संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः| अग्निकार्यविधि पटलः अथ क्रियापादः प्रश्नविधिपटलः । अथ तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः अथ स्नान पटलः अथ भस्मस्नान पटलः अथ अर्चनाङ्ग पटलः अथ शिवार्चनविधि पटलः अथ मुद्रालक्षण पटलः अथ हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः आचार्यलक्षण पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः शास्त्रस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः अथ क्रियापादः - अग्निकार्यविधि पटलः सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ. Tags : sanskritsuprabhedaagamahशिल्पशास्त्रसंस्कृतसुप्रभेदागमः अग्निकार्यविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।नित्यन्नैमित्तिकञ्चैव प्रतिष्ठा या मथोत्सवे ॥१॥ग्रहणे विषुसंक्रान्त्यां शत्रूणाञ्च प्रदर्शने ।शान्तिके पौष्टिके चैव दीक्षायान्तु पवित्रके ॥२॥गर्भाधानादिशैवानां तेषान्तु दहनादिषु ।प्रायश्चित्तादिकालेषु वह्निकर्मसमाचरेत् ॥३॥कुण्डे वा स्थण्डिले वापि द्विविधे होमकर्मणि ।वर्तनाविधिनावत्स कुण्डञ्चेद्वर्तयेत् बुधः ॥४॥वालुकै स्थण्डिलञ्चेत् तु प्रत्यग्रे हस्तविस्तृते ।शोधनं क्षालनञ्चैव शोषणं पाचनं तथा ॥५॥रेखात्रयं तु पूर्वाग्रं रेखैकाचोत्तरामुखा ।उल्लेखनन्तु चास्त्रेण अभ्युक्ष्यकवचेन तु ॥६॥पूर्वामुखास्त्रयोरेखा ब्रह्माविष्णुश्च रुद्रकः ।उत्तराभिमुखारेखा शिवा सा तु न संशयः ॥७॥पुष्पाक्षतैः समभ्यर्च्य शिवाग्निं तत्र साधयेत् ।सूर्यकान्तोद्भवं श्रेष्ठमरण्युत्भवमेव वा ॥८॥क्षेत्रे वा श्रोत्रियागारे जातवेदसमानयेत् ।ताम्रपात्रे शरावे वा सौवर्णेराजतेऽपि वा ॥९॥नवमृण्मयपात्रे वा तद लाभे विशेषतः ।अग्निं तत्रैव निक्षिप्य आग्नेये तन्त्रवित्तमः ॥१०॥शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयेत् ।बीजमुख्येनमन्त्रेण अमृतीकृत्यभावयेत् ॥११॥क्षुरिकामर्चयेन्मंत्री गन्धपुष्पादिभिः क्रमात् ।कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् ॥१२॥तन्मध्ये तु सुसंस्थाप्य वागीश्वरीं विशेषतः ।ऋतुस्नाता स कृच्चस्ताद्ध्याययेत् तु विचक्षणः ॥१३॥त्रिभिर्भज्याग्नि नाकुण्डं योगमार्गेण निक्षिपेत् ।बीजमन्त्रेण संस्थाप्य शौचमाचमनं ददेत् ॥१४॥सद्यमन्त्रेण संस्नाप्य प्रशान्तेति त्रिधास्मरन् ।गर्भाधानं कृतं ह्येवं गर्भपुंसवनन्ततः ॥१५॥वामदेवेन मन्त्रेण रुद्राण्यभ्यर्चयेत् ततः ।प्रोक्तं पुंसवनं ह्येवं सीमन्तञ्च ततः शृणु ॥१६॥शिरसा बहुरूपेण गन्धपुष्पादिभिर्युतम् ।वक्त्रेण चास्त्रमन्त्रेण जातकर्मसमाचरेत् ॥१७॥हृदयेनद्विवक्त्रन्तु द्विनासी च षडक्षिकम् ।त्रिमेखलं त्रिपादञ्च चतुश्रङ्गं द्वयं शिरः ॥१८॥सोपवीतं जटामौलिमुक्षारूढं सिताननम् ।सप्तहस्तं सुदीप्ताङ्गं सप्तजिह्वासमावृतम् ॥१९॥हिरण्याकनकारक्ता कृष्णा च सुप्रभा तथा ।अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः ॥२०॥हिरण्यावारुणे जिह्वा कनकामध्ये व्यवस्थिताः ।रक्ताचोत्तरजिह्वा स्यात् कृष्णायाम्यादिशि स्थिता ॥२१॥सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नौ व्यवस्थिता ।बहुरूपे शदिक्भागे जिह्वास्थानं प्रकीर्तिताः ॥२२॥अग्निरूपमिदं गुह्यं सर्वशान्त्यर्थमुच्यते ।एवं रूपं स्मरन्नित्यं जातकर्मसमाचरेत् ॥२३॥पुरुष्टु तेन चैशेन गन्धाद्यैः सुप्रपूजयेत् ।नामकर्मसमाख्यातं पञ्चसंस्कारकं स्मृतम् ॥२४॥प्रागग्रैश्चोदगग्रैश्च कुशैः कुण्डे परिस्तरेत् ।त्रयः परिधयः प्रोक्ताः पश्चिमेदक्षिणोत्तरे ॥२५॥वह्नावीशे समिच्चेत् तु मेखलोपरिनिक्षिपेत् ।दक्षिणे ब्रह्मणस्थानं पद्माकारं प्रकल्पयेत् ॥२६॥प्रणीतामुत्तरे स्थाप्य विष्णुस्तस्याधि दैवतम् ।बीजमुख्येन मन्त्रेण ब्रह्मविष्णू च पूजयेत् ॥२७॥लोकपालास्तथा पूज्या मेखलोपरिदेशिकः ।आज्यस्थालिं चरुस्थालीं प्रणीतां प्रोक्षणीं तथा ॥२८॥होमद्रव्याणि पात्राणि वामपार्श्वे विचक्षणः ।दर्भोपरि तथा द्वंद्वं दैवस्यपि तुरेकशः ॥२९॥पात्राण्युद्वापयेद्विद्वान् सर्वद्रव्याणिशेषतः ।इन्धनाज्यसमित् क्षीर दधीमधु चरूणि च ॥३०॥लाजसक्तूतिलं मुद्गमाढकीमाष एव च ।सर्षपं धवनिवारौ फलापूपौ दशाष्टधा ॥३१॥प्रोक्तान्येतानि सर्वाणि नित्यादौ होमयेत् क्रमात् ।नित्येन्धनादयः सप्त ह्यथवा होमकर्मणि ॥३२॥प्रणीतांभसि सौम्ये तु सर्वतीर्थानि कल्पयेत् ।दक्षिणे होमद्रव्याणि प्रोक्षणीञ्च न्यसेत् क्रमात् ॥३३॥प्राङ्मुखोदङ्मुखोवापि होमं कुर्याद् विशेषतः ।आज्यशुद्धिन्ततः कुर्यात् पर्यग्नि प्लवनं क्रमात् ॥३४॥संप्लवनं कुशेनैव कुशाग्रौ तत्र निक्षिपेत् ।अदिते न्वादिमन्त्रेण सर्वत्र परिषेचनः ॥३५॥जलेन स्पर्शनं कृत्वा वह्नौ सन्तप्प्यतं स्रवम् ।पञ्चविंशद्धुनेद्धिमानग्निबीजन्तु संस्मरन् ॥३६॥अन्नप्राशनमेवं हि अन्यकर्मणिकारयेत् ।हृदयेन तु मन्त्रेण सप्तसप्ताहुतिर्जपेत् ॥३७॥वक्त्रक्रियादिकं सर्वं हृदयेन तु कारयेत् ।शिवाग्निजनितौ ह्येवं पश्चात् संकल्प्य विष्टरम् ॥३८॥अग्निमध्ये ततोमंत्री ह्यब्जं संकल्पयेत् प्रभोः ।पूर्ववत् कल्पयित्वा तु तत आवाहयेच्छिवम् ॥३९॥आवाहनादियत् कर्म पूर्वोक्तविधिना ततः ।होमं कुर्याच्छिवे नांगैर्विद्यांगैर्ब्रह्मभिस्तथा ॥४०॥विद्येशान् लोकपालांश्च अस्त्रशक्तिसमायुतान् ।गन्धपूष्पादिनाभ्यर्च्य होमयेत् तु विचक्षणः ॥४१॥शिवे दशाहुतिं हुत्वा ह्यन्येष्वेकाहुतिर्भवेत् ।सर्वद्रव्यसमायुक्तं शिववक्त्रे नियोजयेत् ॥४२॥शिवब्रह्माङ्ग विद्याङ्ग घृतादीनिहुनेत् तथा ।सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥४३॥शतमष्टोत्तरं वापि पञ्चविंशति षोडश ।द्रव्यान्ते व्याहृतिं हुत्वा तदादौपरिषेचनम् ॥४४॥एवं विधि क्रमेणैव होमयेत् साधकोत्तमः ।वर्णं गन्धं ध्वनीधूमं शिखामग्नौ सुलक्षयेत् ॥४५॥वज्रकाञ्चनरौप्याभं सिन्दूरेन्दु समप्रभम् ।आदित्योदयवर्णाभं हरितालसमप्रभम् ॥४६॥वैडूर्यद्युति संकाशं पिङ्गलञ्च स्वभावतः ।तप्तायससुवर्णाभा दशवर्णाः प्रकीर्तिताः ॥४७॥चन्दनागरु कर्पूरकच्चोलजाति गन्धवत् ।मल्लिका पाटलीगन्धमन्दारञ्च सुगन्धिकम् ॥४८॥उशीरनागपुन्नाग चंपकन्तु सुशोभनम् ।शखभेर्यादिनिर्घोषं मेघदुन्दुभिनिस्वनम् ॥४९॥सर्वसंपत्करं घोषं धूपञ्चैव ततः शृणु ।कुन्दपुष्पसमाकारं श्यामलाक्षाकृतिं शुभम् ॥५०॥शुकपिञ्छनिभाकारं धूमञ्चाप्युत्तमं भवेत् ।स्वस्त्या कृति समाकाराच्छत्राकारोर्ध्वगामिनी ॥५१॥शिखाशिखी प्रतीकाशा कदंबमुकुला कृतिः ।यस्य होमेशिखा ह्येषा तस्य सिद्धिर्न्न संशयः ॥५२॥एवमादि शुभं ज्ञात्वा कारयेत् तन्त्र वित्तमः ।पूर्णाहुतिं ततः कृत्वा शिवमन्त्रेण देशिकः ॥५३॥शिवं पूर्वं विसृज्यात्र पच्छादग्निं विसर्जयेत् ।अग्निकार्यस्य चान्ते तु प्राणाग्नि होममाचरेत् ॥५४॥तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ।तत् स्थानं गोमयालिप्तं शुद्धिं कृत्वा विशेषतः ॥५५॥पिष्टचूर्णैरलङ्कृत्य सवितानं सदीपकम् ।तांम्रकांस्य कटल्यादि पात्रेष्वेक तमेशुभे ॥५६॥पात्रशेषाणि संयोज्य आत्मस्थं शिवमर्चयेत् ।आत्मा हि यजमानोसौबुद्धिस्तत्पत्निका स्मृता ॥५७॥हृत् पुण्डरीकवेद्याञ्च अन्तस्थाग्नौ सुपूजयेत् ।रोमदर्भान् परिस्तीर्य ह्योंकारं शिवसंयुतम् ॥५८॥उच्चार्य परिषिच्याथ पादावभ्युक्ष्यमन्त्रवित् ।अमृतोपेति मन्त्रेण जलं पीत्वा विशेषतः ॥५९॥अनामिमध्यमाङ्गुष्ठ युक्ताभ्यन्नं शनिः शनैः ।पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः ॥६०॥तत्पात्र स्पर्शनं कृत्वा पश्चात् भुञ्जीत बुद्धिमान् ।आचम्य च विधानेन आदित्याभिमुखं स्थितः ॥६१॥उदरं शिवमन्त्रेण दक्षिणाभिमृशेत् ततः ।दक्षिणाङ्गुष्ठके नाथ पादाङ्गुष्ठे तु दक्षिणे ॥६२॥स्रवन्तोयं शिवं स्मृत्वा हृन्मन्त्रन्तु समुच्चरन् ।चुलुकोदकमेवं स्यात् स्वात्मानं पादमूलतः ॥६३॥प्राणाग्निहोत्रमित्येतं नित्यमेवमुदाहृतम् ।आचार्यमूर्तिमास्थाय पाशौघान् कृन्ततीश्वरः ॥६४॥पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविराहुतिम् ।अग्निकार्यमिदं प्रोक्तं शृणुत्वंकुण्डलक्षणम् ॥६५॥इति अग्निकार्यविधि पटल एकादशः ॥११॥ N/A References : N/A Last Updated : January 06, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP