूर्तानि निरपेक्षेण बुद्धिमान् ॥२६॥
अधिवासनादिकार्याणि सद्य एव समाचरेत् ।
प्रतिष्ठाप्य विशेषेण प्रायश्चित्तं शृणुष्वहि ॥२७॥
स्नपने कालहीने तु शिरसा तु शताहुतिः ।
स्नपन द्रव्यहीने तु शिखया तु तदर्धतः ॥२८॥
सुषिरं पतितं भिन्नं भेदनञ्छेदनं हि वा ।
व्यपोह्यकलशन्तत्तु पूर्ववत् कल्पयेत् बुधः ॥२९॥
अस्पृश्य स्पर्शने वापि श्वानकाकादि स्पर्शिते ।
अन्यं कलशमादाय मन्त्रतो येन पूरयेत् ॥३०॥
हृदयेन शतंहुत्वा स्नपनं तत्र पूर्ववत् ।
करुणालय हीनश्चेत् कृत्वा तत्पूर्ववत् बुधः ॥३१॥
तरुणं लिङ्गपीठे वा च्छिन्नभिन्नादि संश्रिते ।
तल्लिङ्गन्तु जले त्यक्त्वा लिङ्गं संस्थाप्य पूर्ववत् ॥३२॥
पतितञ्चलितं लिङ्गं पूर्ववत् स्थापयेत् क्रमात् ।
मूललिङ्गे च विघ्नेश वक्ष्येहमधुना शृणु ॥३३॥
लिङ्गन्तु स्फटितं भिन्नं जीर्णञ्छेद्यन्तथैव च ।
ईदृग्लिङ्गन्ततस्त्यक्त्वा स्थापयेत् तु न वीकृतम् ॥३४॥
चलितं पतितं वापि नदिस्रोतेन पातितम् ।
गजेनोत्थापितं वापि चोरैरुन्मत्तकैरपि ॥३५॥
तल्लिङ्गं तत्र संस्थाप्य पूर्ववच्छेषमाचरेत् ।
गंभीरे च महालिङ्गे स्रोतसा चलिते सत् ॥३६॥
अन्यस्यां प्रतिमायां वा शतदण्डात् तु योजयेत् ।
मूललिङ्गमदृश्यञ्चेन् नवलिङ्गन्तु पूर्ववत् ॥३७॥
एवं वै पिण्डिकायास्तु तथान्यप्रतिमासु च ।
प्रतिष्ठालयहीने तु मूले नैवशताहुतिः ॥३८॥
क्रियाहीने यथा शास्त्रं मूले नैव समाचरेत् ।
क्रियायां मन्त्रहीने तु शिखया तु शताहुतिः ॥३९॥
द्रव्यहीने तु विघ्नेश सहस्राहुति वर्मणा ।
क्रियातिरिक्ते सर्वत्र न्यूनेमूलं शतञ्जपेत् ॥४०॥
काकश्वानखरोष्ट्रैश्च मत्तोन्मत्तैश्च दूषयेत् ।
स्पर्शाहुतिञ्च कुर्वीत पुण्याहन्तु विशेषतः ॥४१॥
हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं हि वा ।
चण्डालाद्यैस्तु परितः संस्पृष्टं वा समीपगम् ॥४२॥
संप्रोक्षणं प्रतिष्ठाञ्च कुर्वीत स्नपनं पुनः ।
प्रासादे पतिते भिन्नेच्छिन्नेनष्टे तथैव च ॥४३॥
बालालये शिवं नित्वा विमाने पूर्ववत् कृते ।
विधिवत् प्रोक्षणं कृत्वा पश्चादुत्सवमारभेत् ॥४४॥
गर्भगेहे स्थलेनिम्ने कलकाद्यैर्द्रवं पुनः ।
तदन्ते वास्तुहोमञ्च पुण्याहं तत्र वाचयेत् ॥४५॥
बलिपीठविनाशे तु स्थापयेत् बलिपीठकम् ।
परिवारालये हीने पूर्ववत् परिकल्पयेत् ॥४६॥
तत्बिंबे पतिते भिन्नेच्छिन्ने भेदे तु वर्जयेत् ।
हुत्वा तु शिवमन्त्रेण कुर्यात् बिंबानि पूर्ववत् ॥४७॥
प्रतिष्ठां कारयेत् प्राग्वत् स्वकीयेन विधानतः ।
अथाद्भुतानां शान्तिन्तु वक्ष्ये दोषविनाशनम् ॥४८॥
सर्वं विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च ।
ज्वरमारिसमुत्पन्ने रोगस्फोटादि संभवे ॥४९॥
नवप्रासादपतने चैत्य वृक्षस्य पातने ।
एवमादिसमुत्पन्ने ग्रामादीनाञ्च दोषकम् ॥५०॥
तद्दोषशमनार्थन्तु त्रिसप्ताहन्तु शान्तिकम् ।
भूमिकंपेदिशान्दाहे प्रतिसूर्य प्रदर्शने ॥५१॥
दिवानक्षत्रमुत्पन्ने रात्राविन्द्रधनु स्थिते ।
दुर्भिक्षं शत्रुवर्धन्यां राजराष्ट्रभयंकरः ॥५२॥
मासपूर्णं तथा शान्तिं कुर्याद्दोषनिवृत्तये ।
प्रासादमण्डपाद्येषु वल्मीकं यत्र दृश्यते ॥५३॥
रत्नकन्यासमुत्पन्ने प्रासादे मधुसंश्रिते ।
प्रविष्टेपिपीलिकालूकौ प्रासादाभ्यन्तरे तथा ॥५४॥
तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धपांसुभिः ।
पञ्चगव्येन संप्रोक्ष्य पुनःशान्तिन्तु कारयेत् ॥५५॥
शान्तिं संक्षेपतो वक्ष्ये शृणु तत्वं गजानन ।
हविषं द्विगुणं कृत्वा दीपैः पूष्पैर्विशेषतः ॥५६॥
शीतकुंभन्तु विधिना शिवस्योर्ध्वन्निदापयेत् ।
दिशाहोमन्ततः कृत्वा मूर्तिहोमं विशेषतः ॥५७॥
चतुर्दिक्षु चतुर्वेदैः पूर्वमध्यापनं तथा ।
यथावत् स्नपनन्नित्यं तथा वित्तानुसारतः ॥५८॥
गृतं क्षीरं यथा शक्ति अभिषेकन्तु नित्यशः ।
नालिकेरस्य सलिलैरभिषेकं समाचरेत् ॥५९॥
तदन्ते रात्रिचूर्णन्तु लिङ्गमुद्वर्त्यशोधयेत् ।
प्रभूतहविषं नित्यं तदन्ते द्विगुणं स्मृतम् ॥६०॥
एवं शान्तिस्तु तत्प्रोक्तं सर्वारिष्टविनाशनम् ।
शान्तिरेवं कृतं यत्र धनधान्याभिवर्धनम् ॥६१॥
अनुक्तानां तु सर्वेषां विदित्वा गुरुलाघवम् ।
उक्तैरेवं प्रकारैस्तु प्रायश्चित्तानि कारयेत् ॥६२॥
शान्तिहोमङ्गुरुः कुर्यात् शेषाणान्तु यथोक्ततः ।
प्रायश्चित्तमिदं प्रोक्तं तत्राणां संकरं शृणु ॥६३॥
इति प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः ॥५५॥
N/A
References : N/A
Last Updated : January 08, 2024
TOP