संस्कृत सूची|शास्त्रः|शिल्पशास्त्र|सुप्रभेदागमः|अथ क्रियापादः|
विभवनिश्चय पटलः

अथ क्रियापादः - विभवनिश्चय पटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


N/Aअथातः संप्रवक्ष्यामि विभवस्य विनिश्चयम् ।
साम्रतं हारकञ्चैव द्विविधं मार्गमुच्यते ॥१॥

शिवं साम्रमिति प्रोक्तमन्येषां हारकं स्मृतम् ।
अशक्तः साम्रतं कर्तुं हारकेणसमारभेत् ॥२॥

समाप्ति पूर्वं यत् कर्मसाम्रतं ह्यभिधीयते ।
पश्चात् कर्मसमाप्तिः स्यात् हारकं मार्गमुच्यते ॥३॥

नवधा कल्पयेद् विद्वान् यज्ञोपस्करमादरात् ।
आदिशैवांस्तपोयुक्तां विधिज्ञान् मन्त्रसंयुतान् ॥४॥

शिवव्रतधरान्मुख्यान् शैववेद विशारदान् ।
यस्मिन् सञ्जायते भक्तिस्तस्मिन्नाहूयशास्त्रतः ॥५॥

सर्वशास्त्राश्रितं शास्त्रं सर्वज्ञानेषु दुर्ल्लभम् ।
सर्वपूजा क्रियायुक्तं तन्त्रं सर्वार्थसाधनम् ॥६॥

इदं शास्त्रं परं दिव्यं तमसामिव भास्करः ।
तस्माच्छैवमिदं श्रेष्ठं रत्नानामिव भास्करः ॥७॥

शैवरत्नमतं दिव्यं शैवशास्त्रार्थ पारगाः ।
जङ्गमा इवमूर्तिस्थाः शिवस्येव विशेषतः ॥८॥

नमस्कृत्वा यथा न्यायं पप्रच्छेत् सविधानतः ।
अनुज्ञाप्य स्वदेशस्थान् भक्तियुक्तान् दृढवृतान् ॥९॥

यूयं दासाः शिवेमुख्या युष्माकमिहमुख्यतः ।
भक्तस्य मम दासस्य युष्मद् भक्तिपरस्य च ॥१०॥

अनुमान्यो भवद्भिश्च पूजा संप्रतिग्रह्यताम् ।
अहं दीक्षां करीष्यामि येषु यज्ञपरं परम् ॥११॥

समाप्यताञ्च युष्माभिर्दीर्घ सत्रं विशिष्यते ।
अरिष्टानाञ्च शान्त्यर्थं यूयमेव प्रगृह्यताम् ॥१२॥

तत् पुनर्महदत्यन्तं युष्माकं प्रक्षिपाम्यहम् ।
शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च ॥१३॥

एत देवञ्च कर्तव्यं मयायज्ञसमाप्तिकम् ।
युष्मच्छासनमार्गेण प्रयताम विशेषतः ॥१४॥

हविषामध्यमे तावदर्चनाभोगमेव तु ।
गन्धपुष्पार्थमेतावद् धूपस्य च तथैव च ॥१५॥

स्नपनार्थं तथा चैव उत्सवार्थं तथैव च ।
एतावत् परिचाराणामुद्भूतिकसमन्वितम् ॥१६॥

प्रायच्छित्तार्थमेतावत् कृत्तिकादीपकाय वै ।
आश्रायणार्थमेतावत् प्रभूतहविरत्थकम् ॥१७॥

न्यूनातिरिक्त वस्त्वेश्च सर्वेषाङ्गुरवे तथा ।
तन्त्र संरक्षकस्यैव एतावल्लेखकस्य च ॥१८॥

श्रोतॄणाञ्चैव वक्तुश्च दैवज्ञस्य तथैव हि ।
शुश्रूषकाणामेतावत् भोगमेताव देव तु ॥१९॥

शैवातिथ्यर्थमेतावत् भक्तानामपि चैव हि ।
वाद्यकानां हि वै तावत् तथा वै तक्षकस्य तु ॥२०॥

यथार्हकं तथा स्मृत्वा स्मृत्वा चैव तु कारयेत् ।
इति सञ्चिन्त्य सर्वस्वं परिकल्प्य यथा क्रमम् ॥२१॥

भूमिभागेन वै ह्येषां भृत्त्यर्थं परिकल्पयेत् ।
यद्यन्तरेभि ह्रियते तत् समाप्तिफलं भवेत् ॥२२॥

अक्षीणं कल्पयेत् तेषां यथा शुद्धां न भोजनम् ।
अक्लेशवस्त्रा जीवन्ति नित्यं गन्धादिवासिताः ॥२३॥

ग्रहस्थान् स्थापयेद् धीमान् सर्वोपकरणानि तु ।
सुपुष्टभोगङ्कृत्वा तु सुस्थिरं शासनान्वितम् ॥२४॥

कृत वा नल्पभोगं यः क्लेशेन परिचारकान् ।
सतमेव हि देवेशः क्लेशयत्य चलात्मकः ॥२५॥

न तिष्ठेद्यदि वा तिष्ठेत् नतमाढ्यं प्रकल्पयेत् ।
स्वयत्नतः फलंदातु रदा तुश्चाप्यफं व्रजेत् ॥२६॥

सहैकविंशत् पूर्वैस्तु स्वकुलैश्च तथानुजैः ।
वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः ॥२७॥

न तत्फलमवाप्नोति प्रलोभा क्रान्तमानसः ।
तस्मात् त्रिभागं वित्तस्य जीवनार्थमथात्मनः ॥२८॥

भागद्वयञ्च धर्मार्थमनित्यं जीवितं यतः ।
साधयित्वा च तत् पूर्णन्ताम्रपात्र तलेर्पितम् ॥२९॥

निश्चयं विभवस्योक्तं कर्षणं शृणु सुव्रत ।

इति विभवनिश्चयपटलश्चतुर्विंशतितमः ॥२४॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP