संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
वह्निस्थापनविधिपटलः

अथ क्रियापादः - वह्निस्थापनविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अथातः संप्रवक्ष्यामि वह्नेः संस्थापनं शृणु ।
परिवारेऽप्यथाग्नेय्यां विमाने पूर्ववत् कृते ॥१॥

तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः ।
हस्तमानेन वा चार्धकरेणैव तु पीठकम् ॥२॥

त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा ।
पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् ॥३॥

यत्ते नाद्यस्वरोपेतं प्रथमंबीजमिष्यते ।
रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना ॥४॥

द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् ।
शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् ॥५॥

जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् ।
तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे ॥६॥

मौलिना भूषिताः सर्वे भुक्तिमुक्तिफलप्रदम् ।
वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् ॥७॥

वरदाभयहस्तञ्च - - - - - ।
शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् ॥८॥

एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च ।
वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् ॥९॥

यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः ।
संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः ॥१०॥

धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् ।
प्रागुक्तेन क्रमेणैव पञ्चाग्निं संप्रकल्पयेत् ॥११॥

त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः ।
लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् ॥१२॥

जलाधिवासयेत् बिंबं शैलजे तु विशेषतः ।
ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि ॥१३॥

प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् ।
निर्दोषां नवकुंभाश्च वर्धन्यां सहसूत्रके ॥१४॥

संयोज्यगन्धतो येन पूरयित्वा सकूर्चकान् ।
वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् ॥१५॥

स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् ।
आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् ॥१६॥

वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च ।
अष्टकुंभांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् ॥१७॥

स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा ।
भास्करं वामकेकुंभे लोकेशां स्वस्वदिक्षु च ॥१८॥

विन्यस्याभ्यर्च्य गन्धाद्यैः कुंभानां दक्षिणे तथा ।
संकल्प्यचासनं प्राग्वत् तस्मिन् बिंबं सुशाययेत् ॥१९॥

आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् ।
शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् ॥२०॥

अग्निमूर्तिन्तु संकल्प्य समिधान्याज्यलाजकैः ।
तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् ॥२१॥

प्रभाते सुमुहूर्ते तु शयनात् बिंबमुद्धरेत् ।
समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् ॥२२॥

स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे ।
पीठे वा न्यस्य बिंबन्तु रत्नन्यासादनन्तरम् ॥२३॥

हृदये पञ्चमंबीजं मुर्ध्निवक्त्रे च नाभिके ।
गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् ॥२४॥

गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् ।
पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् ॥२५॥

ततः कुंभान् सुमुद्धृत्य मध्ये कुंभन्तु पञ्चभिः ।
बीजैः पिण्डेनबिंबन्तु प्रागुक्तन्यासमार्गतः ॥२६॥

तत्कुंभवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः ।
तत्कुंभस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः ॥२७॥

यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः ।
देशिकं पूजयेत् तत्र वस्त्रहेमांगुलीयकैः ॥२८॥

वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं शृणु ।

इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः ॥४१॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP