अथ क्रियापादः - शिवोत्सवविधि पटलः
सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.
अथातः संप्रवक्ष्यामि शिवोत्सवविधिं शृणु ।
नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं स्मृतम् ॥१॥
पञ्चाहमधमं प्रोक्तमुत्सवं त्रिविधं स्मृतम् ।
अलाभे तु प्रकर्तव्यौ त्रयहैकाहकौ तथा ॥२॥
आद्येषु च त्रितीयेषु ध्वजारोहणमारभेत् ।
न ध्वजारोहणं प्रोक्तं द्वितये तु तथोत्सवे ॥३॥
तद्दिनं त्रिगुणि कृत्य तदादौध्वजमुद्धरेत् ।
द्विगुणे तद्दिनादौ वा ध्वजमारोप्य बुद्धिमान् ॥४॥
ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् ।
त्रिगुणे द्विगुणे काले कारयेद् देशिकोत्तमः ॥५॥
अङ्कुरार्पण पूर्वे तु आदिरात्र्यङ्कुरार्पणम् ।
कृत्वा भेरीन्तु सन्ताड्य ध्वजमारोपयेत् ततः ॥६॥
उत्सवे च प्रतिष्ठायं सायादिदिनमुत्तमम् ।
प्रातः काले ह्यवभृथं सायङ्काले समारभेत् ॥७॥
रात्रिः सायाह्नि वा प्रातरितिशास्त्रस्य निश्चयः ।
नवाहेऽष्टादशबलिं सप्ताहे तु चतुर्दश ॥८॥
पञ्चत्रयैक ऋक्षषु दशषट्द्वितयं बलिम् ।
एवं कृते तु मतिमान् लोकशान्तिकरं भवेत् ॥९॥
कृत्तिकादिषु मासेषु कार्तिके कृत्तिकान्तकम् ।
मार्गशीर्षकमासेषु आर्द्रान्तन्तु शिवोत्सवम् ॥१०॥
पुष्यान्तं पौष्यमासे तु मघान्तं माघमासके ।
फाल्गुने चोत्तरान्तं स्यात् चित्रान्तञ्चैत्रमासके ॥११॥
विशाखान्तं हि वैशाखे ज्येष्ठे मूलान्तकं भवेत् ।
उत्तराषाढमाषाढे श्रावणे श्रवणान्तकम् ॥१२॥
पूर्वाभाद्रे तथा मासे पूर्वाभाद्रान्तमुच्यते ।
आश्वन्तमश्वयुङ्मासे उत्सवं कारयेत् बुधः ॥१३॥
आर्द्रान्तं सर्वमासेषु कर्तव्यन्तु शिवोत्सवम् ।
षष्ठ्यष्टमीह्यमावास्यान्ते वान्यत् पुण्य ऋक्षके ॥१४॥
राज्ञन्मन्य विलये युद्धारंभे समारभेत् ।
विस्तारेणसमं पुच्छं त्रिपुच्छं वा द्विपूच्छकम् ॥१५॥
मध्ये वृषभमालिख्य स्थितं वा शयनन्तु वा ।
दर्भमालासमायुक्तं किंकिणिवरकान्वितम् ॥१६॥
ग्रामप्रदक्षिणं कृत्वा चालयं वा प्रदक्षिणम् ।
वेणुं वा क्रमुकं वापि चन्दनञ्जातिबिल्वकम् ॥१७॥
सालस्तं भञ्चखदिरञ्चंपंकं देवदारुकम् ।
नालिकेरतरुं वापि निर्णितं सुदृढध्वजम् ॥१८॥
प्रासाद त्रिगुणं दैर्घ्यं द्विगुणं वा ततः समम् ।
शिखरग्रीवसीमान्तं वृषभस्थलसंमतम् ॥१९॥
तथा द्वित्रितलान्तं वा गोपुरान्तमथापि वा ।
षट्त्रिंशदंगुलन्नाहं ध्वजदण्डं विधीयते ॥२०॥
त्रिंशदंगुलके नाथ चतुर्विंशन्तु वाङ्गुलम् ।
उत्तमादधमन्नाहं ग्राह्यमेवं सुदण्डके ॥२१॥
घटिकात्रयसंयुक्तं विस्तारेऽष्टाङ्गुलेन तु ।
तत् घनञ्चतुरङ्गुल्यं त्रिभिरङ्गुलिभिस्तु वा ॥२२॥
दैर्घ्यन्तु द्वादशाङ्गुल्यं षोडशाङ्गुल्यकन्तु वा ।
दण्डे तु सुषिरं कृत्वा सुस्निग्धन्तु यथा तथा ॥२३॥
घटिकात्रयकं न्यस्य तेष्वन्तस्थं सवैणवम् ।
दण्डाग्रेण समं कुर्यादग्रं वेणवकस्य तु ॥२४॥
दण्डञ्चाप्यथवा कुर्यात् घट्यन्तस्थं सुनिश्चलम् ।
वैणवस्य तु दैर्घ्यन्तु द्वादशन्तालमुच्यते ॥२५॥
अथवा षोडशन्तालं चतुर्दशन्तालमेव वा ।
दशतालन्तु वा ग्राह्यं द्वादशाङ्गुल नाहकम् ॥२६॥
तस्यार्धार्धश्च मात्रे तु वलयन्त्वायसेन तु ।
यन्त्रार्थं बन्धयेद्धीमानलाभे दारुणा भवेत् ॥२७॥
तदन्ते रज्जुसंवेश्य द्विगुणं मूलमाश्रितम् ।
मध्यमाङ्गुलिनाहन्तु तन्तुना सुदृढं कृतम् ॥२८॥
पीठगोपुरयोर्मध्ये वृषभस्याग्रतोऽपि वा ।
कलयेन्मध्यहारायां मध्यादेर्मध्यमेपि वा ॥२९॥
भूमिं खात्वोरुमात्रन्तु हैमन्तत्रैव निक्षिपेत् ।
दण्डं संस्थाप्य पूर्वन्तु दर्भमालासमावृतम् ॥३०॥
चतुस्तालन्तु विस्तारादुत्सेधं द्वितलान्तकम् ।
दर्पणोदर संकाशं ध्वजपीठं विधीयते ॥३१॥
पञ्चतालन्तु विस्तारमुत्सेधन्तु त्रितालकम् ।
उत्तमोत्तमपीठस्य मध्यमस्योर्ध्वमुलतः ॥३२॥
तयोर्मध्येऽष्टधाभज्यध्वजपीठानव स्मृताः ।
ध्वजमारोपयेत् तत्र रज्जुयन्त्रेण बुद्धिमान् ॥३३॥
प्रासादाभिमुखं स्थित्वाप्य घोरास्त्रेणमन्त्रतः ।
ध्वजदण्डेन संबध्वा रोपयेद्विधिपूर्वकम् ॥३४॥
प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥३५॥
सर्वदेवमयं शूलं स्थण्डिलोपरिविन्यसेत् ।
मध्यपत्रे भवेद् रुद्रो ब्रह्मादक्षिण पत्रके ॥३६॥
वामपत्रे ततो विष्णु स्त्रिपत्रस्याधिदैवतम् ।
वामे ज्येष्ठान्तु रौद्रीन्तु शूलमूले प्रकल्पयेत् ॥३७॥
फलकास्कन्ददैवत्या कुंभन्तत्रैव वारुणम् ।
स्थली चैवाग्निदैवत्यं दण्डस्य तु सरस्वती ॥३८॥
पीठस्य पार्वती प्रोक्ता भूमिभागे वसुन्धरा ।
गन्धादिभिः समभ्यर्च्य तदग्रे कलशान्न्यसेत् ॥३९॥
विद्येश्वरसमायुक्तां मध्ये वृषभदैवतम् ।
सकूर्चान् सा पिधानांश्च सहास्त्रान् स हिरण्यकान् ॥४०॥
गन्धादिनार्चयित्वा तु स्वैस्वैर्नामभिरेव तु ।
तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रेण वेष्टिताम् ॥४१॥
पटहं विष्णुदैवत्यं सुषिरं वायुदैवतम् ।
शब्दन्तत् ब्रह्मरूपं स्याद् रूपाभावस्तथैश्वरम् ॥४२॥
वासुकी चर्मसूत्रन्तु वलयौरविचन्द्रकौ ।
मातरः सप्तकीलास्तु प्रहारास्कन्ददैवतम् ॥४३॥
अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणम् ।
आचार्यं पूजयेत् पूर्वं वादकं तदनन्तरम् ॥४४॥
आचार्यो वाममन्त्रेण सन्ताड्य स्त्रिप्रकारतः ।
वादकस्ताडयेत् पश्चात् बलितालं विशेषतः ॥४५॥
गेयनृत्तादिसंयुक्तं दिशितालन्तु वादयेत् ।
तीक्ष्ण शृङ्गायविद्महे वेदपादायधीमहि ॥४६॥
तन्नो वृषभः प्रचोदयात् * * * * * * * ।
इमं मन्त्रमनुस्मृत्य रवन्दत्वा विशेषतः ॥४७॥
तन्मूलेकलशैः स्नाप्यमुद्गान्नन्तु निवेदयेत् ।
पुण्याहन्तत्र कर्तव्यं भेर्यारवमथाचरेत् ॥४८॥
शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमाकुलम् ।
सर्वालङ्कारसंयुक्तं त्रिशूलेनसमन्वितम् ॥४९॥
ग्रामप्रदक्षिणे काले सन्धिदेवान् समर्चयेत् ।
आवाह्य लोकपालांश्च बलिन्दत्वा विशेषतः ॥५०॥
श्रावयेत् तीर्थदिवसानाचर्य प्रीतमानसः ।
त्रिशूलञ्च ध्वजन्नित्यं संपूज्य हविषान्वितम् ॥५१॥
उत्सवारंभ पूर्वे तु रथादीन् कारयेत् क्रमात् ।
यन्त्र डोलांदृढाञ्चित्र यन्त्र रंगांस्तथैव च ॥५२॥
यन्त्र देवालयांश्चैव मन्त्रमण्डपिकां तथा ।
भ्रमत् गजांश्चयन्त्रांश्च सिंहयन्त्रान्तथैव च ॥५३॥
वृषभं यंत्रिकांश्चैव कारयेत् सुविशेषतः ।
नानापिच्छान्विताञ्छत्रां नानाव्यजनमेव च ॥५४॥
नानाच्छत्रध्वजांश्चैव चामराण्यपि कारयेत् ।
देवालयमलङ्कृत्य बाह्यमभ्यन्तरं ततः ॥५५॥
द्वारतोरणविन्यासं कदली क्रमुकान्वितम् ।
देवालयस्य पुरतः प्रपाङ्कृत्वाति सुन्दराम् ॥५६॥
वितानो परिसञ्छन्नां मुक्तादामैरलङ्कृताम् ।
पुष्पमालासमायुक्तामलङ्कृत्य प्रपां क्रमात् ॥५७॥
स्तंभानावेष्ट्य वस्त्रैश्च फलपुष्प ध्वजान्वितान् ।
यागशालां ततः कुर्यात् पूर्वोत्खातस्य पार्श्वयोः ॥५८॥
उत्तरे वाथ कर्तव्यमैशान्न्यां पावके तथा ।
मण्डपे वा दृढं कार्यं षोडशस्तंभसंयुतम् ॥५९॥
नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥६०॥
कुण्डानिपरितः कुर्यादेककुण्डमथापि वा ।
गोमयेनोपलिप्यात्र नानापुष्पैः प्रकीर्य च ॥६१॥
सूक्ष्मैस्तण्डुल चूर्णैस्तु नानावर्णसुचूर्णकैः ।
वज्राङ्कुशं त्रिशूलञ्च चक्रं तत्र तथैव च ॥६२॥
पद्मञ्चैवोत्पलाङ्कञ्च नन्द्यावर्तकमेव च ।
कुम्भाभं मध्यचन्द्राभं वृक्षाकारांश्च लाञ्छयेत् ॥६३॥
वामां वा नगरादीं वा ह्यलङ्कृत्य विशेषतः ।
वीधयश्चोपवीध्यश्च निम्नोन्नतविवर्जिताः ॥६४॥
शोधयित्वा समांभूमिञ्जलसेकोपलेपनैः ।
पताकाभिर्ध्वजैश्चापि तथा काशद्ध्वजैरपि ॥६५॥
कदलीभिर्धूपदीपैर्द्वारकुंभैरथान्यकैः ।
साङ्कुरैच्छिद्र कुम्भैश्च पालिकाभिः समन्ततः ॥६६॥
वस्त्रैश्च गन्धमाल्यैश्च भवनं प्रतिभूषयेत् ।
ततोङ्कुरार्पणङ्कुर्यादुत्सवस्य दिनादितः ॥६७॥
यथाङ्कुरार्पणे प्रोक्ता तथा कुर्याद् विशेषतः ।
वेदिमध्ये ततः कृत्वा स्थण्डिलं शालिकामयम् ॥६८॥
षट्द्रोणैः पञ्चद्रोणैर्वा चतुद्रोणैस्तु वा पुनः ।
तण्डुलैः समलंकृत्य तिलैर्दर्भैस्ततोपरि ॥६९॥
ससूत्रं कुर्चवस्त्राढ्यं पञ्चरत्नसमन्वितम् ।
शिवकुम्भं न्यसेन्मध्ये वर्धनं तस्य वामतः ॥७०॥
वस्त्रकूर्च्च समायुक्तं हेमयुक्तं प्रकल्पयेत् ।
ध्यात्वा सदाशिवं देवं शिवकुम्भे निवेशयेत् ॥७१॥
मनोन्मनींस्तु सञ्चिन्त्य वर्धन्यां विन्यसेत् सुधीः ।
परितोऽष्टौ घटां न्यस्य विद्येश्वरसमन्वितान् ॥७२॥
सकूर्चान्वस्त्रसंयुक्तान् सहेमान्वारिपूरितान् ।
कलशाधिपतींस्तत्र स्वैस्वैर्मन्त्रैः सुपूजयेत् ॥७३॥
लोहादिदारुवर्णहनि आयुधानिदशक्रमात् ।
वक्ष्यमाणोक्तविधिना कारयेत् प्रतिमाकृति ॥७४॥
वेदिकायास्तु परितस्त्वायुधानि प्रपूजयेत् ।
वज्रादीन् स्थापयेद् विद्वान् पूर्वादिषु प्रदक्षिणम् ॥७५॥
वामे संस्थाप्य चक्रन्तु दक्षिणे पद्ममेव च ।
अष्टमङ्गलरूपाणि वेदिबाह्ये प्रपूजयेत् ॥७६॥
शूलास्त्रं विन्यसेत् तत्र उत्सवे योगधामनि ।
अग्निकार्यन्ततः कृत्वा नवपञ्चैक वा पुनः ॥७७॥
एकाग्नेर्वेदिका पूर्वे ह्युत्तरे पश्चिमेऽथवा ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥७८॥
पर्यग्निकरणं कृत्वा यागशालां विशेषतः ।
यवं हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः ॥७९॥
तिलमीशानमन्त्रेण हुत्वामुद्गन्तु नेत्रतः ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥८०॥
पूजावसाने विद्वान्वै वह्निकार्योक्तमाचरेत् ।
अर्चनं विधिनावत्स सायं प्रातर्दिने दिने ॥८१॥
होमान्ते तु बलिं दद्यात् बल्यन्ते चोत्सवं बुधः ।
प्रथमं विश्वरात्रन्तु द्वितीयं भूतरात्रकम् ॥८२॥
तृतीयमृषिरात्रं स्याच्चतुर्थञ्चेन्द्ररात्रकम् ।
पञ्चमं ब्रह्मरात्रन्तु षष्ठं वै विष्णुरात्रकम् ॥८३॥
सप्तमं रुद्ररात्रं स्यादष्टमञ्चैश्वरस्य तु ।
सदाशिवस्य नवमन्नवाहेष्वधि देवताः ॥८४॥
ऋषिरात्रं समारभ्य सदाशिवदिनान्तकम् ।
सप्ताहेतु प्रयोक्तव्यं ब्राह्म्यात् सदाशिवान्तकम् ॥८५॥
पञ्चाहेतु प्रयोक्तव्यं रुद्रात्सदाशिवान्तकम् ।
त्रयहेत्विति चैका हे सदाशिव पदान्तिकम् ॥८६॥
त्रयहेत्वितिचैकाहे सदाशिवदिनं भवेत् ।
हविर्भिर्दीपकैश्चैव दिनेष्वेतेषु नित्यशः ॥८७॥
विशेषात् पूजनं कुर्यात् विभवस्यानुरूपतः ।
ग्रामाधिदैवतांश्चैव पूजयेत् तु विशेषतः ॥८८॥
शुद्धान्नन्दधिसंमिश्रं लड्डुकापूपसंयुतम् ।
फलञ्च गुलसम्मिश्रं गणेशस्य प्रियन्त्विदम् ॥८९॥
बलयोरजनी पूर्णं घृतान्नन्दधिसक्तुकम् ।
भूत क्रूरबलिः प्रोक्तस्तेन भूतबलिं हरेत् ॥९०॥
पञ्चमूलङ्कुशाग्रञ्च शाल्यनञ्चाज्यमिश्रकम् ।
कदलीफलसंयुक्त मृषीणां बलिरुच्यते ॥९१॥
इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृतसंयुतम् ।
चतुर्थे हनिदातव्यमिन्द्रस्य बलिरुत्तमम् ॥९२॥
पद्मपुष्पं स रजनी पायसंलाजसंयुतम् ।
पञ्चमे हनिदातव्यं ब्रह्मणोबलिरुच्यते ॥९३॥
गुलोदनं घृतोपेतं बृहतीफलसंयुतम् ।
षष्ठे हनि च दातव्यं विष्णु प्रीतिकरं परम् ॥९४॥
साज्यन्तु कृसरान्नं वै नालीकेरफलैर्युतम् ।
सप्तमे हनिदातव्यं रुद्रप्रीतिकरं भवेत् ॥९५॥
वेणुकन्दधिसंयुक्तं कदलीफलसंयुतम् ।
अष्टमे हनिदातव्यमीश्वरस्य बलिस्तथा ॥९६॥
शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम् ।
कदलीपनसोपेतं गुलखण्डसमिश्रितम् ॥९७॥
नवमे हनिदातव्यं सादाख्यस्य शिवस्य तु ।
सर्वेषामपि शुद्धान्नमाज्ययुक्तं दधिप्लुतम् ॥९८॥
दापयेद् वा विशेषेण तत्तन्मन्त्रेण देशिकः ।
द्रोणं वापि तदर्धं वा तदर्धं वापि पाचयेत् ॥९९॥
कपित्थफलमात्रेण बलिं दत्वा पृथक् पृथक् ।
उत्सवस्य पुरस्तात्तु दद्यात् ग्रामबलिं तथा ॥१००॥
वाद्यध्वनिसमायुक्तं धूपदीपसमायुतम् ।
ध्वजैः पिञ्छैः समायुक्तं स्तोत्रमङ्गलवाचकैः ॥१०१॥
यज्ञपिठोपरिस्थाप्य त्रिशूलञ्चान्नलिङ्गकम् ।
दशायुधानि परितः स्थापयेद् देशिकोत्तमः ॥१०२॥
यज्ञाभावे तु तत् सर्वं व्रजेयुः शिरसाधृताः ।
आचार्यः शिष्य संयुक्तः सर्वाभरणभूषितः ॥१०३॥
सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः ।
आदिशैवः प्रसन्नात्मा श्रद्धाभक्तिसमन्वितः ॥१०४॥
ब्रह्मादीशानपर्यन्तमिंद्रादीशान्तमेव वा ।
बलिं दत्वा तु तत् ग्रामे देवैश्चैवं विशेषतः ॥१०५॥
सायं प्रातर्बलिं दद्यात् होमान्ते तु विशेषतः ।
उत्सवं प्रारभेदन्ते सर्वालङ्कारसंयुतम् ॥१०६॥
नानाप्रहरणोपेताः सगजाश्चाग्रतस्ततः ।
तदन्ते तुरगारूढास्तदन्ते गजवाहनाः ॥१०७॥
यन्त्ररङ्गास्तदन्ते तु दिव्यस्त्री परिभूषिताः ।
तदन्ते शाश्चयन्त्राश्च डोलायन्त्राश्च मण्डपाः ॥१०८॥
यन्त्र देवालयं पश्चान्नृत्तगेयसमन्विताः ।
आद्यं सुखासनं प्रोक्तं द्वितीयमुमयासह ॥१०९॥
वृषारूढं त्रितीयन्तु त्रिपुरघ्नञ्चतुर्थकम् ।
नृत्ताख्यं पञ्चमं प्रोक्तं षष्ठ वै चन्द्रशेखरम् ॥११०॥
सप्तमं त्वर्धनारीशं हरिरर्धन्तु चाष्टमम् ।
भिक्षाटनं च नवमं दशमङ्कालनाशनम् ॥१११॥
दशैकं कामदहनं ततो लिङ्गं पुराणकम् ।
द्वादश प्रतिमास्त्वेते सर्वालङ्कारसंयुताः ॥११२॥
रङ्गे वा शिबिकायां वा रथेवारोप्य भक्तितः ।
आदिशैवानुशैवाश्च देवानामनुगा स्मृताः ॥११३॥
पशुपतास्तदन्ते तु महावृतधरास्त्वनु ।
कालामुखास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् ॥११४॥
तदग्रे रुद्र गणिकाः सर्वालङ्कारसंयुताः ।
तदन्ते गायकाः प्रोक्तास्तदन्ते नर्तका व्रजेत् ॥११५॥
ईश्वरः शक्तिसहितस्ततो गच्छेश्चनैः क्रमात् ।
योषिद्भिः सत्रिशूलादि यन्त्रदीपैर्विशेषतः ॥११६॥
अस्त्रदीपैर्यष्टिदीपैः सर्वत्र परिशोभितः ।
वितानैच्छिद्र दीपैश्च पताकाभिश्च शोभितः ॥११७॥
सर्वेषां पृष्ठतो गच्छेच्चण्डेशः समलङ्कृतः ।
तदग्रे घोषयेत् सम्यक् सर्वातोद्यान् क्रमेण तु ॥११८॥
पटहैर्मद्दलैस्तालैर्भेरीपणवडुण्डुभैः ।
जर्झरी झल्लरी मोन्तैर्वीणावेणुरवैस्तथा ॥११९॥
अग्रतः पृठतश्चैव घोषयेत् सविशेषतः ।
तदन्ते वैश्य शूद्राद्यागच्छेयुर्भक्तिसंयुताः ॥१२०॥
सर्वे वर्णास्तदन्ते तु व्रजेयुः क्रमशस्ततः ।
ये देवमनुगच्छन्ति तत्गतेनान्तरात्मना ॥१२१॥
पदे पदेश्वमेथस्य प्राप्नुवन्ति फलं नराः ।
वृद्धबालयुवानश्च स्त्रियश्च पुरुषास्तथा ॥१२२॥
सर्वपापाद्विमुच्यन्ते सर्वत्रैव समन्विताः ।
एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरन्तु वा ॥१२३॥
शनैर्देवालयङ्गच्छेत् बलिपीठे बलिं क्षिपेत् ।
पादप्रक्षालनङ्कृत्वा प्रविशेदालयं प्रति ॥१२४॥
प्रपाङ्कृत्वा स्थितं देवं सर्वदेवगणैः सह ।
मृदङ्गादिमहाशब्दं शिवस्य पुरतस्थितम् ॥१२५॥
नमकश्चमकश्चैव दक्षिणे तु व्यवस्थितौ ।
गान्धर्वकोवं शकश्च उत्तरे तु व्यवस्थितौ ॥१२६॥
आचार्यो दक्षिणेभागे नृपस्तस्यैव चोत्तरे ।
उभयोरपि पार्श्वाभ्यां देवस्य गणिका स्मृताः ॥१२७॥
देवस्याग्रे विशेषेण नृत्तं कुर्यात्सगेयकम् ।
नीराञ्जनं कर्तव्यं देवदेवस्य चोत्सवे ॥१२८॥
भस्मपुष्पञ्च दीपञ्च पात्रेषु च विनिक्षिपेत् ।
पुरादत्वा त्वाचमनं पुष्पं शिरसि विन्यसेत् ॥१२९॥
अच्युतं मूर्ध्नि विन्न्यस्य गन्धं दद्याद् विशेषतः ।
पुनराचमनं दद्याद् धूपदीपं प्रदापयेत् ॥१३०॥
पिष्टे विन्यस्त दीपेन भ्रामयेच्छिवमूर्धनि ।
तदन्ते दापयेत् भस्मदर्पणं दर्शयेत् पुनः ॥१३१॥
गणिकाभिर्वहित्वा तु वाद्यध्वनि समायुतम् ।
पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिः क्षिपेत् ॥१३२॥
कारयेत् साधकेन्द्रेण एतत् साये तु रक्षयेत् ।
वस्त्रादिनि प्रदातव्यं भक्तानाञ्च विशेषतः ॥१३३॥
परिवेष क्रमं ह्येवं दर्शनादघनाशनम् ।
यावद् देवोत्सवं कुर्यात् तावदेवदिने दिने ॥१३४॥
अनाद्यं सर्ववर्णानां दद्याद् देवस्य तुष्टये ।
तत स्त्रीर्थदिनात् पूर्वे मृगयात्रां समारभेत् ॥१३५॥
युद्धारंभ प्रभावेन ग्रामङ्गत्वा प्रदक्षिणम् ।
कौतुकं बन्धयेद् धीमान् तस्मिन्रात्रौ विशेषतः ॥१३६॥
सौवर्णं रजतं सूत्रं अथ कार्पासमेव वा ।
स्थण्डिलोपरिसंस्थाप्य त्रिशूलं स्थण्डिलोपरि ॥१३७॥
याग मण्डपमध्ये तु शूले कौतुकबन्धनम् ।
हृदये नैव कृत्वा तु पुण्याहन्तत्र कारयेत् ॥१३८॥
उत्सवप्रतिमां बध्वा कौतुकं हृदयेन तु ।
स्थण्डिलोपरिसंस्थाप्य कलशान्नवसङ्ख्यया ॥१३९॥
पिधानकूर्चवस्त्राढ्याञ्छिव विद्येश्वरान्वितान् ।
गन्धादिभिः समभ्यर्च्य शूलन्तैः स्नानमाचरेत् ॥१४०॥
नद्यां वाप्यां तटाके वा हृदे स्नानं समाचरेत् ।
अथ नद्यादिषु स्नानं विना वा शेषमाचरेत् ॥१४१॥
होमबल्युत्सवान् प्रातः कृत्वा चूर्णोत्सवन्ततः ।
प्रासादस्याग्रतो वापि याम्ये वा पावकेऽथवा ॥१४२॥
गोमयालेपनं कृत्वा धूपदीपैः समन्वितम् ।
पालिकाद्यैरलङ्कृत्य स्थण्डिलन्तत्र कारयेत् ॥१४३॥
शूलं पश्चिमतः स्थाप्यो लूखलं मुसलं ततः ।
वस्त्रेणो लूखले वेष्ट्यदर्भैरावेष्टयेत् पुनः ॥१४४॥
गन्धाद्यैरर्चयित्वा तु त्रिशूलं लूखलं ततः ।
घृतं शिरोर्पणङ्कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥१४५॥
सुशुष्कां रजनीं पूर्वं चूर्णे चूर्णे तु लूखले ।
हृदा प्रक्षिप्य चास्त्रेण कुट्टयेद् देशिक स्त्रिभिः ॥१४६॥
ततो भक्तजनैः सार्धं चूर्णयेद् देशिकोत्तमः ।
संस्नाप्य लिङ्गं चूर्णेन पञ्चब्रह्मसमुच्चरन् ॥१४७॥
स्नापयेत् कौतुकं शूलं हृन्मन्त्रेण सतैलकम् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥१४८॥
ग्रामं वा नगरं वापि शीघ्रङ्गच्छेत् प्रदक्षिणम् ।
नदीतटाकतीरे वा स्थण्डिले द्वितये कृते ॥१४९॥
शूलन्तत्रैव संस्थाप्य तत्पूर्वेकलशां न्यसेत् ।
अर्चयेत् स्वस्वमन्त्रेण शूलं वै कलशांस्तथा ॥१५०॥
गङ्गा च यमुना चैव नर्ददा च सरस्वती ।
सिन्धुर्गोदावरी चैव कावेरी चैव सप्तकान् ॥१५१॥
आवाह्य मध्यकलशे गन्धतोय सुपूरिते ।
अनन्तादि शिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ॥१५२॥
पुण्याहं वाच्यशूलास्त्र देवानभ्यर्च्य पूजयेत् ।
स्नापयेत् कलशैः पश्चात् स्नानं तीर्थे समाचरेत् ॥१५३॥
त्रिशूलेन सहैवात्रये तीर्थं कुर्वते नराः ।
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ॥१५४॥
याग गेहे शिवाग्नौ तु दद्यात् पूर्णाहुतिं पुनः ।
होमोपरिष्टात् तत्रस्थं शास्त्रोक्तं सुसमाचरेत् ॥१५५॥
यागेशं पूजयेत् पश्चात् गन्धपुष्पादिभिः शुभैः ।
साधितैः कलशैस्तत्र स्नपनं कारयेच्छिवम् ॥१५६॥
भक्तानां परिचाराणां वस्त्रादिभिः प्रदापयेत् ।
ध्वजावरोहणं कुर्यात् तत्रादौ तु विशेषतः ॥१५७॥
त्रयाहे वापि पञ्चाहे सप्ताहे वा वरोहयेत् ।
स्नपनन्तु ततः कृत्वा मूललिङ्गे विशेषतः ॥१५८॥
उत्सव प्रतिमाश्चापि त्रिशूलञ्च ध्वजस्तथा ।
स्नपनङ्कारयेत् तत्र स्तोत्रमङ्गलवाचकैः ॥१५९॥
हरिद्रानथ शुद्धान्नं सो पदंशं बलिं क्षिपेत् ।
ध्वजावरोहणङ्कृत्वा पूजान्ते तु विचक्षणः ॥१६०॥
प्रदक्षिणं ततः कृत्वा सन्धिदेवां विसर्जयेत् ।
यागोपयुक्त द्रव्याणि देशिकाय प्रदापयेत् ॥१६१॥
एवं यः कुरुते मर्त्त्य उत्सवं च शिवस्य तु ।
कुलैकविंशदुत्तार्य शिवलोकमवास्यति ॥१६२॥
शिवोत्सवमिदं प्रोक्तं स्नपनञ्च ततः शृणु ।
इति शिवोत्सवविधि पटलश्चतुदर्शः ॥१४॥
N/A
References : N/A
Last Updated : January 06, 2024
TOP